मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८८

3
ब्रह्मपुराणम् · 188

अध्यायः १८८

व्यास उवाच:

महे प्रतिहते शक्रो भृशं कोपसमन्वितः । संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत्

॥१॥

इन्द्र उवाच:

भो भो मेघा निशम्यैतद् वदतो वचनं मम । आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम्

॥२॥

नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान् । कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत्

॥३॥

आजीवो यः परं तेषां गोपत्वस्य च कारणम् । ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम

॥४॥

अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् । साहाय्यं वः करिष्यामि वायूनां सङ्गमेन च

॥५॥

व्यास उवाच:

इत्य् आज्ञप्ताः सुरेन्द्रेण मुमुचुस् ते बलाहकाः । वातवर्षं महाभीमम् अभावाय गवां द्विजाः

॥६॥

ततः क्षणेन धरणी ककुभोऽम्बरम् एव च । एकं धारामहासारपूरणेनाभवद् द्विजाः

॥७॥

गावस् तु तेन पतता वर्षवातेन वेगिना । धुताः प्राणाञ् जहुः सर्वास् तिर्यङ्मुखशिरोधराः

॥८॥

क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या द्विजोत्तमाः । गावो विवत्साश् च कृता वारिपूरेण चापराः

॥९॥

वत्साश् च दीनवदनाः पवनाकम्पिकन्धराः । त्राहि त्राहीत्य् अल्पशब्दाः कृष्णम् ऊचुर् इवार्तकाः

॥१०॥

ततस् तद् गोकुलं सर्वं गोगोपीगोपसङ्कुलम् । अतीवार्तं हरिर् दृष्ट्वा त्राणायाचिन्तयत् तदा

॥११॥

एतत् कृतं महेन्द्रेण महभङ्गविरोधिना । तद् एतद् अखिलं गोष्ठं त्रातव्यम् अधुना मया

॥१२॥

इमम् अद्रिम् अहं वीर्याद् उत्पाट्योरुशिलातलम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रम् इवोपरि

॥१३॥

व्यास उवाच:

इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् । उत्पाट्यैककरेणैव धारयाम् आस लीलया

॥१४॥

गोपांश् चाह जगन्नाथः समुत्पाटितभूधरः । विशध्वम् अत्र सहिताः कृतं वर्षनिवारणम्

॥१५॥

सुनिर्वातेषु देशेषु यथायोग्यम् इहास्यताम् । प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः

॥१६॥

इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह । शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः

॥१७॥

कृष्णोऽपि तं दधारैवं शैलम् अत्यन्तनिश्चलम् । व्रजौकोवासिभिर् हर्षविस्मिताक्षैर् निरीक्षितः

॥१८॥

गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः । संस्तूयमानचरितः कृष्णः शैलम् अधारयत्

॥१९॥

सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले । इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा

॥२०॥

ततो धृते महाशैले परित्राते च गोकुले । मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान्

॥२१॥

व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते । निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनर् आगमत्

॥२२॥

मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम् । स्वस्थाने विस्मितमुखैर् दृष्टस् तैर् व्रजवासिभिः

॥२३॥

व्यास उवाच:

धृते गोवर्धने शैले परित्राते च गोकुले । रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः

॥२४॥

सोऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् । गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः

॥२५॥

चारयन्तं महावीर्यं गाश् च गोपवपुर्धरम् । कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः

॥२६॥

गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विजाः । कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम्

॥२७॥

अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् । शक्रः सस्मितम् आहेदं प्रीतिविस्फारितेक्षणः

॥२८॥

इन्द्र उवाच:

कृष्ण कृष्ण शृणुष्वेदं यदर्थम् अहम् आगतः । त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वयान्यथा

॥२९॥

भारावतरणार्धाय पृथिव्याः पृथिवीतलम् । अवतीर्णोऽखिलाधारस् त्वम् एव परमेश्वर

॥३०॥

महभङ्गविरुद्धेन मया गोकुलनाशकाः । समादिष्टा महामेघास् तैश् चैतत् कदनं कृतम्

॥३१॥

त्रातास् तापात् त्वया गावः समुत्पाट्य महागिरिम् । तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते

॥३२॥

साधितं कृष्ण देवानाम् अद्य मन्ये प्रयोजनम् । त्वयायम् अद्रिप्रवरः करेणैकेन चोद्धृतः

॥३३॥

गोभिश् च नोदितः कृष्ण त्वत्समीपम् इहागतः । त्वया त्राताभिर् अत्यर्थं युष्मत्कारणकारणात्

॥३४॥

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः । उपेन्द्रत्वे गवाम् इन्द्रो गोविन्दस् त्वं भविष्यसि

॥३५॥

अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया

॥३६॥

क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् । प्रस्रवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुन्धराम्

॥३७॥

अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् । प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः

॥३८॥

इन्द्र उवाच:

गवाम् एतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु । यद् ब्रवीमि महाभाग भारावतरणेच्छया

॥३९॥

ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर । अवतीर्णोऽर्जुनो नाम स रक्ष्यो भवता सदा

॥४०॥

भारावतरणे सख्यं स ते वीरः करिष्यति । स रक्षणीयो भवता यथात्मा मधुसूदन

॥४१॥

श्रीभगवान् उवाच:

जानामि भारते वंशे जातं पार्थं तवांशतः । तम् अहं पालयिष्यामि यावद् अस्मि महीतले

॥४२॥

यावन् महीतले शक्र स्थास्याम्य् अहम् अरिन्दम । न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति

॥४३॥

कंसो नाम महाबाहुर् दैत्योऽरिष्टस् तथा परः । केशी कुवलयापीडो नरकाद्यास् तथापरे

॥४४॥

हतेषु तेषु देवेन्द्र भविष्यति महाहवः । तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्

॥४५॥

स त्वं गच्छ न सन्तापं पुत्रार्थे कर्तुम् अर्हसि । नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति

॥४६॥

अर्जुनार्थे त्व् अहं सर्वान् युधिष्ठिरपुरोगमान् । निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान्

॥४७॥

व्यास उवाच:

इत्य् उक्तः सम्परिष्वज्य देवराजो जनार्दनम् । आरुह्यैरावतं नागं पुनर् एव दिवं ययौ

॥४८॥

कृष्णोऽपि सहितो गोभिर् गोपालैश् च पुनर् व्रजम् । आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना

॥४९॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).