मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २४४

3
ब्रह्मपुराणम् · 244

अध्यायः २४४

वसिष्ठ उवाच:

साङ्ख्यदर्शनम् एतावद् उक्तं ते नृपसत्तम । विद्याविद्ये त्व् इदानीं मे त्वं निबोधानुपूर्वशः

॥१॥

अभेद्यम् आहुर् अव्यक्तं सर्गप्रलयधर्मिणः । सर्गप्रलय इत्य् उक्तं विद्याविद्ये च विंशकः

॥२॥

परस्परस्य विद्या वै तन् निबोधानुपूर्वशः । यथोक्तम् ऋषिभिस् तात साङ्ख्यस्यातिनिदर्शनम्

॥३॥

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम्

॥४॥

विषयाणां मनस् तेषां विद्याम् आहुर् मनीषिणः । मनसः पञ्च भूतानि विद्या इत्य् अभिचक्षते

॥५॥

अहङ्कारस् तु भूतानां पञ्चानां नात्र संशयः । अहङ्कारस् तथा विद्या बुद्धिर् विद्या नरेश्वर

॥६॥

बुद्ध्या प्रकृतिर् अव्यक्तं तत्त्वानां परमेश्वरः । विद्या ज्ञेया नरश्रेष्ठ विधिश् च परमः स्मृतः

॥७॥

अव्यक्तम् अपरं प्राहुर् विद्या वै पञ्चविंशकः । सर्वस्य सर्वम् इत्य् उक्तं ज्ञेयज्ञानस्य पारगः

॥८॥

ज्ञानम् अव्यक्तम् इत्य् उक्तं ज्ञेयं वै पञ्चविंशकम् । तथैव ज्ञानम् अव्यक्तं विज्ञाता पञ्चविंशकः

॥९॥

विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः । अक्षरं च क्षरं चैव यद् उक्तं तन् निबोध मे

॥१०॥

उभाव् एतौ क्षराव् उक्तौ उभाव् एताव् अनक्षरौ । कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः

॥११॥

अनादिनिधनाव् एतौ उभाव् एवेश्वरौ मतौ । तत्त्वसञ्ज्ञाव् उभाव् एव प्रोच्येते ज्ञानचिन्तकैः

॥१२॥

सर्गप्रलयधर्मित्वाद् अव्यक्तं प्राहुर् अव्ययम् । तद् एतद् गुणसर्गाय विकुर्वाणं पुनः पुनः

॥१३॥

गुणानां महदादीनाम् उत्पद्यति परस्परम् । अधिष्ठानं क्षेत्रम् आहुर् एतद् वै पञ्चविंशकम्

॥१४॥

यद् अन्तर्गुणजालं तु तद् व्यक्तात्मनि सङ्क्षिपेत् । तद् अहं तद् गुणैस् तैस् तु पञ्चविंशे विलीयते

॥१५॥

गुणा गुणेषु लीयन्ते तद् एका प्रकृतिर् भवेत् । क्षेत्रज्ञोऽपि तदा तावत् क्षेत्रज्ञः सम्प्रणीयते

॥१६॥

यदाक्षरं प्रकृतिर् यं गच्छते गुणसञ्ज्ञिता । निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात्

॥१७॥

एवम् एव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । प्रकृत्या निर्गुणस् त्व् एष इत्य् एवम् अनुशुश्रुम

॥१८॥

क्षरो भवत्य् एष यदा गुणवती गुणेष्व् अथ । प्रकृतिं त्व् अथ जानाति निर्गुणत्वं तथात्मनः

॥१९॥

तथा विशुद्धो भवति प्रकृतेः परिवर्जनात् । अन्योऽहम् अन्येयम् इति यदा बुध्यति बुद्धिमान्

॥२०॥

तदैषोऽव्यथताम् एति न च मिश्रत्वम् आव्रजेत् । प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते

॥२१॥

यदा तु गुणजालं तत् प्राकृतं विजुगुप्सते । पश्यते च परं पश्यंस् तदा पश्यन् नु संसृजेत्

॥२२॥

किं मया कृतम् एतावद् योऽहं कालनिमज्जनः । यथा मत्स्यो ह्य् अभिज्ञानाद् अनुवर्तितवाञ् जलम्

