अध्यायः ८७
ब्रह्मोवाच:
अहल्यासङ्गमं चेह तीर्थं त्रैलोक्यपावनम् । शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तम् इदं यथा
॥१॥कौतुकेनातिमहता मया पूर्वं मुनीश्वर । सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः
॥२॥तासाम् एकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् । तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम्
॥३॥को वास्याः पोषणे शक्त इति मे बुद्धिर् आविशत् । न दैत्यानां सुराणां च न मुनीनां तथैव च
॥४॥नास्त्य् अस्याः पोषणे शक्तिर् इति मे बुद्धिर् अन्वभूत् । गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते
॥५॥सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने । गौतमाय महाप्राज्ञाम् अददां पोषणाय ताम्
॥६॥पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् । यौवनस्थां पुनः साध्वीम् आनयेथा ममान्तिकम्
॥७॥एवम् उक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् । ताम् आदाय मुनिश्रेष्ठ तपसा हतकल्मषः
॥८॥तां पोषयित्वा विधिवद् अलङ्कृत्य ममान्तिकम् । निर्विकारो मुनिश्रेष्ठो ह्य् अहल्याम् आनयत् तदा
॥९॥तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः । मम देया सुरेशान इत्य् ऊचुस् ते पृथक् पृथक्
॥१०॥तथैव मुनयः साध्या दानवा यक्षराक्षसाः । तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थम् अथ सङ्गतान्
॥११॥इन्द्रस्य तु विशेषेण महांश् चाभूत् तदा ग्रहः । गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यम् एव च
॥१२॥स्मृत्वा सुविस्मितो भूत्वा ममैवम् अभवत् सुधीः । देयेयं गौतमायैव नान्ययोग्या शुभानना
॥१३॥तस्माऐ एव तु तां दास्ये तथाप्य् एवम् अचिन्तयम् । सर्वेषां च मतिर् धैर्यं मथितं बालयानया
॥१४॥अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस् तदा । देवान् ऋषींस् तदा वीक्ष्य मया तत्रोक्तम् उच्चकैः
॥१५॥तस्मै सा दीयते सुभ्रूर् यः पृथिव्याः प्रदक्षिणाम् । कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः
॥१६॥ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् । अहल्यार्थं सुरा जग्मुः पृथिव्याश् च प्रदक्षिणे
॥१७॥गतेषु सुरसङ्घेषु गौतमोऽपि मुनीश्वर । प्रयत्नम् अकरोत् किञ्चिद् अहल्यार्थम् इमं तथा
॥१८॥एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् । अर्धप्रसूता ह्य् अभवत् तां ददर्श स गौतमः
॥१९॥तस्याः प्रदक्षिणं चक्रे इयम् उर्वीति संस्मरन् । लिङ्गस्य च सुरेशस्य प्रदक्षिणम् अथाकरोत्
॥२०॥तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः । सर्वेषां चैव देवानाम् एकं चापि प्रदक्षिणम्
॥२१॥नैवाभवद् भुवो गन्तुः सञ्जातं द्वितयं मम । एवं निश्चित्य स मुनिर् ममान्तिकम् अथाभ्यगात्
॥२२॥नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः । कमलासन विश्वात्मन् नमस् तेऽस्तु पुनः पुनः
॥२३॥प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला । यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम्
॥२४॥मया तु ध्यानयोगेन ज्ञात्वा गौतमम् अब्रवम् । तवैव दीयते सुभ्रूः प्रदक्षिणम् इदं कृतम्
॥२५॥धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैर् अपि । अर्धप्रसूता सुरभिः सप्तद्वीपवती मही
॥२६॥कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् । लिङ्गं प्रदक्षिणीकृत्य तद् एव फलम् आप्नुयात्
॥२७॥तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत । तुष्टोऽहं तव धैर्येण ज्ञानेन तपसा तथा
॥२८॥दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया । इत्य् उक्त्वाहं गौतमाय अहल्याम् अददां मुने
॥२९॥जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् । शनैः शनैर् अथागत्य ददृशुः सर्व एव ते
॥३०॥तं गौतमम् अहल्यां च दाम्पत्यं प्रीतिवर्धनम् । ते चागत्याथ पश्यन्तो विस्मिताश् चाभवन् सुराः
॥३१॥अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः । समत्सरः शचीभर्ता ताम् ईक्ष्य च दिवं ययौ
॥३२॥ततः प्रीतमनास् तस्मै गौतमाय महात्मने । प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम्
॥३३॥अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः । गौतमस्य कथां पुण्यां श्रुत्वा शक्रस् त्रिविष्टपे
॥३४॥तम् आश्रमं तं च मुनिं तस्य भार्याम् अनिन्दिताम् । भूत्वा ब्राह्मणवेषेण द्रष्टुम् आगाच् छतक्रतुः
