मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ७६

3
ब्रह्मपुराणम् · 76

अध्यायः ७६

नारद उवाच:

महेश्वरजटाजुटाद् गङ्गाम् आदाय गौतमः । आगत्य ब्रह्मणः पुण्ये ततः किम् अकरोद् गिरौ

॥१॥

ब्रह्मोवाच:

आदाय गौतमो गङ्गां शुचिः प्रयतमानसः । पूजितो देवगन्धर्वैस् तथा गिरिनिवासिभिः

॥२॥

गिरेर् मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् । उवाच प्राञ्जलिर् भूत्वा गङ्गां स द्विजसत्तमः

॥३॥

गौतम उवाच:

त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि । क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु

॥४॥

ब्रह्मोवाच:

एवम् उक्ता गौतमेन गङ्गा प्रोवाच गौतमम् । दिव्यरूपधरा देवी दिव्यस्रगनुलेपना

॥५॥

गङ्गोवाच:

गच्छेयं देवसदनम् अथवापि कमण्डलुम् । रसातलं वा गच्छेयं जातस् त्वं सत्यवाग् असि

॥६॥

गौतम उवाच:

त्रयाणाम् उपकारार्थं लोकानां याचिता मया । शम्भुना च तथा दत्ता देवि तन् नान्यथा भवेत्

॥७॥

ब्रह्मोवाच:

तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् । त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले

॥८॥

स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले । रसातले चतुर्धैव सैवं पञ्चदशाकृतिः

॥९॥

सर्वत्र सर्वभूतैव सर्वपापविनाशिनी । सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते

॥१०॥

मर्त्या मर्त्यगताम् एव पश्यन्ति न तलं गताम् । नैव स्वर्गगतां मर्त्याः पश्यन्त्य् अज्ञानबुद्धयः

॥११॥

यावत् सागरगा देवी तावद् देवमयी स्मृता । उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति

॥१२॥

ततो देवर्षिभिर् जुष्टां मातरं जगतः शुभाम् । गौतमो मुनिशार्दूलः प्रदक्षिणम् अथाकरोत्

॥१३॥

त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः । उभयोस् तीरयोः स्नानं करोमीति दधे मतिम्

॥१४॥

स्मृतमात्रस् तदा तत्र आविरासीत् करुणार्णवः । तत्र स्नानं कथं सिध्येद् इत्य् एवं शर्वम् अब्रवीत्

॥१५॥

कृताञ्जलिपुटो भूत्वा भक्तिनम्रस् त्रिलोचनम्

॥१६॥

गौतम उवाच:

देवदेव महेशान तीर्थस्नानविधिं मम । ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया

॥१७॥

शिव उवाच:

महर्षे शृणु सर्वं च विधिं गोदावरीभवम् । पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च

॥१८॥

ब्राह्मणान् भोजयित्वा च तेषाम् आज्ञां प्रगृह्य च । ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः

॥१९॥

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् । विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते

॥२०॥

भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः । श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम्

॥२१॥

अकिञ्चनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् । शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् । अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत्

॥२२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).