अध्यायः ४१
लोमहर्षण उवाच:
श्रुत्वैवं वै मुनिश्रेष्ठाः कथां पापप्रणाशिनीम् । रुद्रक्रोधोद्भवां पुण्यां व्यासस्य वदतो द्विजाः
॥१॥पार्वत्याश् च तथा रोषं क्रोधं शम्भोश् च दुःसहम् । उत्पत्तिं वीरभद्रस्य भद्रकाल्याश् च सम्भवम्
॥२॥दक्षयज्ञविनाशं च वीर्यं शम्भोस् तथाद्भुतम् । पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः
॥३॥यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः । हृष्टा बभूवुः सम्प्रीता विस्मिताश् च पुनः पुनः
॥४॥पप्रच्छुश् च पुनर् व्यासं कथाशेषं तथा द्विजाः । पृष्टः प्रोवाच तान् व्यासः क्षेत्रम् एकाम्रकं पुनः
॥५॥व्यास उवाच:
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुङ्गवाः । प्रशशंसुस् तदा हृष्टा रोमाञ्चिततनूरुहाः
॥६॥ऋषय ऊचुः:
अहो देवस्य माहात्म्यं त्वया शम्भोः प्रकीर्तितम् । दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा
॥७॥एकाम्रकं क्षेत्रवरं वक्तुम् अर्हसि साम्प्रतम् । श्रोतुम् इच्छामहे ब्रह्मन् परं कौतूहलं हि नः
॥८॥व्यास उवाच:
तेषां तद् वचनं श्रुत्वा लोकनाथश् चतुर्मुखः । प्रोवाच शम्भोस् तत् क्षेत्रं भूतले दुष्कृतच्छदम्
॥९॥ब्रह्मोवाच:
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः । सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्
॥१०॥लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम् । एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्
॥११॥एकाम्रवृक्षस् तत्रासीत् पुरा कल्पे द्विजोत्तमाः । नाम्ना तस्यैव तत् क्षेत्रम् एकाम्रकम् इति श्रुतम्
॥१२॥हृष्टपुष्टजनाकीर्णं नरनारीसमन्वितम् । विद्वांसगण भूयिष्ठं धनधान्यादिसंयुतम्
॥१३॥गृहगोपुरसम्बाधं त्रिकचाद्वारभूषितम् । नानावणिक्समाकीर्णं नानारत्नोपशोभितम्
॥१४॥पुराट्टालकसंयुक्तं रथिभिः समलङ्कृतम् । राजहंसनिभैः शुभ्रैः प्रासादैर् उपशोभितम्
॥१५॥मार्गगद्वारसंयुक्तं सितप्राकारशोभितम् । रक्षितं शस्त्रसङ्घैश् च परिखाभिर् अलङ्कृतम्
॥१६॥सितरक्तैस् तथा पीतैः कृष्णश्यामैश् च वर्णकैः । समीरणोद्धताभिश् च पताकाभिर् अलङ्कृतम्
॥१७॥नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः । वीणावेणुमृदङ्गैश् च क्षेपणीभिर् अलङ्कृतम्
॥१८॥देवतायतनैर् दिव्यैः प्राकारोद्यानमण्डितैः । पूजाविचित्ररचितैः सर्वत्र समलङ्कृतम्
॥१९॥स्त्रियः प्रमुदितास् तत्र दृश्यन्ते तनुमध्यमाः । हारैर् अलङ्कृतग्रीवाः पद्मपत्त्रायतेक्षणाः
॥२०॥पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः । स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः
॥२१॥सुकेश्यश् चारुजघनाः कर्णान्तायतलोचनाः । सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः
॥२२॥दिव्यवस्त्रधराः शुभ्राः काश्चित् काञ्चनसन्निभाः । हंसवारणगामिन्यः कुचभारावनामिताः
॥२३॥दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः । मदालसाश् च सुश्रोण्यो नित्यं प्रहसिताननाः
॥२४॥ईषद्विस्पष्टदशना बिम्बौष्ठा मधुरस्वराः । ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः
॥२५॥सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः । दिव्यवस्त्रधराः सर्वाः सदा चारित्रमण्डिताः
॥२६॥क्रीडन्ति ताः सदा तत्र स्त्रियश् चाप्सरसोपमाः । स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः
॥२७॥पुरुषास् तत्र दृश्यन्ते रूपयौवनगर्विताः । सर्वलक्षणसम्पन्नाः सुमृष्टमणिकुण्डलाः
॥२८॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः । स्वधर्मनिरतास् तत्र निवसन्ति सुधार्मिकाः
॥२९॥अन्याश् च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः । घृताचीमेनकातुल्यास् तथा समतिलोत्तमाः
