मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९९

3
ब्रह्मपुराणम् · 99

अध्यायः ९९

ब्रह्मोवाच:

ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः । तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः

॥१॥

आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः । न दारसङ्ग्रहं लेभे वैराग्यान् नाग्निपूजनम्

॥२॥

कनीयांस् तु समर्थोऽपि परिवित्तिभयान् मुने । नाकरोद् दारकर्मादि नैवाग्नीनाम् उपासनम्

॥३॥

ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् । ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः

॥४॥

पितर ऊचुः:

ऋणत्रयापनोदाय क्रियतां दारसङ्ग्रहः

॥५॥

ब्रह्मोवाच:

नेत्य् उवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते । कनीयांस् तु पितॄन् प्राह न योग्यो दारसङ्ग्रहः

॥६॥

ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति । ताव् उभौ पुनर् अप्य् एवम् ऊचुस् ते वै पितामहाः

॥७॥

पितर ऊचुः:

याताम् उभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ । कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम्

॥८॥

गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् । स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ

॥९॥

दृष्टावनामिता ध्याता गौतमी सर्वकामदा । न देशकालजात्यादिनियमोऽत्रावगाहने । ज्येष्ठोऽनृणस् ततो भूयात् परिवित्तिर् न चेतरः

॥१०॥

ब्रह्मोवाच:

ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् । त्रयाणाम् अपि लोकानां काक्षीवतोऽनृणोऽभवत्

॥११॥

ततः प्रभृति तत् तीर्थम् ऋणमोचनम् उच्यते । श्रौतस्मार्तर्णेभ्यश् च इतरेभ्यश् च नारद । तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत्

॥१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).