अध्यायः १०४
ब्रह्मोवाच:
विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् । वारुणं ब्राह्मम् आग्नेयम् ऐन्द्रम् ऐन्दवम् ऐश्वरम्
॥१॥मैत्रं च वैष्णवं चैव याम्यम् आश्विनम् औशनम् । एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे
॥२॥हरिश्चन्द्र इति त्व् आसीद् इक्ष्वाकुप्रभवो नृपः । तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस् तथा । कृत्वातिथ्यं तयोः सम्यग् घरिश्चन्द्रोऽब्रवीद् ऋषी
॥३॥हरिश्चन्द्र उवाच:
पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति । ज्ञानी वाप्य् अथवाज्ञानी उत्तमो मध्यमोऽथवा । एतं मे संशयं नित्यं ब्रूताम् ऋषिवराव् उभौ
॥४॥ब्रह्मोवाच:
ताव् ऊचतुर् हरिश्चन्द्रं पर्वतो नारदस् तथा
॥५॥नारदपर्वताव् ऊचतुः:
एकधा दशधा राजञ् शतधा च सहस्रधा । उत्तरं विद्यते सम्यक् तथाप्य् एतद् उदीर्यते
॥६॥नापुत्रस्य परो लोको विद्यते नृपसत्तम । जाते पुत्रे पिता स्नानं यः करोति जनाधिप
॥७॥दशानाम् अश्वमेधानाम् अभिषेकफलं लभेत् । आत्मप्रतिष्ठा पुत्रात् स्याज् जायते चामरोत्तमः
॥८॥अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः । त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान्
॥९॥किं तु मूलं किम् उ जलं किं तु श्मश्रूणि किं तपः । विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः
॥१०॥पुत्र एव परो लोको धर्मः कामोऽर्थ एव च । पुत्रो मुक्तिः परं ज्योतिस् तारकः सर्वदेहिनाम्
॥११॥विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ । पुत्र एव परो लोके धर्मकामार्थसिद्धये
॥१२॥विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् । विना पुत्रेण यज् जन्म व्यर्थं तद् अवभाति मे
॥१३॥तस्मात् पुत्रसमं किञ्चित् काम्यं नास्ति जगत्त्रये । तच् छ्रुत्वा विस्मयवांस् ताव् उवाच नृपः पुनः
॥१४॥हरिश्चन्द्र उवाच:
कथं मे स्यात् सुतो ब्रूतां यत्र क्वापि यथातथम् । येन केनाप्य् उपायेन कृत्वा किञ्चित् तु पौरुषम् । मन्त्रेण यागदानाभ्याम् उत्पाद्योऽसौ सुतो मया
॥१५॥ब्रह्मोवाच:
ताव् ऊचतुर् नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् । ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद
॥१६॥तत्रापाम्पतिर् उत्कृष्टं ददाति मनसीप्सितम् । वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः
॥१७॥स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति । एतच् छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत्
॥१८॥तोषयाम् आस वरुणं गौतमीतीरम् आश्रितः । ततश् च तुष्टो वरुणो हरिश्चन्द्रम् उवाच ह
॥१९॥वरुण उवाच:
पुत्रं दास्यामि ते राजंल् लोकत्रयविभूषणम् । यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम्
॥२०॥ब्रह्मोवाच:
हरिश्चन्द्रोऽपि वरुणं यक्ष्ये तेनेत्य् अवोचत । ततो गत्वा हरिश्चन्द्रश् चरुं कृत्वा तु वारुणम्
॥२१॥भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् । जाते पुत्रे अपाम् ईशः प्रोवाच वदतां वरः
॥२२॥वरुण उवाच:
अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा
॥२३॥ब्रह्मोवाच:
हरिश्चन्द्रोऽपि वरुणं प्रोवाचेदं क्रमागतम्
॥२४॥हरिश्चन्द्र उवाच:
निर्दशो मेध्यतां याति पशुर् यक्ष्ये ततो ह्य् अहम्
॥२५॥ब्रह्मोवाच:
तच् छ्रुत्वा वचनं राज्ञो वरुणोऽगात् स्वम् आलयम् । निर्दशे पुनर् अभ्येत्य यजस्वेत्य् आह तं नृपम्
॥२६॥राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः । पशोर् दन्तेषु जातेषु एहि गच्छाधुनाप्पते
॥२७॥तच् छ्रुत्वा राजवचनं पुनः प्रायाद् अपाम्पतिः । जातेषु चैव दन्तेषु सप्तवर्षेषु नारद
॥२८॥पुनर् अप्य् आह राजानं यजस्वेति ततोऽब्रवीत् । राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते
॥२९॥सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना । पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद । यजस्वेति नृपं प्राह राजा प्राह त्व् अपाम्पतिम्
॥३०॥राजोवाच:
