अध्यायः ९४
ब्रह्मोवाच:
श्वेततीर्थम् इति ख्यातं त्रैलोक्ये विश्रुतं शुभम् । तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
॥१॥श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा । आतिथ्यपूजानिरतो गौतमीतीरम् आश्रितः
॥२॥मनसा कर्मणा वाचा शिवभक्तिपरायणः । ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम्
॥३॥पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् । नेतुं दूताः समाजग्मुर् दक्षिणाशापतेस् तदा
॥४॥नाशक्नुवन् गृहं तस्य प्रवेष्टुम् अपि नारद । तदा काले व्यतिक्रान्ते चित्रको मृत्युम् अब्रवीत्
॥५॥चित्रक उवाच:
किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्व् इति । नाद्याप्य् आयान्ति दूतास् ते मृत्योर् नैवोचितं तु ते
॥६॥ब्रह्मोवाच:
ततश् च कुपितो मृत्युः प्रायाच् छ्वेतगृहं स्वयम् । बहिःस्थितांस् तदा पश्यन् मृत्युर् दूतान् भयार्दितान् । प्रोवाच किम् इदं दूता मृत्युम् ऊचुश् च दूतकाः
॥७॥दूता ऊचुः:
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः । येषां प्रसन्नो गिरिशस् तेषां का नाम भीतयः
॥८॥ब्रह्मोवाच:
पाशपाणिस् तदा मृत्युः प्राविशद् यत्र स द्विजः । नासौ विप्रो विजानाति मृत्युं वा यमकिङ्करान्
॥९॥शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः । मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः
॥१०॥दण्ड्य् उवाच:
किम् अत्र वीक्षसे मृत्यो दण्डिनं मृत्युर् अब्रवीत्
॥११॥मृत्युर् उवाच:
श्वेतं नेतुम् इहायातस् तस्माद् वीक्षे द्विजोत्तमम्
॥१२॥ब्रह्मोवाच:
त्वं गच्छेत्य् अब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् । श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह
॥१३॥शिवदत्तेन दण्डेन दण्डी मृत्युम् अताडयत् । ततः पाशधरो मृत्युः पपात धरणीतले
॥१४॥ततस् ते सत्वरं दूता हतं मृत्युम् अवेक्ष्य च । यमाय सर्वम् अवदन् वधं मृत्योस् तु दण्डिना
॥१५॥ततश् च कुपितो धर्मो यमो महिषवाहनः । चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम्
॥१६॥महिषं भूतवेतालान् आधिव्याधींस् तथैव च । अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च
॥१७॥ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् । त्वरन्ताम् इति तान् उक्त्वा जगाम त्वरितो यमः
॥१८॥एतैर् अन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः । तम् आयान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः
॥१९॥विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् । तत्र तद् युद्धम् अभवत् सर्वलोकभयावहम्
॥२०॥कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिङ्करान् । दक्षिणाशापतिं चापि निजघान बलान्वितम्
॥२१॥हतावशिष्टा याम्यास् ते आदित्याय न्यवेदयन् । आदित्योऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम्
॥२२॥लोकपालैर् अनुवृतो ममान्तिकम् उपागमत् । अहं विष्णुश् च भगवान् इन्द्रोऽग्निर् वरुणस् तथा
॥२३॥चन्द्रादित्याव् अश्विनौ च लोकपाला मरुद्गणाः । एते चान्ये च बहवो वयं याता यमान्तिकम्
॥२४॥मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः । समुद्राश् च नदा नागा नानाभूतान्य् अनेकशः
