मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ८६

3
ब्रह्मपुराणम् · 86

अध्यायः ८६

ब्रह्मोवाच:

अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थम् इति श्रुतम् । तत्र स्नानान् नरो भक्त्या हरेर् लोकम् अवाप्नुयात्

॥१॥

एकादश्यां तु शुक्लायाम् उपोष्य पृथिवीपते । गणिकासङ्गमे स्नात्वा प्राप्नुयाद् अक्षयं पदम्

॥२॥

पुरा तत्र यथा वृत्तं तन् मे निगदतः शृणु । आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः

॥३॥

उत्तरे वयसि श्रेष्ठस् तस्य पुत्रोऽभवद् ऋषे । गुणवान् रूपसम्पन्नो विलासी शुभदर्शनः

॥४॥

प्राणेभ्योऽपि प्रियः पुत्रः काले पञ्चत्वम् आगतः । तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ

॥५॥

कुर्वाते स्म तदा तेन सहैव मरणे मतिम् । हा पुत्र हन्त कालेन पापेन सुदुरात्मना

॥६॥

यौवने वर्तमानोऽपि नीतोऽसि गुणसागर । आवयोश् च तथैव त्वं प्राणेभ्योऽपि सुदुर्लभः

॥७॥

इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः । त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः

॥८॥

गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् । अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः

॥९॥

इयत इति मे पृथ्वी कथ्यतां केन पूरिता । न कश्चिन् म्रियते जन्तुर् भाराक्रान्ता वसुन्धरा

॥१०॥

ततो देवी गता तूर्णं वसुधा मुनिसत्तम । यत्रास्ति सुरसंयुक्तः शक्रः परपुरञ्जयः । दृष्ट्वा वसुन्धराम् इन्द्रः प्रणिपत्येदम् अब्रवीत्

॥११॥

इन्द्र उवाच:

किम् आगमनकार्यं त इति मे पृथ्वि कथ्यताम्

॥१२॥

धरोवाच:

भारेण गुरुणा शक्र पीडिताहं विना वधम् । कारणं प्रष्टुम् आयाता किम् इदं कथ्यतां मम

॥१३॥

ब्रह्मोवाच:

इति श्रुत्वा महीवाक्यम् इन्द्रो वचनम् अब्रवीत्

॥१४॥

इन्द्र उवाच:

कारणं यदि नाम स्यात् तदानीं ज्ञायते मया । सुराणां हि पतिर् यस्माद् अहं सर्वासु मेदिनि

॥१५॥

ब्रह्मोवाच:

अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् । यम आदिश्यतां तर्हि यथा संहरते प्रजाः

॥१६॥

इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिन्नराः । यमस्यानयने शीघ्रं महेन्द्रेण महामुने

॥१७॥

ततस् ते सत्वरं याताः सर्वे वैवस्वतं पुरम् । नैवापश्यन् यमं तत्र ते सिद्धाः सह किन्नरैः । तथागत्य पुनर् वेगाद् वार्त्ता शक्रे निवेदिता

॥१८॥

सिद्धकिन्नरा ऊचुः:

यमो यमपुरे नाथ अस्माभिर् नावलोकितः । महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः

॥१९॥

ब्रह्मोवाच:

इति श्रुत्वा वचस् तेषां पृष्टः शक्रेण वै तदा । सविता स पिता तस्य यमः कुत्रास्त इत्य् अथ

॥२०॥

सूर्य उवाच:

शक्र गोदावरीतीरे कृतान्तो वर्ततेऽधुना । चरंस् तत्र तपस् तीव्रं न जाने किं नु कारणम्

॥२१॥

ब्रह्मोवाच:

इति श्रुत्वा वचो भानोः शक्रः शङ्काम् उपाविशत्

॥२२॥

शक्र उवाच:

अहो कष्टं महाकष्टं नष्टा मे सुरनाथता । गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः । जिघृक्षुर् मत्पदं नूनं देवा इति मतिर् मम

॥२३॥

ब्रह्मोवाच:

इत्य् उक्त्वा सहसेन्द्रेण आहूतश् चाप्सरोगणः

॥२४॥

इन्द्र उवाच:

