अध्यायः १४४
ब्रह्मोवाच:
परुष्णीसङ्गमं चेति तीर्थं त्रैलोक्यविश्रुतम् । तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम्
॥१॥अत्रिर् आराधयाम् आस ब्रह्मविष्णुमहेश्वरान् । तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ
॥२॥तथा चैका रूपवती कन्या मम भवेत् सुराः । तथा पुत्रत्वम् आपुस् ते ब्रह्मविष्णुमहेश्वराः
॥३॥कन्यां च जनयाम् आस शुभात्रेयीति नामतः । दत्तः सोमोऽथ दुर्वासाः पुत्रास् तस्य महात्मनः
॥४॥अग्नेर् अङ्गिरसो जातो ह्य् अङ्गारैर् अङ्गिरा यतः । तस्माद् अङ्गिरसे प्रादाद् आत्रेयीम् अतिरोचिषम्
॥५॥अग्नेः प्रभावात् परुषम् आत्रेयीं सर्वदावदत् । आत्रेय्य् अपि च शुश्रूषां कुर्वती सर्वदाभवत्
॥६॥तस्याम् आङ्गिरसा जाता महाबलपराक्रमाः । अङ्गिराः परुषं वादीद् आत्रेयीं नित्यम् एव च
॥७॥पुत्रास् त्व् आङ्गिरसा नित्यं पितरं शमयन्ति ते । सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् । कृताञ्जलिपुटा दीना प्राब्रवीच् छ्वशुरं गुरुम्
॥८॥आत्रेय्य् उवाच:
अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै । शुश्रूषणपरा नित्यं पुत्राणां भर्तुर् एव च
॥९॥पतिर् मां परुषं वक्ति वृथैवोद्वीक्षते रुषा । प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम्
॥१०॥ज्वलन उवाच:
अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्य् अङ्गिरा ऋषिः । यथा शान्तो भवेद् भद्रे तथा नीतिर् विधीयताम्
॥११॥आग्नेयोऽग्निं समायातो तव भर्ता वरानने । तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया
॥१२॥आत्रेय्य् उवाच:
सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् । भर्तरि प्रतिकूलानां योषितां जीवनेन किम्
॥१३॥इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा
॥१४॥ज्वलन उवाच:
अग्निस् त्व् अप्सु शरीरेषु स्थावरे जङ्गमे तथा । तव भर्तुर् अहं धाम नित्यं च जनको मतः
॥१५॥योऽहं सोऽहम् इति ज्ञात्वा न चिन्तां कर्तुम् अर्हसि । किं चापो मातरो देव्यो ह्य् अग्निः श्वशुर इत्य् अपि । इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे
॥१६॥स्नुषोवाच:
आपो जनन्य इति यद् बभाषे । अग्नेर् अहं तव पुत्रस्य भार्या । कथं भूत्वा जननी चापि भार्या । विरुद्धम् एतज् जलरूपेण नाथ
॥१७॥ज्वलन उवाच:
आदौ तु पत्नी भरणात् तु भार्या । जनेस् तु जाया स्वगुणैः कलत्रम् । इत्यादिरूपाणि बिभर्षि भद्रे । कुरुष्व वाक्यं मदुदीरितं यत्
॥१८॥योऽस्यां प्रजातः स तु पुत्र एव । सा तस्य मातैव न संशयोऽत्र । तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः । सा नैव योषित् तनयेऽभिजाते
॥१९॥ब्रह्मोवाच:
श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् । आग्नेयं रूपम् आपन्नम् अम्भसाप्लावयत् पतिम्
॥२०॥उभौ तौ दम्पती ब्रह्मन् सङ्गतौ गाङ्गवारिणा । शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः
॥२१॥लक्ष्म्या युक्तो यथा विष्णुर् उमया शङ्करो यथा । रोहिण्या च यथा चन्द्रस् तथाभून् मिथुनं तदा
॥२२॥भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः । परुष्णी चेति विख्याता गङ्गया सङ्गता नदी
॥२३॥गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् । तत्र चाङ्गिरसाश् चक्रुर् यज्ञांश् च बहुदक्षिणान्
॥२४॥तत्र त्रीणि सहस्राणि तीर्थान्य् आहुः पुराणगाः । उभयोस् तीरयोस् तात पृथग् यागफलं विदुः
॥२५॥तेषु स्नानं च दानं च वाजपेयाधिकं मतम् । विशेषतस् तु गङ्गायाः परुष्ण्या सह सङ्गमे
॥२६॥स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते
॥२७॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).