अध्यायः १
यस्मात् सर्वम् इदं प्रपञ्चरचितं मायाजगज् जायते । यस्मिंस् तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः । यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं । तं वन्दे पुरुषोत्तमाख्यम् अमलं नित्यं विभुं निश्चलम्
॥१॥यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्सन्निभम् । नित्यानन्दमयं प्रसन्नम् अमलं सर्वेश्वरं निर्गुणम् । व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् । तं संसारविनाशहेतुम् अजरं वन्दे हरिं मुक्तिदम्
॥२॥सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे । नानामुनिजनाकीर्णे नानापुष्पोपशोभिते
॥३॥सरलैः कर्णिकारैश् च पनसैर् धवखादिरैः । आम्रजम्बूकपित्थैश् च न्यग्रोधैर् देवदारुभिः
॥४॥अश्वत्थैः पारिजातैश् च चन्दनागुरुपाटलैः । बकुलैः सप्तपर्णैश् च पुन्नागैर् नागकेसरैः
॥५॥शालैस् तालैस् तमालैश् च नारिकेलैस् तथार्जुनैः । अन्यैश् च बहुभिर् वृक्षैश् चम्पकाद्यैश् च शोभिते
॥६॥नानापक्षिगणाकीर्णे नानामृगगणैर् युते । नानाजलाशयैः पुण्यैर् दीर्घिकाद्यैर् अलङ्कृते
॥७॥ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः । वानप्रस्थैर् गृहस्थैश् च यतिभिर् ब्रह्मचारिभिः
॥८॥सम्पन्नैर् गोकुलैश् चैव सर्वत्र समलङ्कृते । यवगोधूमचणकैर् माषमुद्गतिलेक्षुभिः
॥९॥चीनकाद्यैस् तथा मेध्यैः सस्यैश् चान्यैश् च शोभिते । तत्र दीप्ते हुतवहे हूयमाने महामखे
॥१०॥यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके । आजग्मुस् तत्र मुनयस् तथान्येऽपि द्विजातयः
॥११॥तान् आगतान् द्विजांस् ते तु पूजां चक्रुर् यथोचिताम् । तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च
॥१२॥तत्राजगाम सूतस् तु मतिमांल् लोमहर्षणः । तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर् मुदान्विताः
॥१३॥सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने । कथां चक्रुस् तदान्योन्यं सूतेन सहिता द्विजाः
॥१४॥कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा । ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः
॥१५॥मुनय ऊचुः:
पुराणागमशास्त्राणि सेतिहासानि सत्तम । जानासि देवदैत्यानां चरितं जन्म कर्म च
॥१६॥न तेऽस्त्य् अविदितं किञ्चिद् वेदे शास्त्रे च भारते । पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते
॥१७॥यथापूर्वम् इदं सर्वम् उत्पन्नं सचराचरम् । ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
॥१८॥श्रोतुम् इच्छामहे सूत ब्रूहि सर्वं यथा जगत् । बभूव भूयश् च यथा महाभाग भविष्यति
॥१९॥यतश् चैव जगत् सूत यतश् चैव चराचरम् । लीनम् आसीत् तथा यत्र लयम् एष्यति यत्र च
॥२०॥लोमहर्षण उवाच:
अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
॥२१॥नमो हिरण्यगर्भाय हरये शङ्कराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे
॥२२॥एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे
॥२३॥सर्गस्थितिविनाशाय जगतो योऽजरामरः । मूलभूतो नमस् तस्मै विष्णवे परमात्मने
॥२४॥आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् । प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
॥२५॥ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः । तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
॥२६॥विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । सर्वज्ञं जगताम् ईशम् अजम् अक्षयम् अव्ययम्
॥२७॥आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च । इतिहासपुराणज्ञं वेदवेदाङ्गपारगम्