का भवतीषु कालस्य स्थितस्य तपसि द्विषः । तपःप्रणाशने शक्ता इति मे शीघ्रम् उच्यताम्

॥२५॥

ब्रह्मोवाच:

इति शक्रवचः श्रुत्वा नोचे कापि महामुने । अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम्

॥२६॥

इन्द्र उवाच:

उत्तरं नाब्रवीत् किञ्चिद् यामस् तर्हि वयं स्वयम् । सज्जा भवन्तु विबुधाः सैन्यैर् आयान्तु मा चिरम् । घातयामो वयं शत्रुं तपसा स्वर्गकामुकम्

॥२७॥

ब्रह्मोवाच:

इत्य् उक्ते सति देवानां सेना प्रादुर्बभूव ह । इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा

॥२८॥

प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि । चक्रं यत्राभवत् तत्र चक्रतीर्थम् अनुत्तमम्

॥२९॥

अथेन्द्रं मेनका प्राह शङ्कितेति वचस् तदा

॥३०॥

मेनकोवाच:

कालावलोकने नालं काचिद् अस्ति सुरेश्वर । मरणं च वरं देव भवतो न यमात् पुनः

॥३१॥

रूपयौवनमत्तेयं गणिकायाचनं प्रभो । प्रेषणं तत् प्रयच्छैषा स्वामित्वं मन्यते त्वया

॥३२॥

ब्रह्मोवाच:

इति श्रुत्वा वचस् तस्याः शक्रः सुरवरेश्वरः । आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा

॥३३॥

शक्र उवाच:

गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् । कृतकृत्यागता भूयो वल्लभा मे यथा शची

॥३४॥

ब्रह्मोवाच:

इत्य् आकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः । क्षणेन यमसान्निध्यम् आयाता चारुरूपिणी

॥३५॥

यमान्तिकम् अनुप्राप्ता द्योतयन्ती दिशो दश । सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम्

॥३६॥

ततश् चचाल कालस्य मनो लोलं चलाचलम् । अथोन्मील्य यमो नेत्रे कामपावकपूरिते

॥३७॥

तस्यां व्यापारयाम् आस श्रेयःशत्रौ महामुने । ततो विलीय सा सद्यः सरित्त्वम् अगमत् तदा

॥३८॥

गौतम्यां तु समागम्य गणिकागणकिङ्करैः । गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः

॥३९॥

गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति । विस्मयं परमं प्राप्तः कालस् तरललोचनः । अथादित्येन चागत्य एवम् उक्तो यमस् तदा

॥४०॥

सूर्य उवाच:

कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् । पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः । पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः

॥४१॥

ब्रह्मोवाच:

इति श्रुत्वा यमो वाक्यं पितुर् वचनम् अब्रवीत्

॥४२॥

यम उवाच:

एतन् न गर्हितं कर्म कुर्याम् अहम् इदं ध्रुवम् । कर्मण्य् अस्मिन् महाक्रूरे समादेष्टुं न वार्हसि

॥४३॥

इति श्रुत्वा च तद् वाक्यं भानुर् वचनम् अब्रवीत् । किं नाम गर्हितं कर्म तव कर्तुम् अलं यम

॥४४॥

किं न दृष्टा त्वया यान्ती गणिका गणकिङ्करैः । गीयमाना दिवं सद्यो गौतमीतोयम् आप्लुता

॥४५॥

त्वया चात्र तपस् तीव्रं कृतं पुत्र सुदुष्करम् । नैवान्तं तस्य पश्यामि तस्माद् गच्छ निजं पुरम्

॥४६॥

इत्य् उक्त्वा भगवान् भानुस् तत्र स्नात्वा गतो दिवम् । यमोऽपि सङ्गमे स्नात्वा ततो निजपुरं ययौ

॥४७॥

भूतहापि ततः शङ्कां तत्याज च महामुने । तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम्

॥४८॥

भगवान् यत्र गोविन्दो वनमालाविभूषितः । इति यः शृणुयान् मर्त्यः पठेद् वापि समाहितः

॥४९॥

आपदस् तस्य नश्यन्ति दीर्घम् आयुर् अवाप्नुयात्

॥५०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).