मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४०

3
ब्रह्मपुराणम् · 240

अध्यायः २४०

मुनय ऊचुः:

सम्यक् क्रियेयं विप्रेन्द्र वर्णिता शिष्टसम्मता । योगमार्गो यथान्यायं शिष्यायेह हितैषिणा

॥१॥

साङ्ख्ये त्व् इदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः । त्रिषु लोकेषु यज् ज्ञानं सर्वं तद् विदितं हि ते

॥२॥

व्यास उवाच:

शृणुध्वं मुनयः सर्वम् आख्यानं विदितात्मनाम् । विहितं यतिभिर् वृद्धैः कपिलादिभिर् ईश्वरैः

॥३॥

यस्मिन् सुविभ्रमाः केचिद् दृश्यन्ते मुनिसत्तमाः । गुणाश् च यस्मिन् बहवो दोषहानिश् च केवला

॥४॥

ज्ञानेन परिसङ्ख्याय सदोषान् विषयान् द्विजाः । मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयांस् तथा

॥५॥

विषयान् औरगाञ् ज्ञात्वा गन्धर्वविषयांस् तथा । पितॄणां विषयाञ् ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः

॥६॥

सुपर्णविषयाञ् ज्ञात्वा मरुतां विषयांस् तथा । महर्षिविषयांश् चैव राजर्षिविषयांस् तथा

॥७॥

आसुरान् विषयाञ् ज्ञात्वा वैश्वदेवांस् तथैव च । देवर्षिविषयाञ् ज्ञात्वा योगानाम् अपि वै परान्

॥८॥

विषयांश् च प्रमाणस्य ब्रह्मणो विषयांस् तथा । आयुषश् च परं कालं लोकैर् विज्ञाय तत्त्वतः

॥९॥

सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः । प्राप्तकाले च यद् दुःखं पततां विषयैषिणाम्

॥१०॥

तिर्यक्त्वे पततां विप्रास् तथैव नरकेषु यत् । स्वर्गस्य च गुणाञ् ज्ञात्वा दोषान् सर्वांश् च भो द्विजाः

॥११॥

वेदवादे च ये दोषा गुणा ये चापि वैदिकाः । ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः

॥१२॥

साङ्ख्यज्ञाने च ये दोषांस् तथैव च गुणा द्विजाः । सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा

॥१३॥

तमश् चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा । षड्गुणं च नभो ज्ञात्वा तमश् च त्रिगुणं महत्

॥१४॥

द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः । मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु

॥१५॥

ज्ञानविज्ञानसम्पन्नाः कारणैर् भावितात्मभिः । प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्

॥१६॥

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च

॥१७॥

त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् । मोहं तमसि संयुक्तं लोभं मोहेषु संश्रितम्

॥१८॥

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् । अप्सु देवीं समायुक्ताम् आपस् तेजसि संश्रिताः

॥१९॥

तेजो वायौ तु संयुक्तं वायुं नभसि चाश्रितम् । नभो महति संयुक्तं तमो महसि संस्थितम्

॥२०॥

रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथात्मनि । सक्तम् आत्मानम् ईशे च देवे नारायणे तथा

॥२१॥

देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् । ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर् गुणैः

॥२२॥

स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् । मध्यस्थम् इव चात्मानं पापं यस्मिन् न विद्यते

॥२३॥

द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विषयैषिणाम् । इन्द्रियाणीन्द्रियार्थांश् च सर्वान् आत्मनि संश्रितान्

॥२४॥

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः

॥२५॥

आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः । सप्तधा तांस् तथा शेषान् सप्तधा विधिवत् पुनः

॥२६॥

प्रजापतीन् ऋषींश् चैव सर्गांश् च सुबहून् वरान् । सप्तर्षींश् च बहूञ् ज्ञात्वा राजर्षींश् च परन्तपान्

॥२७॥

सुरर्षीन् मरुतश् चान्यान् ब्रह्मर्षीन् सूर्यसन्निभान् । ऐश्वर्याच् च्यावितान् दृष्ट्वा कालेन महता द्विजाः

॥२८॥

महतां भूतसङ्घानां श्रुत्वा नाशं च भो द्विजाः । गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम्

