मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २३८

3
ब्रह्मपुराणम् · 238

अध्यायः २३८

व्यास उवाच:

सृजते तु गुणान् सत्त्वं क्षेत्रज्ञस् त्व् अधितिष्ठति । गुणान् विक्रियतः सर्वान् उदासीनवद् ईश्वरः

॥१॥

स्वभावयुक्तं तत् सर्वं यद् इमान् सृजते गुणान् । ऊर्णनाभिर् यथा सूत्रं सृजते तद् गुणांस् तथा

॥२॥

प्रवृत्ता न निवर्तन्ते प्रवृत्तिर् नोपलभ्यते । एवम् एके व्यवस्यन्ति निवृत्तिम् इति चापरे

॥३॥

उभयं सम्प्रधार्यैतद् अध्यवस्येद् यथामति । अनेनैव विधानेन भवेद् वै संशयो महान्

॥४॥

अनादिनिधनो ह्य् आत्मा तं बुद्ध्वा विहरेन् नरः । अक्रुध्यन्न् अप्रहृष्यंश् च नित्यं विगतमत्सरः

॥५॥

इत्य् एवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् । अनित्यं सुखम् आसीनम् अशोच्यं छिन्नसंशयः

॥६॥

तरयेत् प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः । अवगाह्य च विद्वांसो विप्रा लोलम् इमं तथा

॥७॥

न तु तप्यति वै विद्वान् स्थले चरति तत्त्ववित् । एवं विचिन्त्य चात्मानं केवलं ज्ञानम् आत्मनः

॥८॥

तां तु बुद्ध्वा नरः सर्गं भूतानाम् आगतिं गतिम् । समचेष्टश् च वै सम्यग् लभते शमम् उत्तमम्

॥९॥

एतद् द्विजन्मसामग्र्यं ब्राह्मणस्य विशेषतः । आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम्

॥१०॥

तत्त्वं बुद्ध्वा भवेद् बुद्धः किम् अन्यद् बुद्धलक्षणम् । विज्ञायैतद् विमुच्यन्ते कृतकृत्या मनीषिणः

॥११॥

न भवति विदुषां महद् भयं । यद् अविदुषां सुमहद् भयं परत्र । नहि गतिर् अधिकास्ति कस्यचिद् । भवति हि या विदुषः सनातनी

॥१२॥

लोके मातरम् असूयते नरस् । तत्र देवम् अनिरीक्ष्य शोचते । तत्र चेत् कुशलो न शोचते । ये विदुस् तद् उभयं कृताकृतम्

॥१३॥

यत् करोत्य् अनभिसन्धिपूर्वकं । तच् च निन्दयति यत् पुरा कृतम् । यत् प्रियं तद् उभयं न वाप्रियं । तस्य तज् जनयतीह कुर्वतः

॥१४॥

मुनय ऊचुः:

यस्माद् धर्मात् परो धर्मो विद्यते नेह कश्चन । यो विशिष्टश् च भूतेभ्यस् तद् भवान् प्रब्रवीतु नः

॥१५॥

व्यास उवाच:

धर्मं च सम्प्रवक्ष्यामि पुराणम् ऋषिभिः स्तुतम् । विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः

॥१६॥

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः । सर्वतः प्रसृतानीह पिता बालान् इवात्मजान्

॥१७॥

मनसश् चेन्द्रियाणां चाप्य् ऐकाग्र्यं परमं तपः । विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते

॥१८॥

तानि सर्वाणि सन्धाय मनःषष्ठानि मेधया । आत्मतृप्तः स एवासीद् बहुचिन्त्यम् अचिन्तयन्

॥१९॥

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि । तदा चैवात्मनात्मानं परं द्रक्ष्यथ शाश्वतम्

॥२०॥

सर्वात्मानं महात्मानं विधूमम् इव पावकम् । प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः

॥२१॥

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः । आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्

॥२२॥

एवम् आत्मा न जानीते क्व गमिष्ये कुतोऽन्व् अहम् । अन्यो ह्य् अस्यान्तरात्मास्ति यः सर्वम् अनुपश्यति

॥२३॥

ज्ञानदीपेन दीप्तेन पश्यत्य् आत्मानम् आत्मना । दृष्ट्वात्मानं तथा यूयं विरागा भवत द्विजाः

॥२४॥

विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः । परां बुद्धिम् अवाप्येहाप्य् अचिन्ता विगतज्वराः

॥२५॥

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिणीम् । पञ्चेन्द्रियग्राहवतीं मनःसङ्कल्परोधसम्

॥२६॥

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् । सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्

॥२७॥

अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् । प्रतरध्वं नदीं बुद्ध्या दुस्तराम् अकृतात्मभिः

॥२८॥

संसारसागरगमां योनिपातालदुस्तराम् । आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम्

