अध्यायः २९
मुनय ऊचुः:
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम् । भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्
॥१॥न तृप्तिम् अधिगच्छामः शृण्वन्तः सुखदां कथाम् । तव वक्त्रोद्भवां पुण्याम् आदित्यस्याघनाशिनीम्
॥२॥अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर । देवपूजाफलं यच् च यच् च दानफलं प्रभो
॥३॥प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे । दीपधूपप्रदाने च सम्मार्जनविधौ च यत्
॥४॥उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने । अर्घश् च कीदृशः प्रोक्तः कुत्र वा सम्प्रदीयते
॥५॥कथं च क्रियते भक्तिः कथं देवः प्रसीदति । एतत् सर्वं सुरश्रेष्ठ श्रोतुम् इच्छामहे वयम्
॥६॥ब्रह्मोवाच:
अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः । भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत
॥७॥मनसा भावना भक्तिर् इष्टा श्रद्धा च कीर्त्यते । ध्यानं समाधिर् इत्य् उक्तं शृणुध्वं सुसमाहिताः
॥८॥तत्कथां श्रावयेद् यस् तु तद्भक्तान् पूजयीत वा । अग्निशुश्रूषकश् चैव स वै भक्तः सनातनः
॥९॥तच्चित्तस् तन्मनाश् चैव देवपूजारतः सदा । तत्कर्मकृद् भवेद् यस् तु स वै भक्तः सनातनः
॥१०॥देवार्थे क्रियमाणानि यः कर्माण्य् अनुमन्यते । कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः
॥११॥नाभ्यसूयेत तद्भक्तान् न निन्द्याच् चान्यदेवताम् । आदित्यव्रतचारी च स वै भक्ततरो नरः
॥१२॥गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि । यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः
॥१३॥एवंविधा त्व् इयं भक्तिः सदा कार्या विजानता । भक्त्या समाधिना चैव स्तवेन मनसा तथा
॥१४॥क्रियते नियमो यस् तु दानं विप्राय दीयते । प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस् तथा
॥१५॥पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम् । प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च
॥१६॥भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत्
॥१७॥स्तुतिजप्योपहारेण पूजयापि विवस्वतः । उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते
॥१८॥प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः । तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः
॥१९॥भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
॥२०॥सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम् । प्रदक्षिणीकृतास् तेन सर्वे देवा भवन्ति हि
॥२१॥एकाहारो नरो भूत्वा षष्ठ्यां योऽर्चयते रविम् । नियमव्रतचारी च भवेद् भक्तिसमन्वितः
॥२२॥सप्तम्यां वा महाभागाः सोऽश्वमेधफलं लभेत् । अहोरात्रोपवासेन पूजयेद् यस् तु भास्करम्
॥२३॥सप्तम्याम् अथवा षष्ठ्यां स याति परमां गतिम् । कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः
॥२४॥सर्वरत्नोपहारेण पूजयेद् यस् तु भास्करम् । पद्मप्रभेण यानेन सूर्यलोकं स गच्छति
॥२५॥शुक्लपक्षस्य सप्तम्याम् उपवासपरो नरः । सर्वशुक्लोपहारेण पूजयेद् यस् तु भास्करम्
॥२६॥सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति । अर्कसम्पुटसंयुक्तम् उदकं प्रसृतं पिबेत्
॥२७॥क्रमवृद्ध्या चतुर्विंशम् एकैकं क्षपयेत् पुनः । द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत्
॥२८॥सर्वकामप्रदा ह्य् एषा प्रशस्ता ह्य् अर्कसप्तमी । शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत्
॥२९॥सप्तमी विजया नाम तत्र दत्तं महत् फलम् । स्नानं दानं तपो होम उपवासस् तथैव च
॥३०॥सर्वं विजयसप्तम्यां महापातकनाशनम् । ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः
॥३१॥यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम् । येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम्
॥३२॥न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा । श्वेतया रक्तया वापि पीतमृत्तिकयापि वा
॥३३॥उपलेपनकर्ता तु चिन्तितं लभते फलम् । चित्रभानुं विचित्रैस् तु कुसुमैश् च सुगन्धिभिः
॥३४॥पूजयेत् सोपवासो यः स कामान् ईप्सितांल् लभेत् । घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः
॥३५॥आदित्यं पूजयेद् यस् तु चक्षुषा न स हीयते । दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते
॥३६॥तिलाः पवित्रं तैलं वा तिलगोदानम् उत्तमम् । अग्निकार्ये च दीपे च महापातकनाशनम्
॥३७॥दीपं ददाति यो नित्यं देवतायतनेषु च । चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत्
॥३८॥हविर्भिः प्रथमः कल्पो द्वितीयश् चौषधीरसैः । वसामेदोस्थिनिर्यासैर् न तु देयः कथञ्चन
॥३९॥भवेद् ऊर्ध्वगतिर् दीपो न कदाचिद् अधोगतिः । दाता दीप्यति चाप्य् एवं न तिर्यग्गतिम् आप्नुयात्
॥४०॥ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत् । दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत्
॥४१॥दीपदाता स्वर्गलोके दीपमालेव राजते । यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः
॥४२॥सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया । रक्तचन्दनसम्मिश्रै रक्तपुष्पैः शुचिर् नरः
॥४३॥उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल् लभेत् । उदयात् परिवर्तेत यावद् अस्तमने स्थितः
॥४४॥जपन्न् अभिमुखः किञ्चिन् मन्त्रं स्तोत्रम् अथापि वा । आदित्यव्रतम् एतत् तु महापातकनाशनम्
॥४५॥अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत् । उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते
॥४६॥सुवर्णधेनुअनड्वाहवसुधावस्त्रसंयुतम् । अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्
॥४७॥अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च । प्रतिमायां तथा पिण्ड्यां देयम् अर्घ्यं प्रयत्नतः
॥४८॥नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा । सघृतं गुग्गुलं वापि रवेर् भक्तिसमन्वितः
॥४९॥तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः । श्रीवासं चतुरस्रं च देवदारुं तथैव च
॥५०॥कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः । अयने तूत्तरे सूर्यम् अथवा दक्षिणायने
॥५१॥पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । विषुवेषूपरागेषु षडशीतिमुखेषु च
॥५२॥पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते । एवं वेलासु सर्वासु सर्वकालं च मानवः
॥५३॥भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते । कृसरैः पायसैः पूपैः फलमूलघृतौदनैः
॥५४॥बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात् । घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः
॥५५॥क्षीरेण तर्पणं कृत्वा मनस् तापैर् न युज्यते । दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः
॥५६॥स्नानार्थम् आहरेद् यस् तु जलं भानोः समाहितः । तीर्थेषु शुचितापन्नः स याति परमां गतिम्
॥५७॥छत्त्रं ध्वजं वितानं वा पताकां चामराणि च । श्रद्धया भानवे दत्त्वा गतिम् इष्टाम् अवाप्नुयात्
॥५८॥यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति । तत् तस्य शतसाहस्रम् उत्पादयति भास्करः
॥५९॥मानसं वाचिकं वापि कायजं यच् च दुष्कृतम् । सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति
॥६०॥एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम् । यथोक्तदक्षिणैर् विप्रैर् न तत् क्रतुशतैर् अपि
॥६१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).