मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २३३

3
ब्रह्मपुराणम् · 233

अध्यायः २३३

व्यास उवाच:

सप्तर्षिस्थानम् आक्रम्य स्थितेऽम्भसि द्विजोत्तमाः । एकार्णवं भवत्य् एतत् त्रैलोक्यम् अखिलं ततः

॥१॥

अथ निःश्वासजो विष्णोर् वायुस् ताञ् जलदांस् ततः । नाशं नयति भो विप्रा वर्षाणाम् अधिकं शतम्

॥२॥

सर्वभूतमयोऽचिन्त्यो भगवान् भूतभावनः । अनादिर् आदिर् विश्वस्य पीत्वा वायुम् अशेषतः

॥३॥

एकार्णवे ततस् तस्मिञ् शेषशय्यास्थितः प्रभुः । ब्रह्मरूपधरः शेते भगवान् आदिकृद् धरिः

॥४॥

जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः । ब्रह्मलोकगतैश् चैव चिन्त्यमानो मुमुक्षुभिः

॥५॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरः

॥६॥

एष नैमित्तिको नाम विप्रेन्द्राः प्रतिसञ्चरः । निमित्तं तत्र यच् छेते ब्रह्मरूपधरो हरिः

॥७॥

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् । निमीलत्य् एतद् अखिलं मायाशय्याशयेऽच्युते

॥८॥

पद्मयोनेर् दिनं यत् तु चतुर्युगसहस्रवत् । एकार्णवकृते लोके तावती रात्रिर् उच्यते

॥९॥

ततः प्रबुद्धो रात्र्यन्ते पुनः सृष्टिं करोत्य् अजः । ब्रह्मस्वरूपधृग् विष्णुर् यथा वः कथितं पुरा

॥१०॥

इत्य् एष कल्पसंहारो अन्तरप्रलयो द्विजाः । नैमित्तिको वः कथितः शृणुध्वं प्राकृतं परम्

॥११॥

अवृष्ट्यग्न्यादिभिः सम्यक् कृते शय्यालये द्विजाः । समस्तेष्व् एव लोकेषु पातालेष्व् अखिलेषु च

॥१२॥

महदादेर् विकारस्य विशेषात् तत्र सङ्क्षये । कृष्णेच्छाकारिते तस्मिन् प्रवृत्ते प्रतिसञ्चरे

॥१३॥

आपो ग्रसन्ति वै पूर्वं भूमेर् गन्धादिकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयाय प्रकल्पते

॥१४॥

प्रनष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका । आपस् तदा प्रवृत्तास् तु वेगवत्यो महास्वनाः

॥१५॥

सर्वम् आपूरयन्तीदं तिष्ठन्ति विचरन्ति च । सलिलेनैवोर्मिमता लोकालोकः समन्ततः

॥१६॥

अपाम् अपि गुणो यस् तु ज्योतिषा पीयते तु सः । नश्यन्त्य् आपः सुतप्ताश् च रसतन्मात्रसङ्क्षयात्

॥१७॥

ततश् चापोऽमृतरसा ज्योतिष्ट्वं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते

॥१८॥

स चाग्निः सर्वतो व्याप्य आदत्ते तज् जलं तदा । सर्वम् आपूर्यतो चाभिस् तदा जगद् इदं शनैः

॥१९॥

अर्चिभिः सन्तते तस्मिंस् तिर्यग् ऊर्ध्वम् अधस् तथा । ज्योतिषोऽपि परं रूपं वायुर् अत्ति प्रभाकरम्

॥२०॥

प्रलीने च ततस् तस्मिन् वायुभूतेऽखिलात्मके । प्रनष्टे रूपतन्मात्रे कृतरूपो विभावसुः

॥२१॥

प्रशाम्यति तदा ज्योतिर् वायुर् दोधूयते महान् । निरालोके तदा लोके वायुसंस्थे च तेजसि

॥२२॥

ततः प्रलयम् आसाद्य वायुसम्भवम् आत्मनः । ऊर्ध्वं च वायुस् तिर्यक् च दोधवीति दिशो दश

॥२३॥

वायोस् त्व् अपि गुणं स्पर्शम् आकाशं ग्रसते ततः । प्रशाम्यति तदा वायुः खं तु तिष्ठत्य् अनावृतम्

