मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७६

3
ब्रह्मपुराणम् · 176

अध्यायः १७६

मुनय ऊचुः:

नहि नस् तृप्तिर् अस्तीह शृण्वतां भगवत्कथाम् । पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः

॥१॥

अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया । श्रोतुम् इच्छामहे देव विस्तरेण वदस्व नः

॥२॥

ब्रह्मोवाच:

प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् । अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम्

॥३॥

आदिकल्पे पुरा विप्रास् त्व् अहम् अव्यक्तजन्मवान् । विश्वकर्माणम् आहूय वचनं प्रोक्तवान् इदम्

॥४॥

वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् । प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि

॥५॥

यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः । येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम्

॥६॥

त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् । वासुदेवं समाराध्य निरातङ्का वसन्ति ते

॥७॥

मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् । चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम्

॥८॥

सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् । श्रीवत्सलक्ष्मसंयुक्ताम् अत्युग्रां प्रतिमोत्तमाम्

॥९॥

वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् । पीतवस्त्रां सुपीनांसां कुण्डलाभ्याम् अलङ्कृताम्

॥१०॥

एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस् तदा स्वयम् । प्रतिष्ठाकालम् आसाद्य मयासौ निर्मिता पुरा

॥११॥

तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह । जगाम ब्रह्मसदनम् आरुह्य गजम् उत्तमम्

॥१२॥

प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः । प्रतिमां तां समाराध्य स्वपुरं पुनर् आगमत्

॥१३॥

तां समाराध्य सुचिरं यतवाक्कायमानसः । वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च

॥१४॥

निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् । द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः

॥१५॥

बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् । दश वर्षसहस्राणि निराहारो जितेन्द्रियः

॥१६॥

चचार व्रतम् अत्युग्रं तपः परमदुश्चरम् । तपसा तेन तुष्टोऽहं वरं तस्मै प्रदत्तवान्

॥१७॥

अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् । शापप्रहरणैर् उग्रैर् अवध्यो यमकिङ्करैः

॥१८॥

वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् । धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः

॥१९॥

सङ्ग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः । देवराजं विनिर्जित्य तदा इन्द्रजितेति वै

॥२०॥

राक्षसस् तत्सुतो नाम मेघनादः प्रलब्धवान् । अमरावतीं ततः प्राप्य देवराजगृहे शुभे

॥२१॥

ददर्शाञ्जनसङ्काशां रावणस् तु बलान्वितः । प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम्

॥२२॥

श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् । वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम्

॥२३॥

शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् । सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम्

॥२४॥

विहाय रत्नसङ्घांश् च प्रतिमां शुभलक्षणाम् । पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम्

॥२५॥

पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः । रावणस्यानुजो मन्त्री नारायणपरायणः

॥२६॥

दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् । रोमाञ्चिततनुर् भूत्वा विस्मयं समपद्यत

॥२७॥

प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना । अद्य मे सफलं जन्म अद्य मे सफलं तपः

॥२८॥

इत्य् उक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर् मुहुः । ज्येष्ठं भ्रातरम् आसाद्य कृताञ्जलिर् अभाषत

॥२९॥

राजन् प्रतिमया त्वं मे प्रसादं कर्तुम् अर्हसि । याम् आराध्य जगन्नाथ निस्तरेयं भवार्णवम्

॥३०॥

भ्रातुर् वचनम् आकर्ण्य रावणस् तं तदाब्रवीत् । गृहाण प्रतिमां वीर त्व् अनया किं करोम्य् अहम्

॥३१॥

स्वयम्भुवं समाराध्य त्रैलोक्यं विजये त्व् अहम् । नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम्

॥३२॥

विभीषणो महाबुद्धिस् तदा तां प्रतिमां शुभाम् । शतम् अष्टोत्तरं चाब्दं समाराध्य जनार्दनम्

॥३३॥

अजरामरणं प्राप्तम् अणिमादिगुणैर् युतम् । राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान्

॥३४॥

मुनय ऊचुः:

अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् । अनन्तवासुदेवस्य सम्भवं भुवि दुर्लभम्

॥३५॥

श्रोतुम् इच्छामहे देव विस्तरेण यथातथम् । तस्य देवस्य माहात्म्यं वक्तुम् अर्हस्य् अशेषतः

॥३६॥

ब्रह्मोवाच:

तदा स राक्षसः क्रूरो देवगन्धर्वकिन्नरान् । लोकपालान् समनुजान् मुनिसिद्धांश् च पापकृत्

॥३७॥

विजित्य समरे सर्वान् आजहार तदङ्गनाः । संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः

॥३८॥

शङ्कितो मृगरूपेण सौवर्णेन च रावणः । ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह

॥३९॥

रावणस्य वधार्थाय हत्वा वालिं मनोजवम् । अभिषिक्तश् च सुग्रीवो युवराजोऽङ्गदस् तथा

॥४०॥

हनुमान् नलनीलश् च जाम्बवान् पनसस् तथा । गवयश् च गवाक्षश् च पाठीनः परमौजसः

॥४१॥

एतैश् चान्यैश् च बहुभिर् वानरैः समहाबलैः । समावृतो महाघोरै रामो राजीवलोचनः

॥४२॥

गिरीणां सर्वसङ्घातैः सेतुं बद्ध्वा महोदधौ । बलेन महता रामः समुत्तीर्य महोदधिम्

॥४३॥

सङ्ग्रामम् अतुलं चक्रे रक्षोगणसमन्वितः । यमहस्तं प्रहस्तं च निकुम्भं कुम्भम् एव च

॥४४॥

नरान्तकं महावीर्यं तथा चैव यमान्तकम् । मालाढ्यं मालिकाढ्यं च हत्वा रामस् तु वीर्यवान्

॥४५॥

पुनर् इन्द्रजितं हत्वा कुम्भकर्णं सरावणम् । वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे

॥४६॥

वासुदेवं समादाय यानं पुष्पकम् आरुहत् । लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम्

॥४७॥

कनिष्ठं भरतं स्नेहाच् छत्रुघ्नं भक्तवत्सलः । अभिषिच्य तदा रामः सर्वराज्येऽधिराजवत्

॥४८॥

पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः । दश वर्षसहस्राणि दश वर्षशतानि च

॥४९॥

भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः । राज्यम् आसाद्य सुगतिं वैष्णवं पदम् आविशत्

॥५०॥

तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् । धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः

॥५१॥

द्वापरं युगम् आसाद्य यदा देवो जगत्पतिः । धरण्याश् चानुरोधेन भावशैथिल्यकारणात्

॥५२॥

अवतीर्णः स भगवान् वसुदेवकुले प्रभुः । कंसादीनां वधार्थाय सङ्कर्षणसहायवान्

॥५३॥

तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् । सर्वलोकहितार्थाय कस्यचित् कारणान्तरे

॥५४॥

तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे । उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः

॥५५॥

तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः । आस्ते स देवो देवानां सर्वकामफलप्रदः

॥५६॥

ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् । वाङ्मनःकर्मभिर् नित्यं ते यान्ति परमं पदम्

॥५७॥

दृष्ट्वानन्तं सकृद् भक्त्या सम्पूज्य प्रणिपत्य च । राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत्

॥५८॥

सर्वकामसमृद्धेन कामगेन सुवर्चसा । विमानेनार्कवर्णेन किङ्किणीजालमालिना

॥५९॥

त्रिःसप्तकुलम् उद्धृत्य दिव्यस्त्रीगणसेवितः । उपगीयमानो गन्धर्वैर् नरो विष्णुपुरं व्रजेत्

॥६०॥

तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः । दिव्यरूपधरः श्रीमान् यावद् आभूतसम्प्लवम्

॥६१॥

पुण्यक्षयाद् इहायातश् चतुर्वेदी द्विजोत्तमः । वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्

॥६२॥

एवं मया त्व् अनन्तोऽसौ कीर्तितो मुनिसत्तमाः । कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैर् अपि

॥६३॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).