मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ७

3
ब्रह्मपुराणम् · 7

अध्यायः ७

लोमहर्षण उवाच:

मनोर् वैवस्वतस्यासन् पुत्रा वै नव तत्समाः । इक्ष्वाकुश् चैव नाभागो धृष्टः शर्यातिर् एव च

॥१॥

नरिष्यन्तश् च षष्ठो वै प्रांशू रिष्टश् च सप्तमः । करूषश् च पृषध्रश् च नवैते मुनिसत्तमाः

॥२॥

अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः । मित्रावरुणयोर् विप्राः पूर्वम् एव महामतिः

॥३॥

अनुत्पन्नेषु बहुषु पुत्रेष्व् एतेषु भो द्विजाः । तस्यां च वर्तमानायाम् इष्ट्यां च द्विजसत्तमाः

॥४॥

मित्रावरुणयोर् अंशे मनुर् आहुतिम् आवहत् । तत्र दिव्याम्बरधरा दिव्याभरणभूषिता

॥५॥

दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः । ताम् इलेत्य् एव होवाच मनुर् दण्डधरस् तदा

॥६॥

अनुगच्छस्व मां भद्रे तम् इला प्रत्युवाच ह । धर्मयुक्तम् इदं वाक्यं पुत्रकामं प्रजापतिम्

॥७॥

इलोवाच:

मित्रावरुणयोर् अंशे जातास्मि वदतां वर । तयोः सकाशं यास्यामि न मां धर्महतां कुरु

॥८॥

सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इला । गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत्

॥९॥

इलोवाच:

अंशेऽस्मि युवयोर् जाता देवौ किं करवाणि वाम् । मनुना चाहम् उक्ता वाऐ अनुगच्छस्व माम् इति

॥१०॥

तौ तथावादिनीं साध्वीम् इलां धर्मपरायणाम् । मित्रश् च वरुणश् चोभाव् ऊचतुस् तां द्विजोत्तमाः

॥११॥

मित्रावरुणाव् ऊचतुः:

अनेन तव धर्मेण प्रश्रयेण दमेन च । सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि

॥१२॥

आवयोस् त्वं महाभागे ख्यातिं कन्येति यास्यसि

॥१३॥

मनोर् वंशकरः पुत्रस् त्वम् एव च भविष्यसि । सुद्युम्न इति विख्यातस् त्रिषु लोकेषु शोभने

॥१४॥

जगत्प्रियो धर्मशीलो मनोर् वंशविवर्धनः । निवृत्ता सा तु तच् छ्रुत्वा गच्छन्ती पितुर् अन्तिकात्

॥१५॥

बुधेनान्तरम् आसाद्य मैथुनायोपमन्त्रिता । सोमपुत्राद् बुधाद् विप्रास् तस्यां जज्ञे पुरूरवाः

॥१६॥

जनयित्वा ततः सा तम् इला सुद्युम्नतां गता । सुद्युम्नस्य तु दायादास् त्रयः परमधार्मिकाः

॥१७॥

उत्कलश् च गयश् चैव विनताश्वश् च भो द्विजाः । उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः

॥१८॥

दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता । प्रविष्टे तु मनौ विप्रा दिवाकरम् अरिन्दमम्

॥१९॥

दशधा तत् पुनः क्षत्रम् अकरोत् पृथिवीम् इमाम् । इक्ष्वाकुर् ज्येष्ठदायादो मध्यदेशम् अवाप्तवान्

॥२०॥

कन्याभावात् तु सुद्युम्नो नैतद् राज्यम् अवाप्तवान् । वसिष्ठवचनात् त्व् आसीत् प्रतिष्ठाने महात्मनः

॥२१॥

प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः । तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः

॥२२॥

मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर् लक्षणैर् युतः । धृतवांस् ताम् इलेत्य् एवं सुद्युम्नेति च विश्रुतः

॥२३॥

नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः । अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः

॥२४॥

धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह । करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः

॥२५॥

नाभागधृष्टपुत्राश् च क्षत्रिया वैश्यतां गताः । प्रांशोर् एकोऽभवत् पुत्रः प्रजापतिर् इति स्मृतः

॥२६॥

नरिष्यन्तस्य दायादो राजा दण्डधरो यमः । शर्यातेर् मिथुनं त्व् आसीद् आनर्तो नाम विश्रुतः

॥२७॥

पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह । आनर्तस्य तु दायादो रैवो नाम महाद्युतिः

॥२८॥

आनर्तविषयश् चैव पुरी चास्य कुशस्थली । रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः

॥२९॥

ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् । स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके

॥३०॥

मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः । आजगाम स चैवाथ स्वां पुरीं यादवैर् वृताम्

॥३१॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । भोजवृष्ण्यन्धकैर् गुप्तां वसुदेवपुरोगमैः

॥३२॥

तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः । कन्यां तां बलदेवाय सुभद्रां नाम रेवतीम्

॥३३॥

दत्त्वा जगाम शिखरं मेरोस् तपसि संस्थितः । रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी

