मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १३४

3
ब्रह्मपुराणम् · 134

अध्यायः १३४

ब्रह्मोवाच:

चक्रतीर्थम् इति ख्यातं स्मरणात् पापनाशनम् । तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद

॥१॥

ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने । गौतम्यास् तीरम् आश्रित्य सत्त्रयज्ञम् उपासते

॥२॥

तत्र विघ्न उपक्रान्ते रक्षोभिर् अतिभीषणे । माम् अभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन्

॥३॥

तदाहं प्रमदारूपं माययासृज्य नारद । यस्याश् च दर्शनाद् एव नाशं यान्त्य् अथ राक्षसाः

॥४॥

एवम् उक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने । मद्वाक्याद् ऋषयो मायाम् आदाय पुनर् आगमन्

॥५॥

अजैका या समाख्याता कृष्णलोहितरूपिणी । मुक्तकेशीत्य् अभिधया सास्तेऽद्यापि स्वरूपिणी

॥६॥

लोकत्रितयसम्मोहदायिनी कामरूपिणी । तद्बलात् स्वस्थमनसः सर्वे च मुनिपुङ्गवः

॥७॥

गौतमीं सरितां श्रेष्ठां पुनर् यज्ञाय दीक्षिताः । पुनस् तन्मखनाशाय राक्षसाः समुपागमन्

॥८॥

यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुङ्गवाः । ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च

॥९॥

माहेश्वरी महामाया प्रभावेणातिदर्पिता । तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान्

॥१०॥

मायारूपां तु प्रमदां भक्षयाम् आस नारद । तद् अद्भुतम् अतीवासीत् तन्मायाबलदर्शिनाम्

॥११॥

मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः । प्रादाद् विष्णुश् चक्रम् अथो मुनीनां रक्षणाय तु

॥१२॥

चक्रं तद् राक्षसान् आजौ दैत्यांश् च दनुजांस् तथा । चिच्छेद तद्भयाद् एव मृता राक्षसपुङ्गवाः

॥१३॥

ऋषिभिस् तन् महासत्त्रं सम्पूर्णम् अभवत् तदा । विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम्

॥१४॥

ततः प्रभृति तत् तीर्थं चक्रतीर्थम् उदाहृतम् । तत्र स्नानेन दानेन सत्त्रयागफलं लभेत्

॥१५॥

तत्र पञ्च शतान्य् आसंस् तीर्थानां पापहारिणाम् । तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम्

॥१६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).