॥२९॥

वैतरण्यां च यद् दुःखं पतितानां यमक्षये । योनिषु च विचित्रासु सञ्चारान् अशुभांस् तथा

॥३०॥

जठरे चाशुभे वासं शोणितोदकभाजने । श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते

॥३१॥

शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे । शिराशतसमाकीर्णे नवद्वारे पुरेऽथ वै

॥३२॥

विज्ञाय हितम् आत्मानं योगांश् च विविधान् द्विजाः । तामसानां च जन्तूनां रमणीयानृतात्मनाम्

॥३३॥

सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः । गर्हितं महताम् अर्थे साङ्ख्यानां विदितात्मनाम्

॥३४॥

उपप्लवांस् तथा घोराञ् शशिनस् तेजसस् तथा । ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्

॥३५॥

द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः । अन्योन्यभक्षणं दृष्ट्वा भूतानाम् अपि चाशुभम्

॥३६॥

बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् । रागं मोहं च सम्प्राप्तं क्वचित् सत्त्वं समाश्रितम्

॥३७॥

सहस्रेषु नरः कश्चिन् मोक्षबुद्धिं समाश्रितः । दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम्

॥३८॥

बहुमानम् अलब्धेषु लब्धे मध्यस्थतां पुनः । विषयाणां च दौरात्म्यं विज्ञाय च पुनर् द्विजाः

॥३९॥

गतासूनां च सत्त्वानां देहान् भित्त्वा तथा शुभान् । वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम्

॥४०॥

सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः । ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम्

॥४१॥

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्

॥४२॥

जननीषु च वर्तन्ते येन सम्यग् द्विजोत्तमाः । सदेवकेषु लोकेषु येन वर्तन्ति मानवाः

॥४३॥

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् । तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक्

॥४४॥

वेदवादांस् तथा चित्रान् ऋतूनां पर्ययांस् तथा । क्षयं संवत्सराणां च मासानां च क्षयं तथा

॥४५॥

पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् । क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस् तथा

॥४६॥

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । क्षयं धनानां दृष्ट्वा च पुनर् वृद्धिं तथैव च

॥४७॥

संयोगानां तथा दृष्ट्वा युगानां च विशेषतः । देहवैक्लव्यतां चैव सम्यग् विज्ञाय तत्त्वतः

॥४८॥

आत्मदोषांश् च विज्ञाय सर्वान् आत्मनि संस्थितान् । स्वदेहाद् उत्थितान् गन्धांस् तथा विज्ञाय चाशुभान्

॥४९॥

मुनय ऊचुः:

कान् उत्पातभवान् दोषान् पश्यसि ब्रह्मवित्तम । एतं नः संशयं कृत्स्नं वक्तुम् अर्हस्य् अशेषतः

॥५०॥

व्यास उवाच:

पञ्च दोषान् द्विजा देहे प्रवदन्ति मनीषिणः । मार्गज्ञाः कापिलाः साङ्ख्याः शृणुध्वं मुनिसत्तमाः

॥५१॥

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते । एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्

॥५२॥

छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् । सत्त्वसंसेवनान् निद्राम् अप्रमादाद् भयं तथा

॥५३॥

छिन्दन्ति पञ्चमं श्वासम् अल्पाहारतया द्विजाः । गुणान् गुणशतैर् ज्ञात्वा दोषान् दोषशतैर् अपि

॥५४॥

हेतून् हेतुशतैश् चित्रैश् चित्रान् विज्ञाय तत्त्वतः । अपां फेनोपमं लोकं विष्णोर् मायाशतैः कृतम्

॥५५॥

चित्रभित्तिप्रतीकाशं नलसारम् अनर्थकम् । तमःसम्भ्रमितं दृष्ट्वा वर्षबुद्बुदसन्निभम्

॥५६॥

नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् । रजस् तमसि सम्मग्नं पङ्के द्विपम् इवावशम्

॥५७॥

साङ्ख्या विप्रा महाप्राज्ञास् त्यक्त्वा स्नेहं प्रजाकृतम् । ज्ञानज्ञेयेन साङ्ख्येन व्यापिना महता द्विजाः

॥५८॥

राजसान् अशुभान् गन्धांस् तामसांश् च तथाविधान् । पुण्यांश् च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान्