॥३४॥

मुनय ऊचुः:

कथं बहुयुगे काले समतीते महामते । न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम्

॥३५॥

मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् । स्थिता पृथिव्याम् अद्यापि श्रोतुम् इच्छाम तत्त्वतः

॥३६॥

लोमहर्षण उवाच:

न जरा क्षुत्पिपासा वा न मृत्युर् मुनिसत्तमाः । ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघाः । ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह

॥३७॥

हृता पुण्यजनैर् विप्रा राक्षसैः सा कुशस्थली । तस्य भ्रातृशतं त्व् आसीद् धार्मिकस्य महात्मनः

॥३८॥

तद् वध्यमानं रक्षोभिर् दिशः प्राक्रामद् अच्युताः । विद्रुतस्य च विप्रेन्द्रास् तस्य भ्रातृशतस्य वै

॥३९॥

अन्ववायस् तु सुमहांस् तत्र तत्र द्विजोत्तमाः । तेषां ह्य् एते मुनिश्रेष्ठाः शर्याता इति विश्रुताः

॥४०॥

क्षत्रिया गुणसम्पन्ना दिक्षु सर्वासु विश्रुताः । शर्वशः सर्वगहनं प्रविष्टास् ते महौजसः

॥४१॥

नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ । करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः

॥४२॥

पृषध्रो हिंसयित्वा तु गुरोर् गां द्विजसत्तमाः । शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः

॥४३॥

वैवस्वतस्य तनया मुनेर् वै मुनिसत्तमाः । क्षुवतस् तु मनोर् विप्रा इक्ष्वाकुर् अभवत् सुतः

॥४४॥

तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम् । तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम्

॥४५॥

प्राप्तः परमधर्मज्ञ सोऽयोध्याधिपतिः प्रभुः । शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः

॥४६॥

उत्तरापथदेशस्य रक्षितारो महाबलाः । चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि

॥४७॥

वशातिप्रमुखाश् चान्ये रक्षितारो द्विजोत्तमाः । इक्ष्वाकुस् तु विकुक्षिं वाऐ अष्टकायाम् अथादिशत्

॥४८॥

मांसम् आनय श्राद्धार्थं मृगान् हत्वा महाबल । श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि

॥४९॥

भक्षयित्वा शशं विप्राः शशादो मृगयां गतः । इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः

॥५०॥

इक्ष्वाकौ संस्थिते विप्राः शशादस् तु नृपोऽभवत् । शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्

॥५१॥

अनेनास् तु ककुत्स्थस्य पृथुश् चानेनसः स्मृतः । विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत

॥५२॥

आर्द्रस् तु युवनाश्वस् तु श्रावस्तस् तत्सुतो द्विजाः । जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता

॥५३॥

श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः । कुवलाश्वः सुतस् तस्य राजा परमधार्मिकः

॥५४॥

यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः

॥५५॥

मुनय ऊचुः:

धुन्धोर् वधं महाप्राज्ञ श्रोतुम् इच्छाम तत्त्वतः । यद्वधात् कुवलाश्वोऽसौ धुन्धुमारत्वम् आगतः

॥५६॥

लोमहर्षण उवाच:

कुवलाश्वस्य पुत्राणां शतम् उत्तमधन्विनाम् । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः

॥५७॥

बभूवुर् धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत्

॥५८॥

पुत्रसङ्क्रामितश्रीस् तु वनं राजा विवेश ह । तम् उत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्

॥५९॥

उत्तङ्क उवाच:

भवता रक्षणं कार्यं तच् च कर्तुं त्वम् अर्हसि । निरुद्विग्नस् तपश् चर्तुं नहि शक्नोमि पार्थिव

॥६०॥

ममाश्रमसमीपे वै समेषु मरुधन्वसु । समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः

॥६१॥

देवतानाम् अवध्यश् च महाकायो महाबलः । अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान्

॥६२॥

राक्षसस्य मधोः पुत्रो धुन्धुर् नाम महासुरः । शेते लोकविनाशाय तप आस्थाय दारुणम्

॥६३॥

संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । यदा तदा मही तत्र चलति स्म नराधिप

॥६४॥

तस्य निःश्वासवातेन रज उद्धूयते महत् । आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम्

॥६५॥

सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम् । तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे

॥६६॥

तं मारय महाकायं लोकानां हितकाम्यया । लोकाः स्वस्था भवन्त्य् अद्य तस्मिन् विनिहते त्वया

॥६७॥

त्वं हि तस्य वधायैकः समर्थः पृथिवीपते । विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप

॥६८॥

यस् तं महासुरं रौद्रं हनिष्यति महाबलम् । तस्य त्वं वरदानेन तेजश् चाख्यापयिष्यसि

॥६९॥

नहि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते । निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि

॥७०॥

वीर्यं च सुमहत् तस्य देवैर् अपि दुरासदम् । स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना । कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे

॥७१॥

बृहदश्व उवाच:

