मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४५

3
ब्रह्मपुराणम् · 45

अध्यायः ४५

मुनय ऊचुः:

तस्मिन् क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे । किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो

॥१॥

येनासौ नृपतिस् तत्र गत्वा सबलवाहनः । स्थापयाम् आस कृष्णं च रामं भद्रां शुभप्रदाम्

॥२॥

संशयो नो महान् अत्र विस्मयश् च जगत्पते । श्रोतुम् इच्छामहे सर्वं ब्रूहि तत्कारणं च नः

॥३॥

ब्रह्मोवाच:

शृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम् । प्रवक्ष्यामि समासेन श्रिया पृष्टः पुरा हरिः

॥४॥

सुमेरोः काञ्चने शृङ्गे सर्वाश्चर्यसमन्विते । सिद्धविद्याधरैर् यक्षैः किन्नरैर् उपशोभिते

॥५॥

देवदानवगन्धर्वैर् नागैर् अप्सरसां गणैः । मुनिभिर् गुह्यकैः सिद्धैः सौपर्णैः समरुद्गणैः

॥६॥

अन्यैर् देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः । वालखिल्यादिभिश् चैव शोभिते सुमनोहरे

॥७॥

कर्णिकारवनैर् दिव्यैः सर्वर्तुकुसुमोत्करैः । जातरूपप्रतीकाशैर् भूषिते सूर्यसन्निभैः

॥८॥

अन्यैश् च बहुभिर् वृक्षैः शालतालादिभिर् वनैः । पुन्नागाशोकसरलन्यग्रोधाम्रातकार्जुनैः

॥९॥

पारिजाताम्रखदिरनीपबिल्वकदम्बकैः । धवखादिरपालाशशीर्षामलकतिन्दुकैः

॥१०॥

नारिङ्गकोलबकुललोध्रदाडिमदारुकैः । सर्जैश् च कर्णैस् तगरैः शिशिभूर्जवनिम्बकैः

॥११॥

अन्यैश् च काञ्चनैश् चैव फलभारैश् च नामितैः । नानाकुसुमगन्धाढ्यैर् भूषिते पुष्पपादपैः

॥१२॥

मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः । पाटलागस्त्यकुटजमन्दारकुसुमादिभिः

॥१३॥

अन्यैश् च विविधैः पुष्पैर् मनसः प्रीतिदायकैः । नानाविहगसङ्घैश् च कूजद्भिर् मधुरस्वरैः

॥१४॥

पुंस्कोकिलरुतैर् दिव्यैर् मत्तबर्हिणनादितैः । एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैस् तथा

॥१५॥

खगैर् नानाविधैश् चैव शोभिते सुरसेविते । तत्र स्थितं जगन्नाथं जगत्स्रष्टारम् अव्ययम्

॥१६॥

सर्वलोकविधातारं वासुदेवाख्यम् अव्ययम् । प्रणम्य शिरसा देवी लोकानां हितकाम्यया । पप्रच्छेमं महाप्रश्नं पद्मजा तम् अनुत्तमम्

॥१७॥

श्रीर् उवाच:

ब्रूहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम् । मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे

॥१८॥

लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे । येन मुच्येत देवेश अस्मात् संसारसागरात्

॥१९॥

आचक्ष्व सर्वदेवेश प्रणतां यदि मन्यसे । त्वदृते नास्ति लोकेऽस्मिन् वक्ता संशयनिर्णये

॥२०॥

ब्रह्मोवाच:

श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः । प्रोवाच परया प्रीत्या परं सारामृतोपमम्

॥२१॥

श्रीभगवान् उवाच:

सुखोपास्यः सुसाध्यश् चऽभिरामश् च सुसत्फलः । आस्ते तीर्थवरे देवि विख्यातः पुरुषोत्तमः

॥२२॥

न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते । कीर्तनाद् यस्य देवेशि मुच्यते सर्वपातकैः

॥२३॥

न विज्ञातोऽमरैः सर्वैर् न दैत्यैर् न च दानवैः । मरीच्याद्यैर् मुनिवरैर् गोपितं मे वरानने

॥२४॥

तत् तेऽहं सम्प्रवक्ष्यामि तीर्थराजं च साम्प्रतम् । भावेनैकेन सुश्रोणि शृणुष्व वरवर्णिनि

॥२५॥

आसीत् कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे । प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः

॥२६॥

तमोभूतम् इदं सर्वं न प्राज्ञायत किञ्चन । तस्मिञ् जागर्ति भूतात्मा परमात्मा जगद्गुरुः

॥२७॥

श्रीमांस् त्रिमूर्तिकृद् देवो जगत्कर्ता महेश्वरः । वासुदेवेति विख्यातो योगात्मा हरिर् ईश्वरः

॥२८॥

सोऽसृजद् योगनिद्रान्ते नाभ्यम्भोरुहमध्यगम् । पद्मकेशरसङ्काशं ब्रह्माणं भूतम् अव्ययम्