॥२८॥सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् । गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम्
॥२९॥कथयामि यथा पूर्वं दक्षाद्यैर् मुनिसत्तमैः । पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः
॥३०॥शृणुध्वं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । कथ्यमानां मया चित्रां बह्वर्थां श्रुतिविस्तराम्
॥३१॥यस् त्व् इमां धारयेन् नित्यं शृणुयाद् वाप्य् अभीक्ष्णशः । स्ववंशधारणं कृत्वा स्वर्गलोके महीयते
॥३२॥अव्यक्तं कारणं यत् तन् नित्यं सदसदात्मकम् । प्रधानं पुरुषस् तस्मान् निर्ममे विश्वम् ईश्वरः
॥३३॥तं बुध्यध्वं मुनिश्रेष्ठा ब्रह्माणम् अमितौजसम् । स्रष्टारं सर्वभूतानां नारायणपरायणम्
॥३४॥अहङ्कारस् तु महतस् तस्माद् भूतानि जज्ञिरे । भूतभेदाश् च भूतेभ्य इति सर्गः सनातनः
॥३५॥विस्तरावयवं चैव यथाप्रज्ञं यथाश्रुति । कीर्त्यमानं शृणुध्वं वः सर्वेषां कीर्तिवर्धनम्
॥३६॥कीर्तितं स्थिरकीर्तीनां सर्वेषां पुण्यवर्धनम् । ततः स्वयम्भूर् भगवान् सिसृक्षुर् विविधाः प्रजाः
॥३७॥अप एव ससर्जादौ तासु वीर्यम् अथासृजत् । आपो नारा इति प्रोक्ता आपो वै नरसूनवः
॥३८॥अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । हिरण्यवर्णम् अभवत् तद् अण्डम् उदकेशयम्
॥३९॥तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर् इति नः श्रुतम् । हिरण्यवर्णो भगवान् उषित्वा परिवत्सरम्
॥४०॥तद् अण्डम् अकरोद् द्वैधं दिवं भुवम् अथापि च । तयोः शकलयोर् मध्य आकाशम् अकरोत् प्रभुः
॥४१॥अप्सु पारिप्लवां पृथ्वीं दिशश् च दशधा दधे । तत्र कालं मनो वाचं कामं क्रोधम् अथो रतिम्
॥४२॥ससर्ज सृष्टिं तद्रूपां स्रष्टुम् इच्छन् प्रजापतीन् । मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
॥४३॥वसिष्ठं च महातेजाः सोऽसृजत् सप्त मानसान् । सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः
॥४४॥नारायणात्मकानां तु सप्तानां ब्रह्मजन्मनाम् । ततोऽसृजत् पुरा ब्रह्मा रुद्रं रोषात्मसम्भवम्
॥४५॥सनत्कुमारं च विभुं पूर्वेषाम् अपि पूर्वजम् । सप्तस्व् एता अजायन्त प्रजा रुद्राश् च भो द्विजाः
॥४६॥स्कन्दः सनत्कुमारश् च तेजः सङ्क्षिप्य तिष्ठतः । तेषां सप्त महावंशा दिव्या देवगणान्विताः
॥४७॥क्रियावन्तः प्रजावन्तो महर्षिभिर् अलङ्कृताः । विद्युतोऽशनिमेघांश् च रोहितेन्द्रधनूंषि च
॥४८॥वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह । ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये
॥४९॥साध्यान् अजनयद् देवान् इत्य् एवम् अनुसञ्जगुः । उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे
॥५०॥आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः । सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा
॥५१॥द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां तु सोऽसृजद् द्विविधाः प्रजाः
॥५२॥दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठति । विराजम् असृजद् विष्णुः सोऽसृजत् पुरुषं विराट्
॥५३॥पुरुषं तं मनुं विद्यात् तस्य मन्वन्तरं स्मृतम् । द्वितीयं मानसस्यैतन् मनोर् अन्तरम् उच्यते
॥५४॥स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः । नारायणविसर्गस्य प्रजास् तस्याप्य् अयोनिजाः
॥५५॥आयुष्मान् कीर्तिमान् पुण्यप्रजावांश् च भवेन् नरः । आदिसर्गं विदित्वेमं यथेष्टां चाप्नुयाद् गतिम्
॥५६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).