अध्यायः १६४
ब्रह्मोवाच:
चिच्चिकातीर्थम् इत्य् उक्तं सर्वरोगविनाशनम् । सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम्
॥१॥तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे । गङ्गाया उत्तरे पारे यत्र देवो गदाधरः
॥२॥चिच्चिकः पक्षिराट् तत्र भेरुण्डो योऽभिधीयते । सदा वसति तत्रैव मांसाशी श्वेतपर्वते
॥३॥नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर् नगैः । सेविते द्विजमुख्यैश् च गौतम्या चोपशोभिते
॥४॥सिद्धचारणगन्धर्वकिन्नरामरसङ्कुले । तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम्
॥५॥रोगार्तिक्षुत्तृषाचिन्तामरणानां न भाजनम् । एवं गुणान्विते शैले नानामुनिगणावृते
॥६॥पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः । क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः
॥७॥बलेन महता युक्तः सपुरोधा वनं ययौ । रेमे स्त्रीभिर् मनोज्ञाभिर् नृत्यवादित्रजैः सुखैः
॥८॥स च एवं धनुष्पाणिर् मृगयाशीलिभिर् वृतः । एवं भ्रमन् कदाचित् स श्रान्तो द्रुमम् उपागतः
॥९॥गौतमीतीरसम्भूतं नानापक्षिगणैर् वृतम् । आश्रमाणां गृहपतिं धर्मज्ञम् इव सेवितम्
॥१०॥तम् आश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः । स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम्
॥११॥तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् । चिन्ताविष्टं तथा श्रान्तं तम् अपृच्छन् नृपोत्तमः
॥१२॥राजोवाच:
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे । नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखम् आगतः
॥१३॥ब्रह्मोवाच:
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः । समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः
॥१४॥चिच्चिक उवाच:
मत्तो भयं न चान्येषां मम वान्योपपादितम् । नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम्
॥१५॥पश्येयं शून्यम् एवाद्रिं ततः शोचामि माम् अहम् । न लभामि सुखं किञ्चिन् न तृप्यामि कदाचन । निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम्
॥१६॥ब्रह्मोवाच:
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः
॥१७॥राजोवाच:
को भवान् किं कृतं पापं कस्माच् छून्यश् च पर्वतः । एकेनास्येन तृप्यन्ति प्राणिनोऽत्र नगोत्तमे
॥१८॥किम् उतास्यद्वयेन त्वं न तृप्तिम् उपयास्यसि । किं वा ते दुष्कृतं प्राप्तम् इह जन्मन्य् अथो पुरा
॥१९॥तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात्
॥२०॥ब्रह्मोवाच:
राजानं तं द्विजः प्राह निःश्वसन्न् अथ चिच्चिकः
॥२१॥चिच्चिक उवाच:
वक्ष्येऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत् । अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः
॥२२॥कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः । वदे पुरस् तथा पृष्ठे अन्यद् अन्यच् च जन्तुषु
॥२३॥परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः । कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः
॥२४॥मित्रस्वामिगुरुद्रोही दम्भाचारोऽतिनिर्घृणः । मनसा कर्मणा वाचा तापयामि जनान् बहून्
॥२५॥अयम् एव विनोदो मे सदा यत् परहिंसनम् । युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा
॥२६॥करोमि निर्विचारोऽहं विद्वत्सेवापराङ्मुखः । न मया सदृशः कश्चित् पातकी भवनत्रये
॥२७॥तेनाहं द्विमुखो जातस् तापनाद् दुःखभाग्य् अहम् । तस्माद् दुःखेन सन्तप्तः शून्योऽयं पर्वतो मम
॥२८॥अन्यच् च शृणु भूपाल वाक्यं धर्मार्थसंहितम् । ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते
॥२९॥क्षत्रियः सङ्गरं गत्वा अथवान्यत्र सङ्गरात् । पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम्
॥३०॥अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् । तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः
॥३१॥अधीतं विस्मरति यस् त्वं करोति तथोत्तमम् । अनादरं च गुरुषु तम् आहुर् ब्रह्मघातकम्
॥३२॥प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च । अन्यद् धृदि वचस्य् अन्यत् करोत्य् अन्यत् सदैव यः
॥३३॥गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः । मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः
॥३४॥देवं वेदम् अथाध्यात्मं धर्मब्राह्मणसङ्गतिम् । एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः
॥३५॥एवं भूतोऽप्य् अहं राजन् दम्भार्थं लज्जया तथा । सद्वृत्त इव वर्तेऽहं तस्माद् राजन् द्विजोऽभवम्
॥३६॥एवं भूतोऽपि सत्कर्म किञ्चित् कर्तास्मि कुत्रचित् । तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम्
॥३७॥ब्रह्मोवाच:
तच् चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः । कर्मणा केन ते मुक्तिर् इत्य् आह नृपतिर् द्विजम्
॥३८॥इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट्
॥३९॥चिच्चिक उवाच:
अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे । गदाधरं नाम तीर्थं तत्र मां नय सुव्रत
॥४०॥तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् । सर्वकामप्रदं चेति महद्भिर् मुनिभिः श्रुतम्
॥४१॥न गौतम्यास् तथा विष्णोर् अपरं क्लेशनाशनम् । सर्वभावेन तत् तीर्थं पश्येयम् इति मे मतिः
॥४२॥मत्कृतेन प्रयत्नेन नैतच् छक्यं कदाचन । कथम् आकाङ्क्षितप्राप्तिर् भवेद् दुष्कृतकर्मणाम्
॥४३॥सप्रयत्नोऽप्य् अहं वीर न पश्ये तत् सुदुष्करम् । तस्मात् तव प्रसादाच् च पश्येयं हि गदाधरम्
॥४४॥अविज्ञापितदुःखज्ञं करुणावरुणालयम् । यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर् नरैः
॥४५॥दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत
॥४६॥ब्रह्मोवाच:
एवम् उक्तः स नृपतिश् चिच्चिकेन द्विजन्मना । दर्शयाम् आस तं देवं तां च गङ्गां द्विजन्मने
॥४७॥ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम्
॥४८॥चिच्चिक उवाच:
गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः । न पश्यत्य् उच्यते तावद् इहामुत्रापि पातकी
॥४९॥तस्मात् सर्वागसम् अपि माम् उद्धर सरिद्वरे । संसारे देहिनाम् अन्या न गतिः कापि कुत्रचित् । त्वां विना विष्णुचरणसरोरुहसमुद्भवे
॥५०॥ब्रह्मोवाच:
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः । स्नानं चक्रे स्मरन्न् अन्तर् गङ्गे त्रायस्व माम् इति
॥५१॥गदाधरं ततो नत्वा पश्यत्सु नगवासिषु । पवमानाभ्यनुज्ञातस् तदैव दिवम् आक्रमत्
॥५२॥पवमानः स्वनगरं प्रययौ सानुगस् ततः । ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम्
॥५३॥गदाधरं कोटितीर्थम् इति वेदविदो विदुः । कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम्
॥५४॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).