अध्यायः ६३
ब्रह्मोवाच:
ततो गच्छेद् द्विजश्रेष्ठास् तीर्थं यज्ञाङ्गसम्भवम् । इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम्
॥१॥गत्वा तत्र शुचिर् धीमान् आचम्य मनसा हरिम् । ध्यात्वोपस्थाय च जलम् इमं मन्त्रम् उदीरयेत्
॥२॥अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन । स्नानं त्वयि करोम्य् अद्य पापं हर नमोऽस्तु ते
॥३॥एवम् उच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितॄन् । तिलोदकेन चान्यांश् च सन्तर्प्याचम्य वाग्यतः
॥४॥दत्त्वा पितॄणां पिण्डांश् च सम्पूज्य पुरुषोत्तमम् । दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः
॥५॥सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् । कामगेन विमानेन विष्णुलोकं स गच्छति
॥६॥भुक्त्वा तत्र सुखान् भोगान् यावच् चन्द्रार्कतारकम् । च्युतस् तस्माद् इहायातो मोक्षं च लभते ध्रुवम्
॥७॥एवं कृत्वा पञ्चतीर्थीम् एकादश्याम् उपोषितः । ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम्
॥८॥स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये । प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः
॥९॥मुनय ऊचुः:
मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह । प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो
॥१०॥ब्रह्मोवाच:
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः
॥११॥पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च । पुष्करिण्यस् तडागानि वाप्यः कूपास् तथा ह्रदाः
॥१२॥नानानद्यः समुद्राश् च सप्ताहं पुरुषोत्तमे । ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा
॥१३॥स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः । यत् किञ्चित् क्रियते तत्र तस्मिन् कालेऽक्षयं भवेत्
॥१४॥शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः । हरते दश पापानि तस्माद् दशहरा स्मृता
॥१५॥यस् तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः । सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः
॥१६॥उत्तरे दक्षिणे विप्रास् त्व् अयने पुरुषोत्तमम् । दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः
॥१७॥नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् । फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत्
॥१८॥विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः । कृत्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः
॥१९॥नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् । विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति
॥२०॥यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् । वैशाखस्यासिते पक्षे स यात्य् अच्युतमन्दिरम्
॥२१॥ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् । कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
॥२२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).