॥२३॥

अहम् एव हि सम्मोहाद् अन्यम् अन्यं जनाज् जनम् । मत्स्यो यथोदकज्ञानाद् अनुवर्तितवान् इह

॥२४॥

मत्स्योऽन्यत्वम् अथाज्ञानाद् उदकान् नाभिमन्यते । आत्मानं तद् अवज्ञानाद् अन्यं चैव न वेद्म्य् अहम्

॥२५॥

ममास्तु धिक् कुबुद्धस्य योऽहं मग्न इमं पुनः । अनुवर्तितवान् मोहाद् अन्यम् अन्यं जनाज् जनम्

॥२६॥

अयम् अनुभवेद् बन्धुर् अनेन सह मे क्षयम् । साम्यम् एकत्वतां यातो यादृशस् तादृशस् त्व् अहम्

॥२७॥

तुल्यताम् इह पश्यामि सदृशोऽहम् अनेन वै । अयं हि विमलो व्यक्तम् अहम् ईदृशकस् तदा

॥२८॥

योऽहम् अज्ञानसम्मोहाद् अज्ञया सम्प्रवृत्तवान् । संसर्गाद् अतिसंसर्गात् स्थितः कालम् इमं त्व् अहम्

॥२९॥

सोऽहम् एवं वशीभूतः कालम् एतं न बुद्धवान् । उत्तमाधममध्यानां ताम् अहं कथम् आवसे

॥३०॥

समानमायया चेह सहवासम् अहं कथम् । गच्छाम्य् अबुद्धभावत्वाद् इहेदानीं स्थिरो भव

॥३१॥

सहवासं न यास्यामि कालम् एतं विवञ्चनात् । वञ्चितो ह्य् अनया यद् धि निर्विकारो विकारया

॥३२॥

न तत् तदपराद्धं स्याद् अपराधो ह्य् अयं मम । योऽहम् अत्राभवं सक्तः पराङ्मुखम् उपस्थितः

॥३३॥

ततोऽस्मिन् बहुरूपोऽथ स्थितो मूर्तिर् अमूर्तिमान् । अमूर्तिश् चाप्य् अमूर्तात्मा ममत्वेन प्रधर्षितः

॥३४॥

प्रकृत्या च तया तेन तासु तास्व् इह योनिषु । निर्ममस्य ममत्वेन विकृतं तासु तासु च

॥३५॥

योनिषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा । समता न मया काचिद् अहङ्कारे कृता मया

॥३६॥

आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् । इदानीम् अवबुद्धोऽस्मि निर्ममो निरहङ्कृतः

॥३७॥

ममत्वं मनसा नित्यम् अहङ्कारकृतात्मकम् । अपलग्नाम् इमां हित्वा संश्रयिष्ये निरामयम्

॥३८॥

अनेन साम्यं यास्यामि नानयाहम् अचेतसा । क्षेमं मम सहानेन नैवैकम् अनया सह

॥३९॥

एवं परमसम्बोधात् पञ्चविंशोऽनुबुद्धवान् । अक्षरत्वं निगच्छति त्यक्त्वा क्षरम् अनामयम्

॥४०॥

अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा । निर्गुणं प्रथमं दृष्ट्वा तादृग् भवति मैथिल

॥४१॥

अक्षरक्षरयोर् एतद् उक्तं तव निदर्शनम् । मयेह ज्ञानसम्पन्नं यथा श्रुतिनिदर्शनात्

॥४२॥

निःसन्दिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा । प्रवक्ष्यामि तु ते भूयस् तन् निबोध यथाश्रुतम्

॥४३॥

साङ्ख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् । यद् एव साङ्ख्यशास्त्रोक्तं योगदर्शनम् एव तत्

॥४४॥

प्रबोधनपरं ज्ञानं साङ्ख्यानाम् अवनीपते । विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया

॥४५॥

बृहच् चैवम् इदं शास्त्रम् इत्य् आहुर् विदुषो जनाः । अस्मिंश् च शास्त्रे योगानां पुनर्भवपुरःसरम्

॥४६॥

पञ्चविंशात् परं तत्त्वं पठ्यते च नराधिप । साङ्ख्यानां तु परं तत्त्वं यथावद् अनुवर्णितम्

॥४७॥

बुद्धम् अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । बुध्यमानं च बुद्धत्वं प्राहुर् योगनिदर्शनम्

॥४८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).