॥३५॥स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा । पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत
॥३६॥नात्मानं न परं देशं कालं शापाद् ऋषेर् भयम् । न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः
॥३७॥तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः । सन्तप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत्
॥३८॥एवं वसन् विप्ररूपो नान्तरं त्व् अध्यगच्छत । स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम्
॥३९॥सहितो गौतमः शिष्यैर् निर्गतश् चाश्रमाद् बहिः । आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च
॥४०॥द्रष्टुं गतो मुनिवर इन्द्रस् तं समुदैक्षत । इदम् अन्तरम् इत्य् उक्त्वा चक्रे कार्यं मनःप्रियम्
॥४१॥रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः । तां दृष्ट्वा चारुसर्वाङ्गीम् अहल्यां वाक्यम् अब्रवीत्
॥४२॥इन्द्र उवाच:
आकृष्टोऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः । इति ब्रुवन् हसन् हस्तम् आदायान्तः समाविशत्
॥४३॥न बुबोध त्व् अहल्या तं जारं मेने तु गौतमम् । रममाणा यथासौख्यं प्रागाच् छिष्यैः स गौतमः
॥४४॥आगच्छन्तं नित्यम् एव अहल्या प्रियवादिनी । प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः
॥४५॥ताम् अदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम् । द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद
॥४६॥अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः । ऊचुर् मुनिवरं भीता गौतमं विस्मयान्विताः
॥४७॥रक्षिण ऊचुः:
भगवन् किम् इदं चित्रं बहिर् अन्तश् च दृश्यसे । प्रिययान्तः प्रविष्टोऽसि तथैव च बहिर् भवान् । अहो तपःप्रभावोऽयं नानारूपधरो भवान्
॥४८॥ब्रह्मोवाच:
तच् छ्रुत्वा विस्मितस् त्व् अन्तः प्रविष्टः को नु तिष्ठति । प्रिये अहल्ये भवति किं मां न प्रतिभाषसे । इत्य् ऋषेर् वचनं श्रुत्वा अहल्या जारम् अब्रवीत्
॥५०॥अहल्योवाच:
को भवान् मुनिरूपेण पापं त्वं कृतवान् असि । इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात्
॥५१॥स चापि पापकृच् छक्रो बिडालोऽभून् मुनेर् भयात् । त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा
॥५२॥उवाच स मुनिः कोपात् किम् इदं साहसं कृतम् । इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता
॥५३॥अन्वेषयंस् तु तं जारं बिडालं ददृशे मुनिः । को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन्
॥५४॥इन्द्र उवाच:
कृताञ्जलिपुटो भूत्वा चैवम् आह शचीपतिः । शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः
॥५५॥ममेदं पापम् आपन्नं सत्यम् उक्तं मयानघ । महद्विगर्हितं कर्म कृतवान् अस्म्य् अहं मुने
॥५६॥स्मरसायकनिर्भिन्नहृदयाः किं न कुर्वते । ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे
॥५७॥सन्तः कृतापराधेऽपि न रौक्ष्यं जातु कुर्वते । निशम्य तद् वचो विप्रो हरिम् आह रुषान्वितः
॥५८॥गौतम उवाच:
भगभक्त्या कृतं पापं सहस्रभगवान् भव । ताम् अप्य् आह मुनिः कोपात् त्वं च शुष्कनदी भव
॥५९॥ततः प्रसादयाम् आस कथयन्ती तदाकृतिम्
॥६०॥अहल्योवाच:
मनसाप्य् अन्यपुरुषं पापिष्ठाः कामयन्ति याः । अक्षयान् यान्ति नरकांस् तासां सर्वेऽपि पूर्वजाः
॥६१॥भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः । तव रूपेण चागत्य माम् अगात् साक्षिणस् त्व् इमे
॥६२॥तथेति रक्षिणः प्रोचुर् अहल्या सत्यवादिनी । ध्यानेनापि मुनिर् ज्ञात्वा शान्तः प्राह पतिव्रताम्
॥६३॥गौतम उवाच:
यदा तु सङ्गता भद्रे गौतम्या सरिदीशया । नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम
॥६४॥इत्य् ऋषेर् वचनं श्रुत्वा तथा चक्रे पतिव्रता । तया तु सङ्गता देव्या अहल्या गौतमप्रिया
॥६५॥पुनस् तद् रूपम् अभवद् यन् मया निर्मितं पुरा । ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम्
॥६६॥इन्द्र उवाच:
मां पाहि मुनिशार्दूल पापिष्ठं गृहम् आगतम् । पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः
॥६७॥गौतम उवाच:
गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरन्दर । क्षणान् निर्धूतपापस् त्वं सहस्राक्षो भविष्यसि
॥६८॥उभयं विस्मयकरं दृष्टवान् अस्मि नारद । अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक्
॥६९॥ततः प्रभृति तत् तीर्थम् अहल्यासङ्गमं शुभम् । इन्द्रतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम्
॥७०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).