॥२४॥

अरूपम् अरसस्पर्शम् अगन्धवद् अमूर्तिमत् । सर्वम् आपूरयच् चैव सुमहत् तत् प्रकाशते

॥२५॥

परिमण्डलतस् तत् तु आकाशं शब्दलक्षणम् । शब्दमात्रं तथाकाशं सर्वम् आवृत्य तिष्ठति

॥२६॥

ततः शब्दगुणं तस्य भूतादिर् ग्रसते पुनः । भूतेन्द्रियेषु युगपद् भूतादौ संस्थितेषु वै

॥२७॥

अभिमानात्मको ह्य् एष भूतादिस् तामसः स्मृतः । भूतादिं ग्रसते चापि महाबुद्धिर् विचक्षणा

॥२८॥

उर्वी महांश् च जगतः प्रान्तेऽन्तर् बाह्यतस् तथा । एवं सप्त महाबुद्धिः क्रमात् प्रकृतयस् तथा

॥२९॥

प्रत्याहारैस् तु ताः सर्वाः प्रविशन्ति परस्परम् । येनेदम् आवृतं सर्वम् अण्डम् अप्सु प्रलीयते

॥३०॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् । उदकावरणं ह्य् अत्र ज्योतिषा पीयते तु तत्

॥३१॥

ज्योतिर् वायौ लयं याति यात्य् आकाशे समीरणः । आकाशं चैव भूतादिर् ग्रसते तं तथा महान्

॥३२॥

महान्तम् एभिः सहितं प्रकृतिर् ग्रसते द्विजाः । गुणसाम्यम् अनुद्रिक्तम् अन्यूनं च द्विजोत्तमाः

॥३३॥

प्रोच्यते प्रकृतिर् हेतुः प्रधानं कारणं परम् । इत्य् एषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणी

॥३४॥

व्यक्तस्वरूपम् अव्यक्ते तस्यां विप्राः प्रलीयते । एकः शुद्धोऽक्षरो नित्यः सर्वव्यापी तथा पुनः

॥३५॥

सोऽप्य् अंशः सर्वभूतस्य द्विजेन्द्राः परमात्मनः । नश्यन्ति सर्वा यत्रापि नामजात्यादिकल्पनाः

॥३६॥

सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्य् आत्मनः परे । स ब्रह्म तत् परं धाम परमात्मा परेश्वरः

॥३७॥

स विष्णुः सर्वम् एवेदं यतो नावर्तते पुनः । प्रकृतिर् या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी

॥३८॥

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि । परमात्मा च सर्वेषाम् आधारः परमेश्वरः

॥३९॥

विष्णुनाम्ना स वेदेषु वेदान्तेषु च गीयते । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्

॥४०॥

ताभ्याम् उभाभ्यां पुरुषैर् यज्ञमूर्तिः स इज्यते । ऋग्यजुःसामभिर् मार्गैः प्रवृत्तैर् इज्यते ह्य् असौ

॥४१॥

यज्ञेश्वरो यज्ञपुमान् पुरुषैः पुरुषोत्तमः । ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स इज्यते

॥४२॥

निवृत्तैर् योगमार्गैश् च विष्णुर् मुक्तिफलप्रदः । ह्रस्वदीर्घप्लुतैर् यत् तु किञ्चिद् वस्त्व् अभिधीयते

॥४३॥

यच् च वाचाम् अविषयस् तत् सर्वं विष्णुर् अव्ययः । व्यक्तः स एवम् अव्यक्तः स एव पुरुषोऽव्ययः

॥४४॥

परमात्मा च विश्वात्मा विश्वरूपधरो हरिः । व्यक्ताव्यक्तात्मिका तस्मिन् प्रकृतिः सा विलीयते

॥४५॥

पुरुषश् चापि भो विप्रा यस् तद् अव्याकृतात्मनि । द्विपरार्धात्मकः कालः कथितो यो मया द्विजाः

॥४६॥

तद् अहस् तस्य विप्रेन्द्रा विष्णोर् ईशस्य कथ्यते । व्यक्ते तु प्रकृतौ लीने प्रकृत्यां पुरुषे तथा

॥४७॥

तत्रास्थिते निशा तस्य तत्प्रमाणा तपोधनाः । नैवाहस् तस्य च निशा नित्यस्य परमात्मनः

॥४८॥

उपचारात् तथाप्य् एतत् तस्येशस्य तु कथ्यते । इत्य् एष मुनिशार्दूलाः कथितः प्राकृतो लयः

॥४९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).