॥५९॥

छित्त्वात्मज्ञानशस्त्रेण तपोदण्डेन सत्तमाः । ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम्

॥६०॥

व्याधिमृत्युमहाघोरं महाभयमहोरगम् । तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्य् उत

॥६१॥

स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः । कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः

॥६२॥

हर्षसङ्घमहावेगं नानारससमाकुलम् । नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम्

॥६३॥

शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् । अस्थिसङ्घातसङ्घट्टं श्लेष्मयोगं द्विजोत्तमाः

॥६४॥

दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् । हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुष्करम्

॥६५॥

रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् । प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम्

॥६६॥

अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् । वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम्

॥६७॥

मोक्षदुर्लभविषयं वाडवासुखसागरम् । तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः

॥६८॥

तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः । ततस् तान् सुकृतीञ् ज्ञात्वा सूर्यो वहति रश्मिभिः

॥६९॥

पद्मतन्तुवद् आविश्य प्रवहन् विषयान् द्विजाः । तत्र तान् प्रवहो वायुः प्रतिगृह्णाति चानघाः

॥७०॥

वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस् तपोधनान् । सूक्ष्मः शीतः सुगन्धश् च सुखस्पर्शश् च भो द्विजाः

॥७१॥

सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान् । स तान् वहति विप्रेन्द्रा नभसः परमां गतिम्

॥७२॥

नभो वहति लोकेशान् रजसः परमां गतिम् । रजो वहति विप्रेन्द्राः सत्त्वस्य परमां गतिम्

॥७३॥

सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् । प्रभुर् वहति शुद्धात्मा परमात्मानम् आत्मना

॥७४॥

परमात्मानम् आसाद्य तद्भूता यतयोऽमलाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः

॥७५॥

परमा सा गतिर् विप्रा निर्द्वन्द्वानां महात्मनाम् । सत्यार्जवरतानां वै सर्वभूतदयावताम्

॥७६॥

मुनय ऊचुः:

स्थानम् उत्तमम् आसाद्य भगवन्तं स्थिरव्रताः । आजन्ममरणं वा ते रमन्ते तत्र वा न वा

॥७७॥

यद् अत्र तथ्यं तत्त्वं नो यथावद् वक्तुम् अर्हसि । त्वदृते मानवं नान्यं प्रष्टुम् अर्हाम सत्तम

॥७८॥

मोक्षदोषो महान् एष प्राप्य सिद्धिं गतान् ऋषीन् । यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे

॥७९॥

प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज । मग्नस्य हि परे ज्ञाने किन्तु दुःखान्तरं भवेत्

॥८०॥

व्यास उवाच:

यथान्यायं मुनिश्रेष्ठाः प्रश्नः पृष्टश् च सङ्कटः । बुधानाम् अपि सम्मोहः प्रश्नेऽस्मिन् मुनिसत्तमाः

॥८१॥

अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम । बुद्धिश् च परमा यत्र कपिलानां महात्मनाम्

॥८२॥

इन्द्रियाण्य् अपि बुध्यन्ते स्वदेहं देहिनां द्विजाः । करणान्य् आत्मनस् तानि सूक्ष्मं पश्यन्ति तैस् तु सः

॥८३॥

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । विनश्यन्ति न सन्देहो वेला इव महार्णवे

॥८४॥

इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः । सूक्ष्मश् चरति सर्वत्र नभसीव समीरणः

॥८५॥

स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः । बुध्यमानो यथापूर्वम् अखिलेनेह भो द्विजाः

॥८६॥

इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि । अनीशत्वात् प्रलीयन्ते सर्पा विषहता इव

॥८७॥

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्व् एव सर्वशः । आक्रम्य गतयः सूक्ष्मा वरत्य् आत्मा न संशयः

॥८८॥

सत्त्वस्य च गुणान् कृत्स्नान् रजसश् च गुणान् पुनः । गुणांश् च तमसः सर्वान् गुणान् बुद्धेश् च सत्तमाः

॥८९॥

गुणांश् च मनसश् चापि नभसश् च गुणांस् तथा । गुणान् वायोश् च सर्वज्ञाः स्नेहजांश् च गुणान् पुनः

