मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९१

3
ब्रह्मपुराणम् · 191

अध्यायः १९१

व्यास उवाच:

अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना । कृष्णसन्दर्शनासक्तः प्रययौ नन्दगोकुले

॥१॥

चिन्तयाम् आस चाक्रूरो नास्ति धन्यतरो मया । योऽहम् अंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः

॥२॥

अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यद् उन्निद्राब्जपत्त्राक्षं विष्णोर् द्रक्ष्याम्य् अहम् मुखम्

॥३॥

पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् । तत् पुण्डरीकनयनं विष्णोर् द्रक्ष्याम्य् अहं मुखम्

॥४॥

निर्जग्मुश् च यतो वेदा वेदाङ्गान्य् अखिलानि च । द्रक्ष्यामि यत् परं धाम देवानां भगवन्मुखम्

॥५॥

यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः । इज्यते योऽखिलाधारस् तं द्रक्ष्यामि जगत्पतिम्

॥६॥

इष्ट्वा यम् इन्द्रो यज्ञानां शतेनामरराजताम् । अवाप तम् अनन्तादिम् अहं द्रक्ष्यामि केशवम्

॥७॥

न ब्रह्मा नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः । यस्य स्वरूपं जानन्ति स्पृशत्य् अद्य स मे हरिः

॥८॥

सर्वात्मा सर्वगः सर्वः सर्वभूतेषु संस्थितः । यो भवत्य् अव्ययो व्यापी स वीक्ष्यते मयाद्य ह

॥९॥

मत्स्यकूर्मवराहाद्यैः सिंहरूपादिभिः स्थितम् । चकार योगतो योगं स माम् आलापयिष्यति

॥१०॥

साम्प्रतं च जगत्स्वामी कार्यजाते व्रजे स्थितिम् । कर्तुं मनुष्यतां प्राप्तः स्वेच्छादेहधृग् अव्ययः

॥११॥

योऽनन्तः पृथिवीं धत्ते शिखरस्थितिसंस्थिताम् । सोऽवतीर्णो जगत्यर्थे माम् अक्रूरेति वक्ष्यति

॥१२॥

पितृबन्धुसुहृद्भ्रातृमातृबन्धुमयीम् इमाम् । यन्मायां नालम् उद्धर्तुं जगत् तस्मै नमो नमः

॥१३॥

तरन्त्य् अविद्यां विततां हृदि यस्मिन् निवेशिते । योगमायाम् इमां मर्त्यास् तस्मै विद्यात्मने नमः

॥१४॥

यज्वभिर् यज्ञपुरुषो वासुदेवश् च शाश्वतैः । वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतोऽस्मि तम्

॥१५॥

तथा यत्र जगद् धाम्नि धार्यते च प्रतिष्ठितम् । सदसत्त्वं स सत्त्वेन मय्य् असौ यातु सौम्यताम्

॥१६॥

स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषप्रवरं नित्यं व्रजामि शरणं हरिम्

॥१७॥

व्यास उवाच:

इत्थं स चिन्तयन् विष्णुं भक्तिनम्रात्ममानसः । अक्रूरो गोकुलं प्राप्तः किञ्चित् सूर्ये विराजति

॥१८॥

स ददर्श तदा तत्र कृष्णम् आदोहने गवाम् । वत्समध्यगतं फुल्लनीलोत्पलदलच्छविम्

॥१९॥

प्रफुल्लपद्मपत्त्राक्षं श्रीवत्साङ्कितवक्षसम् । प्रलम्बबाहुम् आयामतुङ्गोरस्थलम् उन्नसम्

॥२०॥

सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् । तुङ्गरक्तनखं पद्भ्यां धरण्यां सुप्रतिष्ठितम्

॥२१॥

बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् । सान्द्रनीललताहस्तं सिताम्भोजावतंसकम्

॥२२॥

हंसेन्दुकुन्दधवलं नीलाम्बरधरं द्विजाः । तस्यानु बलभद्रं च ददर्श यदुनन्दनम्

॥२३॥

प्रांशुम् उत्तुङ्गबाहुं च विकाशिमुखपङ्कजम् । मेघमालापरिवृतं कैलासाद्रिम् इवापरम्

॥२४॥

तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः । पुलकाञ्चितसर्वाङ्गस् तदाक्रूरोऽभवद् द्विजाः

॥२५॥

य एतत् परमं धाम एतत् तत् परमं पदम् । अभवद् वासुदेवोऽसौ द्विधा योऽयं व्यवस्थितः

॥२६॥

साफल्यम् अक्ष्णोर् युगपन् ममास्तु । दृष्टे जगद्धातरि हासम् उच्चैः । अप्य् अङ्गम् एतद् भगवत्प्रसादाद् । दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात्

॥२७॥

अद्यैव स्पृष्ट्वा मम हस्तपद्मं । करिष्यति श्रीमदनन्तमूर्तिः । यस्याङ्गुलिस्पर्शहताखिलाघैर् । अवाप्यते सिद्धिर् अनुत्तमा नरैः

॥२८॥

तथाश्विरुद्रेन्द्रवसुप्रणीता । देवाः प्रयच्छन्ति वरं प्रहृष्टाः । चक्रं घ्नता दैत्यपतेर् हृतानि । दैत्याङ्गनानां नयनान्तराणि

॥२९॥

यत्राम्बु विन्यस्य बलिर् मनोभ्याम् । अवाप भोगान् वसुधातलस्थः । तथामरेशस् त्रिदशाधिपत्यं । मन्वन्तरं पूर्णम् अवाप शक्रः

॥३०॥

अथेश मां कंसपरिग्रहेण । दोषास्पदीभूतम् अदोषयुक्तम् । कर्ता न मानोपहितं धिग् अस्तु । यस्मान् मनः साधुबहिष्कृतो यः

॥३१॥

ज्ञानात्मकस्याखिलसत्त्वराशेर् । व्यावृत्तदोषस्य सदास्फुटस्य । किं वा जगत्य् अत्र समस्तपुंसाम् । अज्ञातम् अस्यास्ति हृदि स्थितस्य

॥३२॥

तस्माद् अहं भक्तिविनम्रगात्रो । व्रजामि विश्वेश्वरम् ईश्वराणाम् । अंशावतारं पुरुषोत्तमस्य । अनादिमध्यान्तम् अजस्य विष्णोः

॥३३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).