अध्यायः १५५
ब्रह्मोवाच:
कपिलतीर्थम् आख्यातं तद् एवाङ्गिरसं स्मृतम् । तद् एवादित्यम् आख्यातं सैंहिकेयं तद् उच्यते
॥१॥गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम । अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः
॥२॥अङ्गिरोभ्यस् तदादित्यास् तपसेऽङ्गिरसो ययुः । सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत्
॥३॥तत्रसुस् ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् । विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीम् इति
॥४॥आदित्यान् अनुगत्वाथ वाचम् अङ्गिरसोऽब्रुवन् । भुवं गृह्णन्तु या दत्ता नेत्य् आदित्यास् तदाब्रुवन्
॥५॥निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः । स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम्
॥६॥षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः । भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित्
॥७॥पापम् अस्ति महारौद्रं न स्वीकुर्मः पुनस् तु ताम् । एवं यदा स्वदत्ताया हरणे किं तदा भवेत्
॥८॥तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् । तथेत्य् उक्ते तु ते देवाः कपिलां शुभलक्षणाम्
॥९॥गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः । भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस् तिष्ठति मूर्तिमान्
॥१०॥कपिलासङ्गमं तच् च सर्वाघौघविनाशनम् । तत्राभवद् दानतोयाद् आपगा कपिलाभिधा
॥११॥सस्यवत्या अपि भुवो दानाद् गोदानम् उत्तमम् । लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः
॥१२॥यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् । पुण्यदं तत्र तीर्थानां शतम् उक्तं मनीषिभिः
॥१३॥तत्र स्नानेन दानेन भूमिदानफलं लभेत् । सङ्गता गङ्गया तच् च कपिलासङ्गमं विदुः
॥१४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).