॥२९॥

तादृग्भूतस् ततो ब्रह्मा सर्वलोकमहेश्वरः । पञ्चभूतसमायुक्तं सृजते च शनैः शनैः

॥३०॥

मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च । चतुर्विधानि सर्वाणि स्थावराणि चराणि च

॥३१॥

ततः प्रजापतिर् ब्रह्मा चक्रे सर्वं चराचरम् । सञ्चिन्त्य मनसात्मानं ससर्ज विविधाः प्रजाः

॥३२॥

मरीच्यादीन् मुनीन् सर्वान् देवासुरपितॄन् अपि । यक्षविद्याधरांश् चान्यान् गङ्गाद्याः सरितस् तथा

॥३३॥

नरवानरसिंहांश् च विविधांश् च विहङ्गमान् । जरायून् अण्डजान् देवि स्वेदजोद्भेदजांस् तथा

॥३४॥

ब्रह्म क्षत्रं तथा वैश्यं शूद्रं चैव चतुष्टयम् । अन्त्यजातांश् च म्लेच्छांश् च ससर्ज विविधान् पृथक्

॥३५॥

यत् किञ्चिज् जीवसञ्ज्ञं तु तृणगुल्मपिपीलिकम् । ब्रह्मा भूत्वा जगत् सर्वं निर्ममे स चराचरम्

॥३६॥

दक्षिणाङ्गे तथात्मानं सञ्चिन्त्य पुरुषं स्वयम् । वामे चैव तु नारीं स द्विधा भूतम् अकल्पयत्

॥३७॥

ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः । अधमोत्तममध्याश् च मम क्षेत्राणि यानि च

॥३८॥

एवं सञ्चिन्त्य देवोऽसौ पुरा सलिलयोनिजः । जगाम ध्यानम् आस्थाय वासुदेवात्मिकां तनुम्

॥३९॥

ध्यानमात्रेण देवेन स्वयम् एव जनार्दनः । तस्मिन् क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात्

॥४०॥

सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः । सलिलध्वान्तमेघाभः श्रीमाञ् श्रीवत्सलक्षणः

॥४१॥

अपश्यत् सहसा तं तु ब्रह्मा लोकपितामहः । आसनैर् अर्घ्यपाद्यैश् च अक्षतैर् अभिनन्द्य च

॥४२॥

तुष्टाव परमैः स्तोत्रैर् विरिञ्चिः सुसमाहितः । ततोऽहम् उक्तवान् देवं ब्रह्माणं कमलोद्भवम् । कारणं वद मां तात मम ध्यानस्य साम्प्रतम्

॥४३॥

ब्रह्मोवाच:

जगद्धिताय देवेश मर्त्यलोकैश् च दुर्लभम् । स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च

॥४४॥

योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च । विहाय सर्वम् एतेषां सुखं तत्साधनं वद

॥४५॥

स्थानं जगत्पते मह्याम् उत्कृष्टं च यद् उच्यते । सर्वेषाम् उत्तमं स्थानं ब्रूहि मे पुरुषोत्तम

॥४६॥

विधातुर् वचनं श्रुत्वा ततोऽहं प्रोक्तवान् प्रिये । शृणु ब्रह्मन् प्रवक्ष्यामि निर्मलं भुवि दुर्लभम्

॥४७॥

उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम् । गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम्

॥४८॥

भुक्तिमुक्तिप्रदं नॄणां क्षेत्रं परमदुर्लभम् । महापुण्यं तु सर्वेषां सिद्धिदं वै पितामहे

॥४९॥

तस्माद् आसीत् समुत्पन्नं तीर्थराजं सनातनम् । विख्यातं परमं क्षेत्रं चतुर्युगनिषेवितम्

॥५०॥

सर्वेषाम् एव देवानाम् ऋषीणां ब्रह्मचारिणाम् । दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम्

॥५१॥

नागविद्याधराणां च स्थावरस्य चरस्य च । उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः

॥५२॥

दक्षिणस्योदधेस् तीरे न्यग्रोधो यत्र तिष्ठति । दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्

॥५३॥

यस् तु कल्पे समुत्पन्ने महदुल्कानिबर्हणे । विनाशं नैवम् अभ्येति स्वयं तत्रैवम् आस्थितः

॥५४॥

दृष्टमात्रे वटे तस्मिंश् छायाम् आक्रम्य चासकृत् । ब्रह्महत्यात् प्रमुच्येत पापेष्व् अन्येषु का कथा

॥५५॥

प्रदक्षिणा कृता यैस् तु नमस्कारश् च जन्तुभिः । सर्वे विधूतपाप्मानस् ते गताः केशवालयम्

॥५६॥

न्यग्रोधस्योत्तरे किञ्चिद् दक्षिणे केशवस्य तु । प्रासादस् तत्र तिष्ठेत् तु पदं धर्ममयं हि तत्

