मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२५

3
ब्रह्मपुराणम् · 125

अध्यायः १२५

ब्रह्मोवाच:

यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् । दृष्टादृष्टेष्टदं सर्वदेवर्षिगणसेवितम्

॥१॥

तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् । अनुह्राद इति ख्यातः कपोतो बलवान् अभूत्

॥२॥

तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी । मृत्योः पौत्रो ह्य् अनुह्रादो दौहित्री हेतिर् एव च

॥३॥

कालेनाथ तयोः पुत्राः पौत्राश् चैव बभूविरे । तस्य शत्रुश् च बलवान् उलूको नाम पक्षिराट्

॥४॥

तस्य पुत्राश् च पौत्राश् च आग्नेयास् ते बलोत्कटाः । तयोश् च वैरम् अभवद् बहुकालं द्विजन्मनोः

॥५॥

गङ्गाया उत्तरे तीरे कपोतस्याश्रमोऽभवत् । तस्याश् च दक्षिणे कूल उलूको नाम पक्षिराट्

॥६॥

वासं चक्रे तत्र पुत्रैः पौत्रैश् च द्विजसत्तम । तयोश् च युद्धम् अभवद् बहुकालं विरुद्धयोः

॥७॥

पुत्रैः पौत्रैश् च वृतयोर् बलिनोर् बलिभिः सह । उलूको वा कपोतो वा नैवाप्नोति जयाजयौ

॥८॥

कपोतो यमम् आराध्य मृत्युं पैतामहं तथा । याम्यम् अस्त्रम् अवाप्याथ सर्वेभ्योऽप्य् अधिकोऽभवत्

॥९॥

तथोलूकोऽग्निम् आराध्य बलवान् अभवद् भृशम् । वरैर् उन्मत्तयोर् युद्धम् अभवच् चातिभीषणम्

॥१०॥

तत्राग्नेयम् उलूकोऽपि कपोतायास्त्रम् आक्षिपत् । कपोतोऽप्य् अथ पाशान् वै याम्यान् आक्षिप्य शत्रवे

॥११॥

उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् । पुनस् तद् अभवद् युद्धं पुराडिबकयोर् यथा

॥१२॥

हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तम् अन्तिके । पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला

॥१३॥

अग्निना वेष्ट्यमानांश् च पुत्रान् दृष्ट्वा विशेषतः । सा गत्वा ज्वलनं हेतिस् तुष्टाव विविधोक्तिभिः

॥१४॥

हेतिर् उवाच:

रूपं न दानं न परोक्षम् अस्ति । यस्यात्मभूतं च पदार्थजातम् । अश्नन्ति हव्यानि च येन देवाः । स्वाहापतिं यज्ञभुजं नमस्ये

॥१५॥

मुखभूतं च देवानां देवानां हव्यवाहनम् । होतारं चापि देवानां देवानां दूतम् एव च

॥१६॥

तं देवं शरणं यामि आदिदेवं विभावसुम् । अन्तः स्थितः प्राणरूपो बहिश् चान्नप्रदो हि यः । यो यज्ञसाधनं यामि शरणं तं धनञ्जयम्

॥१७॥

अग्निर् उवाच:

अमोघम् एतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि । यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते

॥१८॥

कपोत्य् उवाच:

मयि विश्रम्यताम् अस्त्रं न पुत्रे न च भर्तरि । सत्यवाग् भव हव्येश जातवेदो नमोऽस्तु ते

॥१९॥

जातवेदा उवाच:

तुष्टोऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते । तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्य् अहम्

॥२०॥

आग्नेयम् एतद् अस्त्रं मे न भर्तारं सुतान् अपि । न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि

॥२१॥

ब्रह्मोवाच:

एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् । वेष्ट्यमानं याम्यपाशैर् यमदण्डेन ताडितम् । उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा

॥२२॥

उलूक्य् उवाच:

त्वद्भीता अनुद्रवन्ते जनास् । त्वद्भीता ब्रह्मचर्यं चरन्ति । त्वद्भीताः साधु चरन्ति धीरास् । त्वद्भीताः कर्मनिष्ठा भवन्ति

॥२३॥

त्वद्भीता अनाशकम् आचरन्ति । ग्रामाद् अरण्यम् अभि यच् चरन्ति । त्वद्भीताः सौम्यताम् आश्रयन्ते । त्वद्भीताः सोमपानं भजन्ते । त्वद्भीताश् चान्नगोदाननिष्ठास् । त्वद्भीता ब्रह्मवादं वदन्ति

॥२४॥

ब्रह्मोवाच:

एवं ब्रुवत्यां तस्यां ताम् आह दक्षिणदिक्पतिः

॥२५॥

यम उवाच:

वरं वरय भद्रं ते दास्येऽहं मनसः प्रियम्

॥२६॥

ब्रह्मोवाच:

यमस्येति वचः श्रुत्वा सा तम् आह पतिव्रता

॥२७॥

उलूक्य् उवाच:

भर्ता मे वेष्टितः पाशैर् दण्डेनाभिहतस् तव । तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारम् एव च

॥२८॥

ब्रह्मोवाच:

तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः पुनः

॥२९॥

यम उवाच:

पाशानां चापि दण्डस्य स्थानं वद शुभानने

॥३०॥

ब्रह्मोवाच:

सा प्रोवाच यमं देवं मयि पाशास् त्वयेरिताः । आविशन्तु जगन्नाथ दण्डो मय्य् एव संविशेत् । ततः प्रोवाच भगवान् यमस् तां कृपया पुनः

॥३१॥

यम उवाच:

तव भर्ता च पुत्राश् च सर्वे जीवन्तु विज्वराः

॥३२॥

ब्रह्मोवाच:

न्यवारयद् यमः पाशान् आग्नेयास्त्रं तु हव्यवाट् । कपोतोलूकयोश् चापि प्रीतिं वै चक्रतुः सुरौ । आहतुश् च द्विजन्मानौ व्रियतां वर ईप्सितः

॥३३॥

पक्षिणाव् ऊचतुः:

भवतोर् दर्शनं लब्धं वैरव्याजेन दुष्करम् । वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ

॥३४॥

अथ देयो वरोऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् । नात्मार्थम् अनुयाचावो दीयमानं वरं शुभम्

॥३५॥

आत्मार्थं यस् तु याचेत स शोच्यो हि सुरेश्वरौ । जीवितं सफलं तस्य यः परार्थोद्यतः सदा

॥३६॥

अग्निर् आपो रविः पृथ्वी धान्यानि विविधानि च । परार्थं वर्तनं तेषां सतां चापि विशेषतः

॥३७॥

ब्रह्मादयोऽपि हि यतो युज्यन्ते मृत्युना सह । एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः

॥३८॥

जन्मना सह यत् पुंसां विहितं परमेष्ठिना । कदाचिन् नान्यथा तद् वै वृथा क्लिश्यन्ति जन्तवः

॥३९॥

तस्माद् याचावहे किञ्चिद् धिताय जगतां शुभम् । गुणदायि तु सर्वेषां तद् युवाम् अनुमन्यताम्

॥४०॥

ब्रह्मोवाच:

ताव् आहतुर् उभौ देवौ पक्षिणौ लोकविश्रुतौ । धर्मस्य यशसोऽवाप्त्ये लोकानां हितकाम्यया

॥४१॥

पक्षिणाव् ऊचतुः:

आवाभ्याम् आश्रमौ तीर्थे गङ्गाया उभये तटे । भवेतां जगतां नाथाव् एष एव परो वरः

॥४२॥

स्नानं दानं जपो होमः पितॄणां चापि पूजनम् । सुकृती दुष्कृती वापि यः करोति यथा तथा । सर्वं तद् अक्षयं पुण्यं स्याद् इत्य् एष परो वरः

॥४३॥

देवाव् ऊचतुः:

एवम् अस्तु तथा चान्यत् सुप्रीतौ तु ब्रवावहै

॥४४॥

यम उवाच:

उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये । तेषां सप्तसु वंशेषु नाकाले मृत्युम् आप्नुयात्

॥४५॥

पुरुषो भाजनं च स्यात् सर्वदा सर्वसम्पदाम् । यस् त्व् इदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान्

॥४६॥

अष्टाशीतिसहस्रैश् च व्याधिभिर् न स बाध्यते । अस्मिंस् तीर्थे द्विजश्रेष्ठौ त्रिमासाद् गुर्विणी सती

॥४७॥

अर्वाग्वन्ध्या च षण्मासात् सप्ताहं स्नानम् आचरेत् । वीरसूः सा भवेन् नारी शतायुः स सुतो भवेत्

॥४८॥

लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः । तत्र पिण्डादिदानेन पितरो मुक्तिम् आप्नुयुः । मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः

॥४९॥

ब्रह्मोवाच:

यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ

॥५०॥

अग्निर् उवाच:

मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः । तेषाम् आरोग्यम् ऐश्वर्यं लक्ष्मीं रूपं ददाम्य् अहम्

॥५१॥

इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः । नैवाग्नितो भयं तस्य लिखितेऽपि गृहे स्थिते

॥५२॥

स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर् नरः । अग्निष्टोमफलं तस्य भवेद् एव न संशयः

॥५३॥

ब्रह्मोवाच:

ततः प्रभृति तत् तीर्थं याम्यम् आग्नेयम् एव च । कपोतं च तथोलूकं हेत्युलूकं विदुर् बुधाः

॥५४॥

तत्र त्रीणि सहस्राणि तावन्त्य् एव शतानि च । पुनर् नवतितीर्थानि प्रत्येकं मुक्तिभाजनम्

॥५५॥

तेषु स्नानेन दानेन प्रेतीभूताश् च ये नराः । पूतास् ते पुत्रवित्ताढ्या आक्रमेयुर् दिवं शुभाः

॥५६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).