॥२९॥

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः । तां तीर्णः सर्वतो मुक्तो विधूतात्मात्मवाञ् शुचिः

॥३०॥

उत्तमां बुद्धिम् आस्थाय ब्रह्मभूयाय कल्पते । उत्तीर्णः सर्वसङ्क्लेशान् प्रसन्नात्मा विकल्मषः

॥३१॥

भूयिष्ठानीव भूतानि सर्वस्थानान् निरीक्ष्य च । अक्रुध्यन्न् अप्रसीदंश् च ननृशंसमतिस् तथा

॥३२॥

ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययम् । एतद् धि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः

॥३३॥

धर्मं धर्मभृतां श्रेष्ठा मुनयः सत्यदर्शिनः । आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम्

॥३४॥

प्रयताय प्रवक्तव्यं हितायानुगताय च । आत्मज्ञानम् इदं गुह्यं सर्वगुह्यतमं महत्

॥३५॥

अब्रवं यद् अहं विप्रा आत्मसाक्षिकम् अञ्जसा । नैव स्त्री न पुमान् एवं न चैवेदं नपुंसकम्

॥३६॥

अदुःखम् असुखं ब्रह्म भूतभव्यभवात्मकम् । नैतज् ज्ञात्वा पुमान् स्त्री वा पुनर्भवम् अवाप्नुयात्

॥३७॥

यथा मतानि सर्वाणि तथैतानि यथा तथा । कथितानि मया विप्रा भवन्ति न भवन्ति च

॥३८॥

तत्प्रीतियुक्तेन गुणान्वितेन । पुत्रेण सत्पुत्रदयान्वितेन । दृष्ट्वा हितं प्रीतमना यदर्थं । ब्रूयात् सुतस्येह यद् उक्तम् एतत्

॥३९॥

मुनय ऊचुः:

मोक्षः पितामहेनोक्त उपायान् नानुपायतः । तम् उपायं यथान्यायं श्रोतुम् इच्छामहे मुने

॥४०॥

व्यास उवाच:

अस्मासु तन् महाप्राज्ञा युक्तं निपुणदर्शनम् । यदुपायेन सर्वार्थान् मृगयध्वं सदानघाः

॥४१॥

घटोपकरणे बुद्धिर् घटोत्पत्तौ न सा मता । एवं धर्माद्युपायार्थे नान्यधर्मेषु कारणम्

॥४२॥

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् । एकः पन्था हि मोक्षस्य तच् छृणुध्वं ममानघाः

॥४३॥

क्षमया क्रोधम् उच्छिन्द्यात् कामं सङ्कल्पवर्जनात् । सत्त्वसंसेवनाद् धीरो निद्राम् उच्छेत्तुम् अर्हति

॥४४॥

अप्रमादाद् भयं रक्षेद् रक्षेत् क्षेत्रं च संविदम् । इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्

॥४५॥

निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् । उपद्रवांस् तथा योगी हितजीर्णमिताशनात्

॥४६॥

लोभं मोहं च सन्तोषाद् विषयांस् तत्त्वदर्शनात् । अनुक्रोशाद् अधर्मं च जयेद् धर्मम् उपेक्षया

॥४७॥

आयत्या च जयेद् आशां सामर्थ्यं सङ्गवर्जनात् । अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः

॥४८॥

कारुण्येनात्मनात्मानं तृष्णां च परितोषतः । उत्थानेन जयेत् तन्द्रां वितर्कं निश्चयाज् जयेत्

॥४९॥

मौनेन बहुभाषां च शौर्येण च भयं जयेत् । यच्छेद् वाङ्मनसी बुद्ध्या तां यच्छेज् ज्ञानचक्षुषा

॥५०॥

ज्ञानम् आत्मा महान् यच्छेत् तं यच्छेच् छान्तिर् आत्मनः । तद् एतद् उपशान्तेन बोद्धव्यं शुचिकर्मणा

॥५१॥

योगदोषान् समुच्छिद्य पञ्च यान् कवयो विदुः । कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्

॥५२॥

परित्यज्य निषेवेत यथावद् योगसाधनात् । ध्यानम् अध्ययनं दानं सत्यं ह्रीर् आर्जवं क्षमा

॥५३॥

शौचम् आचारतः शुद्धिर् इन्द्रियाणां च संयमः । एतैर् विवर्धते तेजः पाप्मानम् उपहन्ति च

॥५४॥

सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते । धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः

॥५५॥

कामक्रोधौ वशे कृत्वा निर्विशेद् ब्रह्मणः पदम् । अमूढत्वम् असङ्गित्वं कामक्रोधविवर्जनम्

॥५६॥

अदैन्यम् अनुदीर्णत्वम् अनुद्वेगो ह्य् अवस्थितिः । एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः । तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः

॥५७॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).