॥९०॥

अपां गुणास् तथा विप्राः पार्थिवांश् च गुणान् अपि । सर्वान् एव गुणैर् व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः

॥९१॥

आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे । शिष्या इव महात्मानम् इन्द्रियाणि च तं द्विजाः

॥९२॥

प्रकृतिं चाप्य् अतिक्रम्य शुद्धं सूक्ष्मं परात् परम् । नारायणं महात्मानं निर्विकारं परात् परम्

॥९३॥

विमुक्तं सर्वपापेभ्यः प्रविष्टं च ह्य् अनामयम् । परमात्मानम् अगुणं निर्वृतं तं च सत्तमाः

॥९४॥

श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भो द्विजाः । आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः

॥९५॥

शक्यं वाल्पेन कालेन शान्तिं प्राप्तुं गुणांस् तथा । एवम् उक्तेन विप्रेन्द्राः साङ्ख्ययोगेन मोक्षिणीम्

॥९६॥

साङ्ख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् । ज्ञानेनानेन विप्रेन्द्रास् तुल्यं ज्ञानं न विद्यते

॥९७॥

अत्र वः संशयो मा भूज् ज्ञानं साङ्ख्यं परं मतम् । अक्षरं ध्रुवम् एवोक्तं पूर्वं ब्रह्म सनातनम्

॥९८॥

अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् । कूटस्थं चैव नित्यं च यद् वदन्ति शमात्मकाः

॥९९॥

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः

॥१००॥

सर्वे विप्राश् च वेदाश् च तथा सामविदो जनाः । ब्रह्मण्यं परमं देवम् अनन्तं परमाच्युतम्

॥१०१॥

प्रार्थयन्तश् च तं विप्रा वदन्ति गुणबुद्धयः । सम्यग् उक्तास् तथा योगाः साङ्ख्याश् चामितदर्शनाः

॥१०२॥

अमूर्तिस् तस्य विप्रेन्द्राः साङ्ख्यं मूर्तिर् इति श्रुतिः । अभिज्ञानानि तस्याहुर् महान्ति मुनिसत्तमाः

॥१०३॥

द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः । अगम्यगम्यसञ्ज्ञानि गम्यं तत्र विशिष्यते

॥१०४॥

ज्ञानं महद् वै महतश् च विप्रा । वेदेषु साङ्ख्येषु तथैव योगे । यच् चापि दृष्टं विधिवत् पुराणे । साङ्ख्यागतं तन् निखिलं मुनीन्द्राः

॥१०५॥

यच् चेतिहासेषु महत्सु दृष्टं । यथार्थशास्त्रेषु विशिष्टदृष्टम् । ज्ञानं च लोके यद् इहास्ति किञ्चित् । साङ्ख्यागतं तच् च महामुनीन्द्राः

॥१०६॥

समस्तदृष्टं परमं बलं च । ज्ञानं च मोक्षश् च यथावद् उक्तम् । तपांसि सूक्ष्माणि च यानि चैव । साङ्ख्ये यथावद् विहितानि विप्राः

॥१०७॥

विपर्ययं तस्य हितं सदैव । गच्छन्ति साङ्ख्याः सततं सुखेन । तांश् चापि सन्धार्य ततः कृतार्थाः । पतन्ति विप्रायतनेषु भूयः

॥१०८॥

हित्वा च देहं प्रविशन्ति मोक्षं । दिवौकसश् चापि च योगसाङ्ख्याः । अतोऽधिकं तेऽभिरता महार्हे । साङ्ख्ये द्विजा भो इह शिष्टजुष्टे

॥१०९॥

तेषां तु तिर्यग्गमनं हि दृष्टं । नाधो गतिः पापकृतां निवासः । न वा प्रधाना अपि ते द्विजातयो । ये ज्ञानम् एतन् मुनयो न सक्ताः

॥११०॥

साङ्ख्यं विशालं परमं पुराणं । महार्णवं विमलम् उदारकान्तम् । नारायणे धारयताप्रमेयम्

॥१११॥

एतन् मयोक्तं परमं हि तत्त्वं । नारायणाद् विश्वम् इदं पुराणम् । स सर्गकाले च करोति सर्गं । संहारकाले च हरेत भूयः

॥११२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).