अध्यायः ७३
नारद उवाच:
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी । यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद
॥१॥ब्रह्मोवाच:
बलिर् नाम महादैत्यो देवारिर् अपराजितः । धर्मेण यशसा चैव प्रजासंरक्षणेन च
॥२॥गुरुभक्त्या च सत्येन वीर्येण च बलेन च । त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते
॥३॥तस्यर्द्धिम् उन्नतां दृष्ट्वा देवाश् चिन्तापरायणाः । मिथः समूचुर् अमरा जेष्यामो वै कथं बलिम्
॥४॥तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् । नारयो व्याधयो वापि नाधयो वा कथञ्चन
॥५॥अनावृष्टिर् अधर्मो वा नास्तिशब्दो न दुर्जनः । स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति
॥६॥तस्योन्नतिशरैर् भग्नाः कीर्तिखड्गद्विधाकृताः । तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे
॥७॥ततः सम्मन्त्रयाम् आसुः कृत्वा मात्सर्यम् अग्रतः । तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः
॥८॥देवा ऊचुः:
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर । अस्मदर्थे भवान् नित्यम् आयुधानि बिभर्ति च
॥९॥त्वयि नाथे जगन्नाथ अस्माकं दुःखम् ईदृशम् । त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति
॥१०॥मनसा कर्मणा वाचा त्वाम् एव शरणं गताः । त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि
॥११॥यजामस् त्वां महायज्ञैर् वदामो वाग्भिर् अच्युत । त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि
॥१२॥त्वद्वीर्यम् आश्रिता नित्यं देवाः सेन्द्रपुरोगमाः । त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि
॥१३॥स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर् भूत्वा तु रक्षसि । संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि
॥१४॥ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् । हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि
॥१५॥अनादिस् त्वं जगद्धातर् अनन्तस् त्वं जगद्गुरुः । अन्तवन्तम् अमुं शत्रुं कथं दैत्यं नमेमहि
॥१६॥तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यम् ओजसा । स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि
॥१७॥ब्रह्मोवाच:
इत्य् एतद् एव वचनं श्रुत्वा दैतेयसूदनः । उवाच सर्वान् अमरान् देवानां कार्यसिद्धये
॥१८॥श्रीभगवान् उवाच:
मद्भक्तोऽसौ बलिर् दैत्यो ह्य् अवध्योऽसौ सुरासुरैः । यथा भवन्तो मत्पोष्यास् तथा पोष्यो बलिर् मम
॥१९॥विना तु सङ्गरं देवा हत्वा राज्यं त्रिविष्टपे । बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्य् अहम्
॥२०॥ब्रह्मोवाच:
तथेत्य् उक्त्वा सुरगणाः सञ्जग्मुर् दिवम् एव हि । भगवान् अपि देवेशो ह्य् अदित्या गर्भम् आविशत्
॥२१॥तस्मिन्न् उत्पद्यमाने तु उत्सवाश् च बभूविरे । जातोऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः
॥२२॥एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः । बलिर् बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः
॥२३॥पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना । मखे तस्मिन् वर्तमाने यजमाने बलौ तथा
॥२४॥आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि । हविर्भागार्थम् आसन्नदेवगन्धर्वपन्नगे
॥२५॥दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् । परिपूर्णं पुनः पूर्णम् एवं वाक्ये प्रवर्तति
॥२६॥शनैस् तद्देशम् अभ्यागाद् वामनः सामगायनः । यज्ञवाटम् अनुप्राप्तो वामनश् चित्रकुण्डलः
॥२७॥प्रशंसमानस् तं यज्ञं वामनं प्रेक्ष्य भार्गवः । ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम्
॥२८॥दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् । ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम्
॥२९॥जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् । बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे
॥३०॥ध्यायन्तं यज्ञपुरुषम् उत्सृजन्तं हविः पृथक् । तम् आह भृगुशार्दूलः शुक्रः परमबुद्धिमान्
॥३१॥शुक्र उवाच:
योऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः । नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः
॥३२॥शिशुस् त्वां याचितुं प्राप्तो नूनं देवहिताय हि । मया च सह सम्मन्त्र्य पश्चाद् देयं त्वया प्रभो
॥३३॥ब्रह्मोवाच:
बलिस् तु भार्गवं प्राह पुरोधसम् अरिन्दमः
॥३४॥बलिर् उवाच:
धन्योऽहं मम यज्ञेशो गृहम् आयाति मूर्तिमान् । आगत्य याचते किञ्चित् किं मन्त्र्यम् अवशिष्यते
॥३५॥ब्रह्मोवाच:
एवम् उक्त्वा सभार्योऽसौ शुक्रेण च पुरोधसा । जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः
॥३६॥कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम् । वामनोऽपि तदा प्राह पदत्रयमितां भुवम्
॥३७॥देहि राजेन्द्र नान्येन कार्यम् अस्ति धनेन किम् । तथेत्य् उक्त्वा तु कलशान् नानारत्नविभूषितात्
॥३८॥वारिधारां पुरस्कृत्य वामनाय भुवं ददौ । पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि
॥३९॥पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ । पश्यत्सु दैत्यसङ्घेषु जयशब्दे प्रवर्तति
॥४०॥शनैस् तु वामनः प्राह स्वस्ति राजन् सुखी भव । देहि मे सम्मितां भूमिं त्रिपदाम् आशु गम्यते
॥४१॥तथेत्य् उवाच दैत्येशो यावत् पश्यति वामनम् । यज्ञेशो यज्ञपुरुषश् चन्द्रादित्यौ स्तनान्तरे
॥४२॥यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः । अनन्तश् चाच्युतो देवो विक्रान्तो विक्रमाकृतिः । तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः
॥४३॥बलिर् उवाच:
क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय । जितं मया सुरेशान सर्वभावेन विश्वकृत्
॥४४॥ब्रह्मोवाच:
तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः
॥४५॥विष्णुर् उवाच:
दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट्
॥४६॥ब्रह्मोवाच:
एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः
॥४७॥ब्रह्मोवाच:
कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् । द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम्
॥४८॥तृतीयस्य पदस्यात्र स्थानं नास्त्य् असुरेश्वर । क्व क्रमिष्ये भुवं देहि बलिं तं हरिर् अब्रवीत् । विहस्य बलिर् अप्य् आह सभार्यः स कृताञ्जलिः
॥४९॥बलिर् उवाच:
त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर । त्वद्दोषाद् अल्पम् अभवत् किं करोमि जगन्मय
॥५०॥तथापि नानृतपूर्वं कदाचिद् वच्मि केशव । सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस
॥५१॥ब्रह्मोवाच:
ततः प्रसन्नो भगवांस् त्रयीमूर्तिः सुरार्चितः
॥५२॥भगवान् उवाच:
वरं वृणीष्व भद्रं ते भक्त्या प्रीतोऽस्मि दैत्यराट्
॥५३॥ब्रह्मोवाच:
स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् । स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम्
॥५४॥रसातलपतित्वं च भावि चेन्द्रपदं पुनः । आत्माधिपत्यं च हरिर् अविनाशि यशो विभुः
॥५५॥एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् । रसातले हरिः स्थाप्य बलिं त्व् अमरवैरिणम्
॥५६॥शतक्रतोस् तथा प्रादात् सुरराज्यं यथाभवम् । एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम्
॥५७॥द्वितीयं तत् पदं विष्णोः पितुर् मम महामते । यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्य् अचिन्तयम्
॥५८॥किं कृत्यं यच् छुभं मे स्यात् पदे विष्णोः समागते । सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः
॥५९॥तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा । वरं वरेण्यं वरदं वरं शान्तिकरं परम्
॥६०॥शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् । मातृस्वरूपं लोकानाम् अमृतं भेषजं शुचि
॥६१॥पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् । स्मरणाद् एव लोकानां पावनं किं नु दर्शनात्
॥६२॥तादृग् वारि शुचिर् भूत्वा कल्पयेऽर्घाय मे पितुः । इति सञ्चिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम्
॥६३॥विष्णोः पादे तु पतितम् अर्घवारि सुमन्त्रितम् । तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम्
॥६४॥पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा । दक्षिणे यत् तु पतितं जटाभिः शङ्करो मुने
॥६५॥जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम् । उत्तरे पतितं यत् तु विष्णुर् जग्राह तज् जलम्
॥६६॥पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः । जगृहुः शुभदं वारि तस्माच् छ्रेष्ठं तद् उच्यते
॥६७॥या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः । विष्णुपादप्रसूतास् ता ब्रह्मण्या लोकमातरः
॥६८॥महेश्वरजटासंस्थाः पर्वजातशुभोदयाः । तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात्
॥६९॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).