॥२५॥तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् । तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः । कृताञ्जलिपुटाः शम्भुम् ऊचुः सर्वे पुनः पुनः
॥२६॥देवा ऊचुः:
भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वम् एव च । आदिकर्तर् नमस् तुभ्यं नीलकण्ठ नमोऽस्तु ते । ब्रह्मप्रिय नमस् तेऽस्तु देवप्रिय नमोऽस्तु ते
॥२७॥श्वेतं द्विजं भक्तम् अनायुषं ते । नेतुं यमादिः सकलोऽसमर्थः । सन्तोषम् आप्ताः परमं समीक्ष्य । भक्तप्रियत्वं त्वयि नाथ सत्यम्
॥२८॥ये त्वां प्रपन्नाः शरणं कृपालुं । नालं कृतान्तोऽप्य् अनुवीक्षितुं तान् । एवं विदित्वा शिव एव सर्वे । त्वाम् एव भक्त्या परया भजन्ते
॥२९॥त्वम् एव जगतां नाथ किं न स्मरसि शङ्कर । त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुम् ईश्वरः
॥३०॥ब्रह्मोवाच:
एवं तु स्तुवतां तेषां पुरस्ताद् अभवच् छिवः । किं ददामीति तान् आह इदम् ऊचुः सुरा अपि
॥३१॥देवा ऊचुः:
अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् । धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः
॥३२॥नायं वधम् अवाप्नोति नापराधी न पापकृत् । विना तेन जगद्धातुर् नैव किञ्चिद् भविष्यति
॥३३॥तस्माज् जीवय देवेश यमं सबलवाहनम् । प्रार्थना सफला नाथ महत्सु न वृथा भवेत्
॥३४॥ब्रह्मोवाच:
ततः प्रोवाच भगवाञ् जीवयेयम् असंशयम् । यमं यदि वचो मेऽद्य अनुमन्यन्ति देवताः
॥३५॥ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् । हरिब्रह्मादिसहितं वशे यस्याखिलं जगत्
॥३६॥ततः प्रोवाच भगवान् अमरान् समुपागतान् । मद्भक्तो न मृतिं यातु नेत्य् ऊचुर् अमराः पुनः
॥३७॥अमराः स्युस् ततो देव सर्वलोकाश् चराचराः । अमर्त्यमर्त्यभेदोऽयं न स्याद् देव जगन्मय
॥३८॥पुनर् अप्य् आह ताञ् शम्भुः शृण्वन्तु मम भाषितम् । मद्भक्तानां वैष्णवानां गौतमीम् अनुसेवताम्
॥३९॥वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यम् अर्हति । वार्त्ताप्य् एषां न कर्तव्या यमेन तु कदाचन
॥४०॥आधिव्याध्यादिभिर् जातु कार्यो नाभिभवः क्वचित् । ये शिवं शरणं यातास् ते मुक्तास् तत्क्षणाद् अपि
॥४१॥सानुगस्य यमस्यातो नमस्याः सर्व एव ते । तथेत्य् ऊचुः सुरगणा देवदेवं शिवं प्रति
॥४२॥ततश् च भगवान् नाथो नन्दिनं प्राह वाहनम्
॥४३॥शिव उवाच:
गौतम्या उदकेन त्वम् अभिषिञ्च मृतं यमम्
॥४४॥ब्रह्मोवाच:
ततो यमादयः सर्वे अभिषिक्तास् तु नन्दिना । उत्थिताश् च सजीवास् ते दक्षिणाशां ततो गताः
॥४५॥उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः । स्थिता आसन् पूजयन्तो देवदेवं महेश्वरम्
॥४६॥तत्रासन्न् अयुतान्य् अष्ट सहस्राणि चतुर्दश । तथा षट् च सहस्राणि पुनः षट् च तथैव च
॥४७॥षड् दक्षिणे तथा तीरे तीर्थानाम् अयुतत्रयम् । पुण्यम् आख्यानम् एतद् धि श्वेततीर्थस्य नारद
॥४८॥यत्रासौ पतितो मृत्युर् मृत्युतीर्थं तद् उच्यते । तस्य श्रवणमात्रेण सहस्रं जीवते समाः
॥४९॥तत्र स्नानं च दानं च सर्वपापप्रणाशनम् । श्रवणं पठनं चापि स्मरणं च मलक्षयम् । करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम्
॥५०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).