॥५७॥

प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम् । अनायासेन वै यान्ति भुवनं मे ततो नराः

॥५८॥

गच्छमानांस् तु तान् प्रेक्ष्य एकदा धर्मराट् प्रिये । मदन्तिकम् अनुप्राप्य प्रणम्य शिरसाब्रवीत्

॥५९॥

यम उवाच:

नमस् ते भगवन् देव लोकनाथ जगत्पते । क्षीरोदवासिनं देवं शेषभोगानुशायिनम्

॥६०॥

वरं वरेण्यं वरदं कर्तारम् अकृतं प्रभुम् । विश्वेश्वरम् अजं विष्णुं सर्वज्ञम् अपराजितम्

॥६१॥

नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम् । सर्वज्ञं निर्गुणं शान्तं जगद्धातारम् अव्ययम्

॥६२॥

सर्वलोकविधातारं सर्वलोकसुखावहम् । पुराणं पुरुषं वेद्यं व्यक्ताव्यक्तं सनातनम्

॥६३॥

परावराणां स्रष्टारं लोकनाथं जगद्गुरुम् । श्रीवत्सोरस्कसंयुक्तं वनमालाविभूषितम्

॥६४॥

पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् । हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम्

॥६५॥

सर्वलक्षणसम्पूर्णं सर्वेन्द्रियविवर्जितम् । कूटस्थम् अचलं सूक्ष्मं ज्योतीरूपं सनातनम्

॥६६॥

भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् । नमस्यामि जगन्नाथम् ईश्वरं सुखदं प्रभुम्

॥६७॥

इत्य् एवं धर्मराजस् तु पुरा न्यग्रोधसन्निधौ । स्तुत्वा नानाविधैः स्तोत्रैः प्रणामम् अकरोत् तदा

॥६८॥

तं दृष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम् । स्तोत्रस्य कारणं देवि पृष्टवान् अहम् अन्तकम्

॥६९॥

वैवस्वत महाबाहो सर्वदेवोत्तमो ह्य् असि । किमर्थं स्तुतवान् मां त्वं सङ्क्षेपात् तद् ब्रवीहि मे

॥७०॥

धर्मराज उवाच:

अस्मिन्न् आयतने पुण्ये विख्याते पुरुषोत्तमे । इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी

॥७१॥

तां दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया । श्वेताख्यं भवनं यान्ति निष्कामाश् चैव मानवाः

॥७२॥

अतः कर्तुं न शक्नोमि व्यापारम् अरिसूदन । प्रसीद सुमहादेव संहर प्रतिमां विभो

॥७३॥

श्रुत्वा वैवस्वतस्यैतद् वाक्यम् एतद् उवाच ह । यम तां गोपयिष्यामि सिकताभिः समन्ततः

॥७४॥

ततः सा प्रतिमा देवि वल्लिभिर् गोपिता मया । यथा तत्र न पश्यन्ति मनुजाः स्वर्गकाङ्क्षिणः

॥७५॥

प्रच्छाद्य वल्लिकैर् देवि जातरूपपरिच्छदैः । यमं प्रस्थापयाम् आस स्वां पुरीं दक्षिणां दिशम्

॥७६॥

ब्रह्मोवाच:

लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः । तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे

॥७७॥

यो भूतस् तत्र वृत्तान्तो देवदेवो जनार्दनः । तं सर्वं कथयाम् आस स तस्यै भगवान् पुरा

॥७८॥

इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा । क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा

॥७९॥

हयमेधस्य यजनं स्वप्नदर्शनम् एव च । लवणस्योदधेस् तीरे काष्ठस्य दर्शनं तथा

॥८०॥

दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः । निर्माणं प्रतिमायास् तु यथावर्णं विशेषतः

॥८१॥

स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे । यात्राकाले च विप्रेन्द्राः कल्पसङ्कीर्तनं तथा

॥८२॥

मार्कण्डेयस्य चरितं स्थापनं शङ्करस्य च । पञ्चतीर्थस्य माहात्म्यं दर्शनं शूलपाणिनः

॥८३॥

वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः । दर्शनं बलदेवस्य कृष्णस्य च विशेषतः

॥८४॥

सुभद्रायाश् च तत्रैव माहात्म्यं चैव सर्वशः । दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा

॥८५॥

अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् । श्वेतमाधवमाहात्म्यं स्वर्गद्वारस्य दर्शनम्

॥८६॥

उदधेर् दर्शनं चैव स्नानं तर्पणम् एव च । समुद्रस्नानमाहात्म्यम् इन्द्रद्युम्नस्य च द्विजाः

॥८७॥

पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च । स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा

॥८८॥

वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः । पूर्वं कथितवान् सर्वं तस्यै स पुरुषोत्तमः

॥८९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).