अध्यायः १५७
ब्रह्मोवाच:
किष्किन्धातीर्थम् आख्यातं सर्वकामप्रदं नृणाम् । सर्वपापप्रशमनं यत्र सन्निहितो भवः
॥१॥तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद । पुरा दाशरथी रामो रावणं लोकरावणम्
॥२॥किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि । सपुत्रं सबलं हत्वा सीताम् आदाय शत्रुहा
॥३॥भ्रात्रा सौमित्रिणा सार्धं वानरैश् च महाबलैः । विभीषणेन बलिना देवैः प्रत्यागतो नृपः
॥४॥कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः । यद् आसीद् धनराजस्य कामगेनाशुगामिना
॥५॥अयोध्याम् अगमन् सर्वे गच्छन् गङ्गाम् अपश्यत । रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम्
॥६॥गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् । मनोनयनसन्तापनिवारणपरायणाम्
॥७॥तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरम् अथाविशत् । तां दृष्ट्वा प्राह नृपतिर् हर्षगद्गदया गिरा । हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने
॥८॥राम उवाच:
अस्याः प्रभावाद् धरयो योऽसौ मम पिता प्रभुः । सर्वपापविनिर्मुक्तस् ततो यातस् त्रिविष्टपम्
॥९॥इयं जनित्री सकलस्य जन्तोर् । भुक्तिप्रदा मुक्तिम् अथापि दद्यात् । पापानि हन्याद् अपि दारुणानि । कान्यानयास्त्य् अत्र नदी समाना
॥१०॥हतानि शश्वद् दुरितानि चैव । अस्याः प्रभावाद् अरयः सखायः । विभीषणो मैत्रम् उपैति नित्यं । सीता च लब्धा हनुमांश् च बन्धुः
॥११॥लङ्का च भग्ना सगणं हि रक्षो । हतं हि यस्याः परिसेवनेन । यां गौतमो देववरं प्रपूज्य । शिवं शरण्यं सजटाम् अवाप
॥१२॥सेयं जनित्री सकलेप्सितानाम् । अमङ्गलानाम् अपि सन्निहन्त्री । जगत्पवित्रीकरणैकदक्षा । दृष्टाद्य साक्षात् सरितां सवित्री
॥१३॥कायेन वाचा मनसा सदैनां । व्रजामि गङ्गां शरणं शरण्याम्
॥१४॥ब्रह्मोवाच:
एतत् समाकर्ण्य वचो नृपस्य । तत्राप्लवन् हरयः सर्व एव । पूजां चक्रुर् विधिवत् ते पृथक् च । पुष्पैर् अनेकैः सर्वलोकोपहारैः
॥१५॥सम्पूज्य शर्वं नृपतिर् यथावत् । स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः । ते वानरा मुदिताः सर्व एव । नृत्यं च गीतं च तथैव चक्रुः
॥१६॥सुखोषितस् तां रजनीं महात्मा । प्रियानुयुक्तः संवृतः प्रेमवद्भिः । दुःखं जहौ सर्वम् अमित्रसम्भवं । किं नाप्यते गौतमीसेवनेन
॥१७॥सविस्मयः पश्यति भृत्यवर्गं । गोदावरीं स्तौति च सम्प्रहृष्टः । सम्मानयन् भृत्यगणं समग्रम् । अवाप रामः कमपि प्रमोदम् । पुनः प्रभाते विमले तु सूर्ये । विभीषणो दाशरथिं बभाषे
॥१८॥विभीषण उवाच:
नाद्यापि तृप्तास् तु भवाम तीर्थे । कञ्चिच् च कालं निवसाम चात्र । वत्स्याम चात्रैव पराश् चतस्रो । रात्रीर् अथो याम वृतास् त्व् अयोध्याम्
॥१९॥ब्रह्मोवाच:
तस्याथ वाक्यं हरयोऽनुमेनिरे । तथैव रात्रीर् अपराश् चतस्रः । सम्पूज्य देवं सकलेश्वरं तं । भ्रातृप्रियं तीर्थम् अथो जगाम
॥२०॥सिद्धेश्वरं नाम जगत्प्रसिद्धं । यस्य प्रभावात् प्रबलो दशास्यः । एवं तु पञ्चाहम् अथोषिरे ते । स्वं स्वं प्रतिष्ठापितलिङ्गम् अर्च्य
॥२१॥शुश्रूषणं तत्र करोति वायोः । सुतोऽनुगामी हनुमान् नृपस्य । गच्छन् नृपेन्द्रो हनुमन्तम् आह । लिङ्गानि सर्वाणि विसर्जयस्व
॥२२॥मत्स्थापितान्य् उत्तममन्त्रविद्भिस् । तथेतरैः शङ्करकिङ्करैश् च । नोद्वास्य पूजां परशङ्करेण । बाह्यं समायोज्यम् अहो भवस्य
॥२३॥तिष्ठन्ति सुस्थास् तदनादरेण । ते खड्गपत्त्रादिषु सम्भवन्ति । येऽश्रद्दधानाः शिवलिङ्गपूजां । विधाय कृत्यं न समाचरन्ति
॥२४॥यथोचितं ते यमकिङ्करैर् हि । पच्यन्त एवाखिलदुर्गतीषु । रामाज्ञया वायुसुतो जगाम । दोर्भ्यां न चोत्पाटयितुं शशाक
॥२५॥ततः स्वपुच्छेन ग्रहीतुकामः । संवेष्ट्य लिङ्गं तु विसृष्टकामः । नैवाशकत् तन् महद् अद्भुतं स्यात् । कपीश्वराणां नृपतेस् तथैव
॥२६॥कश् चालयेल् लब्धमहानुभावं । महेशलिङ्गं पुरुषो मनस्वी । तन् निश्चलं प्रेक्ष्य महानुभावो । नृपप्रवीरः सहसा जगाम
॥२७॥विप्रान् अथामन्त्र्य विधाय पूजां । प्रदक्षिणीकृत्य च रामचन्द्रः । शुद्धातिशुद्धेन हृदाखिलैस् तैर् । लिङ्गानि सर्वाणि ननाम रामः
॥२८॥किष्किन्धवासिप्रवरैर् अशेषैः । संसेवितं तीर्थम् अतो बभूव । अत्राप्लवाद् एव महान्ति पापान्य् । अपि क्षयं यान्ति न संशयोऽत्र
॥२९॥पुनश् च गङ्गां प्रणनाम भक्त्या । प्रसीद मातर् मम गौतमीति । जल्पन् मुहुर् विस्मितचित्तवृत्तिर् । विलोकयन् प्रणमन् गौतमीं ताम्
॥३०॥ततः प्रभृत्य् एतद् अतीव पुण्यं । किष्किन्धतीर्थं विबुधा वदन्ति । पठेत् स्मरेद् वापि शृणोति भक्त्या । पापापहं किं पुनः स्नानदानैः
॥३१॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).