अध्यायः १६९
ब्रह्मोवाच:
भिल्लतीर्थम् इति ख्यातं रोगघ्नं पापनाशनम् । महादेवपदाम्भोजयुगभक्तिप्रदायकम्
॥१॥तत्राप्य् एवंविधां पुण्यां कथां शृणु महामते । गङ्गाया दक्षिणे तीरे श्रीगिरेर् उत्तरे तटे
॥२॥आदिकेश इति ख्यात ऋषिभिः परिपूजितः । महादेवो लिङ्गरूपी सदास्ते सर्वकामदः
॥३॥सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः । तस्य भ्राता वेद इति स चापि परमो ऋषिः
॥४॥तम् आदिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् । नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ
॥५॥भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः । याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः
॥६॥तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः । अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम्
॥७॥मुखे गृहीत्वा पानीयम् अभिषेकाय शूलिनः । न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम्
॥८॥आदिकेशं समागत्य न्यस्य मांसं ततो बहिः । गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम्
॥९॥यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः । अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः
॥१०॥आदिकेशं समागत्य वेदेनार्चितम् ओजसा । पादेनाहत्य तां पूजां मुखानीतेन वारिणा
॥११॥स्नापयित्वा शिवं देवम् अर्चयित्वा तु पत्त्रकैः । कल्पयित्वा तु तन् मांसं शिवो मे प्रीयताम् इति
॥१२॥नैव किञ्चित् स जानाति शिवभक्तिं विना शुभाम् । ततो याति स्वकं स्थानं मांसेन तु यथागतम्
॥१३॥करोत्य् एतादृग् आगत्य आगत्य प्रत्यहम् एव सः । तथापीशस् तुतोषास्य विचित्रा हीश्वरस्थितिः
॥१४॥यावन् नायात्य् असौ भिल्लः शिवस् तावन् न सौख्यभाक् । भक्तानुकम्पितां शम्भोर् मानातीतां तु वेत्ति कः
॥१५॥सम्पूजयत्य् आदिकेशम् उमया प्रत्यहं शिवम् । एवं बहुतिथे काले याते वेदश् चुकोप ह
॥१६॥पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् । को नु विध्वंसते पापो मत्तः स वधम् आप्नुयात्
॥१७॥गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेर् अपि । सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन् नरः
॥१८॥एवं निश्चित्य मेधावी वेदः सिन्धोस् तथानुजः । कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः
॥१९॥पुष्पैर् वन्यभवैर् दिव्यैः कन्दैर् मूलफलैः शुभैः । कृतां पूजां स विध्वस्य ह्य् अन्यां पूजां करोति यः
॥२०॥मांसेन तरुपत्त्रैश् च स च वध्यो भवेन् मम । एवं सञ्चिन्त्य मेधावी गोपयित्वा तनुं तदा
॥२१॥तं पश्येयम् अहं पापं पूजाकर्तारम् ईश्वरे । एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा
॥२२॥नित्यवत् पूजयन्तं तम् आदिकेशस् तदाब्रवीत्
॥२३॥आदिकेश उवाच:
भो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः । चिराय कथम् आयातस् त्वां विना तात दुःखितः । न विन्दामि सुखं किञ्चित् समाश्वसिहि पुत्रक
॥२४॥ब्रह्मोवाच:
तम् एवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु । चुकोप विस्मयाविष्टो न च किञ्चिद् उवाच ह
॥२५॥व्याधश् च नित्यवत् पूजां कृत्वा स्वभवनं ययौ । वेदश् च कुपितो भूत्वा आगत्येशम् उवाच ह
॥२६॥वेद उवाच:
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः । प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु
॥२७॥हीनजातिर् अकिञ्चिज्ज्ञो गुरुक्रमविवर्जितः । सदानुचितकारी चानिर्जिताखिलगोगणः
॥२८॥तस्यात्मानं दर्शितवान् न मां किञ्चन वक्ष्यसि । पूजां मन्त्रविधानेन करोमीश यतव्रतः
॥२९॥त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः । व्याधो मांसेन दुष्टेन पूजां तव करोत्य् असौ
॥३०॥तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम् । शास्तिम् अस्य करिष्यामि भिल्लस्य ह्य् अपकारिणः
॥३१॥मृदोः कोपि भवेत् प्रीतः कोपि तद्वद् दुरात्मनः । तस्माद् अहं मूर्ध्नि शिलां पातयेयम् असंशयम्
॥३२॥ब्रह्मोवाच:
इत्य् उक्तवति वै वेदे विहस्येशोऽब्रवीद् इदम्
॥३३॥आदिकेश उवाच:
श्वः प्रतीक्षस्व पश्चान् मे शिलां पातय मूर्धनि
॥३४॥ब्रह्मोवाच:
तथेत्य् उक्त्वा स वेदोऽपि शिलां सन्त्यज्य बाहुना । उपसंहृत्य तं कोपं श्वः करोमीत्य् उवाच ह
॥३५॥ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च । वेदोऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके
॥३६॥लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् । वेदः स विस्मितो भूत्वा किम् इदं लिङ्गमूर्धनि
॥३७॥महोत्पातो भवेत् कस्य सूचयेद् इत्य् अचिन्तयत् । मृद्भिश् च गोमयेनापि कुशैस् तं गाङ्गवारिभिः
॥३८॥प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा । एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः
॥३९॥मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके । शङ्करस्यादिकेशस्य ददृशेऽन्तर्गतस् तदा
॥४०॥दृष्ट्वैव किम् इदं चित्रम् इत्य् उक्त्वा निशितैः शरैः । आत्मानं भेदयाम् आस शतधा च सहस्रधा
॥४१॥स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः । मुहुर् निनिन्द चात्मानं मयि जीवत्य् अभूद् इदम्
॥४२॥कष्टम् आपतितं कीदृग् अहो दुर्विधिवैशसात् । तत् कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः । ततः प्रोवाच भगवान् वेदं वेदविदां वरम्
॥४३॥आदिकेश उवाच:
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् । त्वं तु मृद्भिः कुशैर् वार्भिर् मूर्धानं स्पृष्टवान् असि
॥४४॥अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः । भक्तिः प्रेमाथवा शक्तिर् विचारो यत्र विद्यते । तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम
॥४५॥ब्रह्मोवाच:
वरेण च्छन्दयाम् आस व्याधं देवो महेश्वरः । व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत्
॥४६॥तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थम् उच्यताम् । सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम्
॥४७॥ब्रह्मोवाच:
तथेत्य् उवाच देवेशस् ततस् तत् तीर्थम् उत्तमम् । भिल्लतीर्थं समस्ताघसङ्घविच्छेदकारणम्
॥४८॥श्रीमहादेवचरणमहाभक्तिविधायकम् । अभवत् स्नानदानाद्यैर् भुक्तिमुक्तिप्रदायकम् । वेदस्यापि वरान् प्रादाच् छिवो नानाविधान् बहून्
॥४९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).