॥३०॥उर्वशीसदृशाश् चैव विप्रचित्तिनिभास् तथा । विश्वाचीसहजन्याभाः प्रम्लोचासदृशास् तथा
॥३१॥सर्वास् ताः प्रियवादिन्यः सर्वा विहसिताननाः । कलाकौशलसंयुक्ताः सर्वास् ता गुणसंयुताः
॥३२॥एवं पण्यस्त्रियस् तत्र नृत्यगीतविशारदाः । निवसन्ति मुनिश्रेष्ठाः सर्वस्त्रीगुणगर्विताः
॥३३॥प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः । न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः
॥३४॥यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः । न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः
॥३५॥न रोगिणो न मलिना न कदर्या न मायिनः । न रूपहीना दुर्वृत्ता न परद्रोहकारिणः
॥३६॥तिष्ठन्ति मानवास् तत्र क्षेत्रे जगति विश्रुते । सर्वत्र सुखसञ्चारं सर्वसत्त्वसुखावहम्
॥३७॥नानाजनसमाकीर्णं सर्वसस्यसमन्वितम् । कर्णिकारैश् च पनसैश् चम्पकैर् नागकेसरैः
॥३८॥पाटलाशोकबकुलैः कपित्थैर् बहुलैर् धवैः । चूतनिम्बकदम्बैश् च तथान्यैः पुष्पजातिभिः
॥३९॥नीपकैर् धवखदिरैर् लताभिश् च विराजितम् । शालैस् तालैस् तमालैश् च नारिकेलैः शुभाञ्जनैः
॥४०॥अर्जुनैः समपर्णैश् च कोविदारैः सपिप्पलैः । लकुचैः सरलैर् लोध्रैर् हिन्तालैर् देवदारुभिः
॥४१॥पलाशैर् मुचुकुन्दैश् च पारिजातैः सकुब्जकैः । कदलीवनखण्डैश् च जम्बूपूगफलैस् तथा
॥४२॥केतकीकरवीरैश् च अतिमुक्तैश् च किंशुकैः । मन्दारकुन्दपुष्पैश् च तथान्यैः पुष्पजातिभिः
॥४३॥नानापक्षिरुतैः सेव्यैर् उद्यानैर् नन्दनोपमैः । फलभारानतैर् वृक्षैः सर्वर्तुकुसुमोत्करैः
॥४४॥चकोरैः शतपत्त्रैश् च भृङ्गराजैश् च कोकिलैः । कलविङ्कैर् मयूरैश् च प्रियपुत्रैः शुकैस् तथा
॥४५॥जीवञ्जीवकहारीतैश् चातकैर् वनवेष्टितैः । नानापक्षिगणैश् चान्यैः कूजद्भिर् मधुरस्वरैः
॥४६॥दीर्घिकाभिस् तडागैश् च पुष्करिणीभिश् च वापिभिः । नानाजलाशयैश् चान्यैः पद्मिनीखण्डमण्डितैः
॥४७॥कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः । कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
॥४८॥कारण्डवैः प्लवैर् हंसैस् तथान्यैर् जलचारिभिः । एवं नानाविधैर् वृक्षैः पुष्पैर् नानाविधैर् वरैः
॥४९॥नानाजलाशयैः पुण्यैः शोभितं तत् समन्ततः । आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः
॥५०॥हिताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः । पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च
॥५१॥पुष्करिण्यस् तडागानि वाप्यः कूपाश् च सागराः । तेभ्यः पूर्वं समाहृत्य जलबिन्दून् पृथक् पृथक्
॥५२॥सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह । तीर्थं बिन्दुसरो नाम तस्मिन् क्षेत्रे द्विजोत्तमाः
॥५३॥चकार ऋषिभिः सार्धं तेन बिन्दुसरः स्मृतम् । अष्टम्यां बहुले पक्षे मार्गशीर्षे द्विजोत्तमाः
॥५४॥यस् तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः । विधिवद् बिन्दुसरसि स्नात्वा श्रद्धासमन्वितः
॥५५॥देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य वाग्यतः । तिलोदकेन विधिना नामगोत्रविधानवित्
॥५६॥स्नात्वैवं विधिवत् तत्र सोऽश्वमेधफलं लभेत् । ग्रहोपरागे विषुवे सङ्क्रान्त्याम् अयने तथा
॥५७॥युगादिषु षडशीत्यां तथान्यत्र शुभे तिथौ । ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम्
॥५८॥अन्यतीर्थाच् छतगुणं फलं ते प्राप्नुवन्ति वै । पिण्डं ये सम्प्रयच्छन्ति पितृभ्यः सरसस् तटे
॥५९॥पितॄणाम् अक्षयां तृप्तिं ते कुर्वन्ति न संशयः । ततः शम्भोर् गृहं गत्वा वाग्यतः संयतेन्द्रियः
॥६०॥प्रविश्य पूजयेच् छर्वं कृत्वा तं त्रिः प्रदक्षिणम् । घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः
॥६१॥चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च । ततः सम्पूजयेद् देवं चन्द्रमौलिम् उमापतिम्
