अध्यायः १६२
ब्रह्मोवाच:
मन्युतीर्थम् इति ख्यातं सर्वपापप्रणाशनम् । सर्वकामप्रदं नॄणां स्मरणाद् अघनाशनम्
॥१॥तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने । देवानां दानवानां च सङ्गरोऽभून् मिथः पुरा
॥२॥तत्राजयन् नैव सुरा दानवा जयिनोऽभवन् । पराङ्मुखाः सुरगणाः सङ्गराद् गतचेतसः
॥३॥माम् अभ्येत्य समूचुस् ते देहि नोऽभयकारणम् । तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः
॥४॥तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् । अनपायनिरायाससहजानन्दसुन्दरम्
॥५॥लप्स्यते सर्वविबुधा जयहेतुर् महेश्वरात् । तथेत्य् उक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम्
॥६॥तपोऽतप्यन्त केचिद् वै ननृतुश् च तथापरे । अस्नापयंश् च केचिच् चऽपूजयंश् च तथापरे
॥७॥ततः प्रसन्नो भगवाञ् शूलपाणिर् महेश्वरः । देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम्
॥८॥देवा ऊचुः सुरपतिं विजयाय ददस्व नः । पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम्
॥९॥यद्बाहुबलम् आश्रित्य भवामः सुखिनो वयम् । तथेत्य् उवाच भगवान् देवान् प्रति महेश्वरः
॥१०॥आत्मनस् तेजसा कश्चिन् निर्मितः परमेष्ठिना । मन्युनामानम् अत्युग्रं देवसैन्यपुरोगमम्
॥११॥तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वम् आलयम् । मन्युना सह चाभ्येत्य पुनर् युद्धाय तस्थिरे
॥१२॥युद्धे स्थित्वा तु दनुजैर् दैतेयैश् च महाबलैः । विबुधा जातसन्नद्धा मन्युम् ऊचुः पुरः स्थिताः
॥१३॥देवा ऊचुः:
सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः । तस्माद् दर्शय चात्मानं मन्योऽस्माकं युयुत्सताम्
॥१४॥ब्रह्मोवाच:
तद् देववचनं श्रुत्वा मन्युर् आह स्मयन्न् इव
॥१५॥मन्युर् उवाच:
जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः । यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम्
॥१६॥नैव कश्चिच् च तं वेत्ति यः सर्वं वेत्ति सर्वदा । अमूर्तं मूर्तम् अप्य् एतद् वेत्ति कर्ता जगन्मयः
॥१७॥परोऽसौ भगवान् साक्षात् तथा दिव्य् अन्तरिक्षगः । कस् तस्य रूपं यो वेद कस्य कर्ता जगन्मयः
॥१८॥एवंविधाद् अहं जातो मां कथं वेत्तुम् अर्हथ । अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत
॥१९॥ब्रह्मोवाच:
इत्य् उक्त्वा दर्शयाम् आस मन्यू रूपं स्वकं महत् । तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः
॥२०॥तेजसा सम्भृतं रूपं यतः सर्वं तद् उच्यते । पौरुषं पुरुषेष्व् एव अहङ्कारश् च जन्तुषु
॥२१॥क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् । तं शङ्करप्रतिनिधिं ज्वलन्तं निजतेजसा
॥२२॥सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः । वित्रेसुर् दैत्यदनुजाः कृताञ्जलिपुटाः सुराः
॥२३॥भूत्वा मन्युम् अथोचुस् ते त्वं सेनानीः प्रभो भव । त्वया दत्तम् इदं राज्यं मन्यो भोक्ष्यामहे वयम्
॥२४॥तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः । त्वम् इन्द्रस् त्वं च वरुणो लोकपालास् त्वम् एव च
॥२५॥अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै । मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किञ्चन
॥२६॥सर्वेष्व् अन्तः प्रविष्टोऽहं न मां जानाति कश्चन । स एव भगवान् मन्युस् ततो जातः पृथक् पृथक्
॥२७॥स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवोऽभवत् । स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना
॥२८॥तम् अवाप्य सुराः सर्वे जयम् आपुश् च सङ्गरे । जयो मन्युश् च शौर्यं च ईशतेजःसमुद्भवम्
॥२९॥मन्युना जयम् आप्याथ कृत्वा दैत्यैश् च सङ्गमम् । यथागतं ययुः सर्वे मन्युना परिरक्षिताः
॥३०॥यत्र वै गौतमीतीरे शिवम् आराध्य ते सुराः । मन्युम् आपुर् जयं चैव मन्युतीर्थं तद् उच्यते
॥३१॥उत्पत्तिं च तथा मन्योर् यो नरः प्रयतः स्मरेत् । विजयो जायते तस्य न कैश्चित् परिभूयते
॥३२॥न मन्युतीर्थसदृशं पावनं हि महामुने । यत्र साक्षान् मन्युरूपी सर्वदा शङ्करः स्थितः । तत्र स्नानं च दानं च स्मरणं सर्वकामदम्
॥३३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).