यदा तु क्षत्रियो यज्ञे पशुर् भवति वारिप । धनुर्वेदं यदा वेत्ति तदा स्यात् पशुर् उत्तमः
॥३१॥ब्रह्मोवाच:
तच् छ्रुत्वा राजवचनं वरुणोऽगात् स्वम् आलयम् । यदास्त्रेषु च शस्त्रेषु समर्थोऽभूत् स रोहितः
॥३२॥सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्व् अरिन्दमः । युवराज्यम् अनुप्राप्ते रोहिते षोडशाब्दिके
॥३३॥प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः । आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम्
॥३४॥ओम् इत्य् उक्त्वा नृपवर ऋत्विजः प्राह भूपतिः । रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च
॥३५॥हरिश्चन्द्र उवाच:
एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि
॥३६॥ब्रह्मोवाच:
किम् एतद् इत्य् अथोवाच रोहितः पितरं प्रति । पितापि तद् यथावृत्तम् आचचक्षे सविस्तरम् । रोहितः पितरं प्राह शृण्वतो वरुणस्य च
॥३७॥रोहित उवाच:
अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः । विष्णवे लोकनाथाय यक्ष्येऽहं त्वरितं शुचिः । पशुना वरुणेनाथ तद् अनुज्ञातुम् अर्हसि
॥३८॥ब्रह्मोवाच:
रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस् तदा । कोपेन महताविष्टो जलोदरम् अथाकरोत्
॥३९॥हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ । गृहीत्वा स धनुर् दिव्यं रथारूढो गतव्यथः
॥४०॥यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः । गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सोऽपि रोहितः
॥४१॥व्यतीतान्य् अथ वर्षाणि पञ्च षष्ठे प्रवर्तति । तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम्
॥४२॥मया पुत्रेण जातेन पितुर् वै क्लेशकारिणा । किं फलं किं नु कृत्यं स्याद् इत्य् एवं पर्यचिन्तयत्
॥४३॥तस्यास् तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः । गङ्गातीरे वर्तमानम् अपश्यद् ऋषिसत्तमम्
॥४४॥अजीगर्तम् इति ख्यातम् ऋषेस् तु वयसः सुतम् । त्रिभिः पुत्रैर् अनुवृतं भार्यया क्षीणवृत्तिकम् । तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचोऽब्रवीत्
॥४५॥रोहित उवाच:
क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे
॥४६॥ब्रह्मोवाच:
अजीगर्तोऽपि चोवाच रोहितं नृपतेः सुतम्
॥४७॥अजीगर्त उवाच:
वर्तनं नास्ति देहस्य भोक्तारो बहवश् च मे । विनान्नेन मरिष्यामो ब्रूहि किं करवामहे
॥४८॥ब्रह्मोवाच:
तच् छ्रुत्वा पुनर् अप्य् आह नृपपुत्र ऋषिं तदा
॥४९॥रोहित उवाच:
तव किं वर्तते चित्ते तद् ब्रूहि वदतां वर
॥५०॥अजीगर्त उवाच:
हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे । विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः
॥५१॥सुता मे सन्ति भार्या च अहं वै पञ्चमस् तथा । नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम
॥५२॥रोहित उवाच:
किं क्रीणासि महाबुद्धेऽजीगर्त सत्यम् एव मे । वद नान्यच् च वक्तव्यं विप्रा वै सत्यवादिनः
॥५३॥अजीगर्त उवाच:
त्रयाणाम् अपि पुत्राणाम् एकं वा मां तथैव च । भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम्
॥५४॥रोहित उवाच:
किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा । युवानं देहि पुत्रं मे पुत्राणां यं त्वम् इच्छसि
॥५५॥अजीगर्त उवाच:
ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित । माता कनीयसं चापि न क्रीणाति ततोऽनयोः । मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम्
॥५६॥रोहित उवाच:
वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः । यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने
॥५७॥ब्रह्मोवाच:
तथेत्य् उक्त्वा त्व् अजीगर्तः पुत्रमूल्यम् अकल्पयत् । गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् । राजपुत्र वरं देहि दास्यामि स्वसुतं तव
॥५८॥ब्रह्मोवाच:
तथेत्य् उक्त्वा रोहितोऽपि प्रादात् सवसनं धनम् । दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः । पित्रे निवेदयाम् आस क्रयक्रीतम् ऋषेः सुतम्
॥५९॥रोहित उवाच:
वरुणाय यजस्व त्वं पशुना त्वम् अरुग् भव
॥६०॥ब्रह्मोवाच:
तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम्
॥६१॥हरिश्चन्द्र उवाच:
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः । विशेषतस् तु वर्णानां गुरवो हि द्विजोत्तमाः
॥६२॥विष्णोर् अपि हि ये पूज्या मादृशाः कुत एव हि । अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः
॥६३॥तान् पशून् कृत्वा कृपणं कथं रक्षितुम् उत्सहे । अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते
॥६४॥वरं हि जातु मरणं न कथञ्चिद् द्विजं पशुम् । करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज
॥६५॥ब्रह्मोवाच:
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी
॥६६॥आकाशवाग् उवाच:
गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः । पशुना विप्रपुत्रेण रोहितेन सुतेन च
॥६७॥त्वया कार्यः क्रतुश् चैव शुनःशेपवधं विना । क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते
॥६८॥ब्रह्मोवाच:
तच् छ्रुत्वा वचनं शीघ्रं गङ्गाम् अगान् नृपोत्तमः । विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा
॥६९॥वामदेवेन ऋषिणा तथान्यैर् मुनिभिः सह । प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः
॥७०॥वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् । कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते
॥७१॥शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् । वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रोऽब्रवीद् इदम्
॥७२॥विश्वामित्र उवाच:
देवान् ऋषीन् हरिश्चन्द्रं रोहितं च विशेषतः । अनुजानन्त्व् इमं सर्वे शुनःशेपं द्विजोत्तमम्
॥७३॥येभ्यस् त्व् अयं हविर् देयो देवेभ्योऽयं पृथक् पृथक् । अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः
॥७४॥वसाभिर् लोमभिस् त्वग्भिर् मांसैः सन्मन्त्रितैर् मखे । अग्नौ होष्यः पशुश् चायं शुनःशेपो द्विजोत्तमः
॥७५॥उपासिताः स्युर् विप्रेन्द्रास् ते सर्वे त्व् अनुमन्य माम् । गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक्
॥७६॥मन्त्रैः स्तोत्रैः स्तुवन्तस् ते मुदं यान्तु शिवे रताः । एनं रक्षन्तु मुनयो देवाश् च हविषो भुजः
॥७७॥ब्रह्मोवाच:
तथेत्य् ऊचुश् च मुनयो मेने च नृपसत्तमः । ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम्
॥७८॥स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः । ततस् तुष्टाः सुरगणाः शुनःशेपं च ते मुने । अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः
॥७९॥सुरा ऊचुः:
क्रतुः पूर्णो भवत्व् एष शुनःशेपवधं विना
॥८०॥ब्रह्मोवाच:
विशेषेणाथ वरुणश् चावदन् नृपसत्तमम् । ततः पूर्णोऽभवद् राज्ञो नृमेधो लोकविश्रुतः
॥८१॥देवानां च प्रसादेन मुनीनां च प्रसादतः । तीर्थस्य तु प्रसादेन राज्ञः पूर्णोऽभवत् क्रतुः
॥८२॥विश्वामित्रः शुनःशेपं पूजयाम् आस संसदि । अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके
॥८३॥ज्येष्ठं चकार पुत्राणाम् आत्मनः स तु कौशिकः । न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः
॥८४॥शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः । ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयाम् आस तान् सुतान्
॥८५॥वरेण मुनिशार्दूलस् तद् एतत् कथितं मया । एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे
॥८६॥तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः । बहूनि तेषां नामानि मत्तः शृणु महामते
॥८७॥हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् । इत्याद्य् अष्ट सहस्राणि तीर्थान्य् अथ चतुर्दश
॥८८॥तेषु स्नानं च दानं च नरमेधफलप्रदम् । आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम
॥८९॥यः पठेत् पाठयेद् वापि शृणुयाद् वापि भक्तितः । अपुत्रः पुत्रम् आप्नोति यच् चान्यन् मनसः प्रियम्
॥९०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).