॥६२॥पुष्पैर् नानाविधैर् मेध्यैर् बिल्वार्ककमलादिभिः । आगमोक्तेन मन्त्रेण वेदोक्तेन च शङ्करम्
॥६३॥अदीक्षितस् तु नाम्नैव मूलमन्त्रेण चार्चयेत् । एवं सम्पूज्य तं देवं गन्धपुष्पानुरागिभिः
॥६४॥धूपदीपैश् च नैवेद्यैर् उपहारैस् तथा स्तवैः । दण्डवत्प्रणिपातैश् च गीतैर् वाद्यैर् मनोहरैः
॥६५॥नृत्यजप्यनमस्कारैर् जयशब्दैः प्रदक्षिणैः । एवं सम्पूज्य विधिवद् देवदेवम् उमापतिम्
॥६६॥सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः । कुलैकविंशम् उद्धृत्य दिव्याभरणभूषिताः
॥६७॥सौवर्णेन विमानेन किङ्किणीजालमालिना । उपगीयमानो गन्धर्वैर् अप्सरोभिर् अलङ्कृतः
॥६८॥उद्द्योतयन् दिशः सर्वाः शिवलोकं स गच्छति । भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्
॥६९॥तल्लोकवासिभिः सार्धं यावद् आभूतसम्प्लवम् । ततस् तस्माद् इहायातः पृथिव्यां पुण्यसङ्क्षये
॥७०॥जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः । योगं पाशुपतं प्राप्य ततो मोक्षम् अवाप्नुयात्
॥७१॥शयनोत्थापने चैव सङ्क्रान्त्याम् अयने तथा । अशोकाख्यां तथाष्टम्यां पवित्रारोपणे तथा
॥७२॥ये च पश्यन्ति तं देवं कृत्तिवाससम् उत्तमम् । विमानेनार्कवर्णेन शिवलोकं व्रजन्ति ते
॥७३॥सर्वकालेऽपि तं देवं ये पश्यन्ति सुमेधसः । तेऽपि पापविनिर्मुक्ताः शिवलोकं व्रजन्ति वै
॥७४॥देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा । योजनद्वितयं सार्धं क्षेत्रं तद् भुक्तिमुक्तिदम्
॥७५॥तस्मिन् क्षेत्रवरे लिङ्गं भास्करेश्वरसञ्ज्ञितम् । पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्
॥७६॥आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम् । सर्वपापविनिर्मुक्ता विमानवरम् आस्थिताः
॥७७॥उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते । तिष्ठन्ति तत्र मुदिताः कल्पम् एकं द्विजोत्तमाः
॥७८॥भुक्त्वा तु विपुलान् भोगाञ् शिवलोके मनोरमान् । पुण्यक्षयाद् इहायाता जायन्ते प्रवरे कुले
॥७९॥अथवा योगिनां गेहे वेदवेदाङ्गपारगाः । उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः
॥८०॥मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः । योगं शम्भोर् वरं प्राप्य ततो मोक्षं व्रजन्ति ते
॥८१॥तस्मिन् क्षेत्रवरे पुण्ये लिङ्गं यद् दृश्यते द्विजाः । पूज्यापूज्यं च सर्वत्र वने रथ्यान्तरेऽपि वा
॥८२॥चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति । दृष्ट्वा तल् लिङ्गम् अव्यग्रः श्रद्धया सुसमाहितः
॥८३॥स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर् मनोहरैः । धूपैर् दीपैः सनैवेद्यैर् नमस्कारैस् तथा स्तवैः
॥८४॥दण्डवत्प्रणिपातैश् च नृत्यगीतादिभिस् तथा । सम्पूज्यैवं विधानेन शिवलोकं व्रजेन् नरः
॥८५॥नारी वा द्विजशार्दूलाः सम्पूज्य श्रद्धयान्विता । पूर्वोक्तं फलम् आप्नोति नात्र कार्या विचारणा
॥८६॥कः शक्नोति गुणान् वक्तुं समग्रान् मुनिसत्तमाः । तस्य क्षेत्रवरस्याथ ऋते देवान् महेश्वरात्
॥८७॥तस्मिन् क्षेत्रोत्तमे गत्वा श्रद्धयाश्रद्धयापि वा । माधवादिषु मासेषु नरो वा यदि वाङ्गना
॥८८॥यस्मिन् यस्मिंस् तिथौ विप्राः स्नात्वा बिन्दुसरोम्भसि । पश्येद् देवं विरूपाक्षं देवीं च वरदां शिवाम्
॥८९॥गणं चण्डं कार्त्तिकेयं गणेशं वृषभं तथा । कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति
॥९०॥स्नात्वा च कापिले तीर्थे विधिवत् पापनाशने । प्राप्नोत्य् अभिमतान् कामाञ् शिवलोकं स गच्छति
॥९१॥यः स्तम्भ्यं तत्र विधिवत् करोति नियतेन्द्रियः । कुलैकविंशम् उद्धृत्य शिवलोकं स गच्छति
॥९२॥एकाम्रके शिवक्षेत्रे वाराणसीसमे शुभे । स्नानं करोति यस् तत्र मोक्षं स लभते ध्रुवम्
॥९३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).