भगवन् न्यस्तशस्त्रोऽहम् अयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः

॥७२॥

स तं व्यादिश्य तनयं राजर्षिर् धुन्धुमारणे । जगाम पर्वतायैव नृपतिः संशितव्रतः

॥७३॥

लोमहर्षण उवाच:

कुवलाश्वस् तु पुत्राणां शतेन सह भो द्विजाः । प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निबर्हणे

॥७४॥

तम् आविशत् तदा विष्णुस् तेजसा भगवान् प्रभुः । उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया

॥७५॥

तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् । एष श्रीमान् अवध्योऽद्य धुन्धुमारो भविष्यति

॥७६॥

दिव्यैर् गन्धैश् च माल्यैश् च तं देवाः समवाकिरन् । देवदुन्दुभयश् चैव प्रणेदुर् द्विजसत्तमाः

॥७७॥

स गत्वा जयतां श्रेष्ठस् तनयैः सह वीर्यवान् । समुद्रं खानयाम् आस वालुकान्तरम् अव्ययम्

॥७८॥

तस्य पुत्रैः खनद्भिश् च वालुकान्तर्हितस् तदा । धुन्धुर् आसादितो विप्रा दिशम् आवृत्य पश्चिमाम्

॥७९॥

मुखजेनाग्निना क्रोधाल् लोकान् उद्वर्तयन्न् इव । वारि सुस्राव वेगेन महोदधिर् इवोदये

॥८०॥

सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् । तस्य पुत्रशतं दग्धं त्रिभिर् ऊनं तु रक्षसा

॥८१॥

ततः स राजा द्युतिमान् राक्षसं तं महाबलम् । आससाद महातेजा धुन्धुं धुन्धुविनाशनः

॥८२॥

तस्य वारिमयं वेगम् आपीय स नराधिपः । योगी योगेन वह्निं च शमयाम् आस वारिणा

॥८३॥

निहत्य तं महाकायं बलेनोदकराक्षसम् । उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः

॥८४॥

उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने । ददौ तस्याक्षयं वित्तं शत्रुभिश् चापराजितम्

॥८५॥

धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् । पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः

॥८६॥

तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते । चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ

॥८७॥

धौन्धुमारेर् दृढाश्वस्य हर्यश्वश् चात्मजः स्मृतः । हर्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्मरतः सदा

॥८८॥

संहताश्वो निकुम्भस्य सुतो रणविशारदः । अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः

॥८९॥

तस्य हैमवती कन्या सतां मता दृषद्वती । विख्याता त्रिषु लोकेषु पुत्रश् चास्याः प्रसेनजित्

॥९०॥

लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् । अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत्

॥९१॥

तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः । मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः

॥९२॥

तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् । साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि

॥९३॥

पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतस्य वै । तस्याम् उत्पादयाम् आस मान्धाता द्वौ सुतौ द्विजाः

॥९४॥

पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् । पुरुकुत्ससुतस् त्व् आसीत् त्रसदस्युर् महीपतिः

॥९५॥

नर्मदायाम् अथोत्पन्नः सम्भूतस् तस्य चात्मजः । सम्भूतस्य तु दायादस् । त्रिधन्वा रिपुमर्दनः

॥९६॥

राज्ञस् त्रिधन्वनस् त्व् आसीद् विद्वांस् त्रय्यारुणः प्रभुः । तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः

॥९७॥

परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः । येन भार्या कृतोद्वाहा हृता चैव परस्य ह

॥९८॥

बाल्यात् कामाच् च मोहाच् च साहसाच् चापलेन च । जहार कन्यां कामार्तः कस्यचित् पुरवासिनः

॥९९॥

अधर्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत् । अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः

॥१००॥

सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः । पिता च तम् अथोवाच श्वपाकैः सह वर्तय

॥१०१॥

नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन । इत्य् उक्तः स निराक्रामन् नगराद् वचनात् पितुः

॥१०२॥

न च तं वारयाम् आस वसिष्ठो भगवान् ऋषिः । स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके

॥१०३॥

पित्रा त्यक्तोऽवसद् वीरः पिताप्य् अस्य वनं ययौ । ततस् तस्मिंस् तु विषये नावर्षत् पाकशासनः

॥१०४॥

समा द्वादश भो विप्रास् तेनाधर्मेण वै तदा । दारांस् तु तस्य विषये विश्वामित्रो महातपाः

॥१०५॥

सन्न्यस्य सागरान्ते तु चकार विपुलं तपः । तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रम् औरसम्

॥१०६॥

शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै । तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः

॥१०७॥

महर्षिपुत्रं धर्मात्मा मोक्षयाम् आस भो द्विजाः । सत्यव्रतो महाबाहुर् भरणं तस्य चाकरोत्

॥१०८॥

विश्वामित्रस्य तुष्ट्यर्थम् अनुकम्पार्थम् एव च । सोऽभवद् गालवो नाम गले बन्धान् महातपाः । महर्षिः कौशिको धीमांस् तेन वीरेण मोक्षितः

॥१०९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).