मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १६०

3
ब्रह्मपुराणम् · 160

अध्यायः १६०

ब्रह्मोवाच:

देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् । भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम्

॥१॥

तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद । देवानाम् असुराणां च स्पर्धाभूद् धनहेतवे

॥२॥

स्वर्गः सुराणाम् अभवद् असुराणाम् इलाभवत् । कर्मभूमिम् अवष्टभ्य असुराः सर्वतोऽभवन्

॥३॥

देवानां यज्ञभागांश् च दातॄन् घ्नन्त्य् असुरास् ततः । ततः सुरगणाः सर्वे यज्ञभागैर् विना कृताः

॥४॥

व्यथिता माम् उपाजग्मुः किं कृत्यम् इति चाब्रुवन् । मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात्

॥५॥

भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च । तथेत्य् उक्त्वा गता देवा भूमिं ते समरार्थिनः

॥६॥

दैत्याश् च दानवाश् चैव राक्षसा बलदर्पिताः । एकीभूत्वा ययुस् तेऽपि जयिनो युद्धकाङ्क्षिणः

॥७॥

अहिर् वृत्रो बलिस् त्वाष्ट्रिर् नमुचिः शम्बरो मयः । एते चान्ये च बहवो योद्धारो बलदर्पिताः

॥८॥

अग्निर् इन्द्रोऽथ वरुणस् त्वष्टा पूषा तथाश्विनौ । मरुतो लोकपालाश् च नानायुद्धविशारदाः

॥९॥

ते दानवाः सर्व एव याम्यां वै दिशि सङ्गरे । अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः

॥१०॥

त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् । तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम्

॥११॥

सर्वेषां मेलनं यत्र पर्वतो मलयस् तु सः । मलयस्यापि देशोऽसौ देवारीणाम् अभूत् तदा

॥१२॥

देवानां गौतमीतीरे तत्र सन्निहितः शिवः । इति तेषां समायोगो देवानाम् अभवत् किल

॥१३॥

देवाः स्वरथम् आरूढास् तत्र तत्र समागमन् । गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः

॥१४॥

प्रसन्नाभीष्टदा या स्यात् पितॄणाम् अखिलस्य तु । ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् । अभयं चिन्तयाम् आसुस् ते सर्वेऽथ परस्परम्

॥१५॥

देवा ऊचुः:

अत्राप्य् उपायः कोऽस्माकं निर्जितानां परैर् हठात् । एकम् एवात्र नः श्रेयो विजयो वाथवा मृतिः । सपत्नैर् अभिभूतानां जीवितं धिङ् मनस्विनाम्

॥१६॥

ब्रह्मोवाच:

एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी

॥१७॥

आकाशवाग् उवाच:

क्लेशेनालं सुरगणा गौतमीम् आशु गच्छत । भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ

॥१८॥

गोदावर्यास् तयोश् चैव प्रसादात् किं तु दुष्करम्

॥१९॥

ब्रह्मोवाच:

प्रसन्नाभ्यां हरीशाभ्यां देवा जयम् अभीप्सितम् । अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः

॥२०॥

यत्र देवागमो जातस् तत् तीर्थं तेन विश्रुतम् । देवागमं प्रशंसन्ति मुनयस् तत्त्वदर्शिनः

॥२१॥

तत्राशीतिसहस्राणि शिवलिङ्गानि नारद । देवागमः पर्वतोऽसौ प्रिय इत्य् अपि कथ्यते । ततः प्रभृति तत् तीर्थं देवप्रियम् अतो विदुः

॥२२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).