अध्यायः १७
लोमहर्षण उवाच:
यत् तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् । ददाव् अहारयद् बभ्रुर् भोजेन शतधन्वना
॥१॥सदा हि प्रार्थयाम् आस सत्यभामाम् अनिन्दिताम् । अक्रूरोऽन्तरम् अन्विष्यन् मणिं चैव स्यमन्तकम्
॥२॥सत्राजितं ततो हत्वा शतधन्वा महाबलः । रात्रौ तं मणिम् आदाय ततोऽक्रूराय दत्तवान्
॥३॥अक्रूरस् तु तदा विप्रा रत्नम् आदाय चोत्तमम् । समयं कारयां चक्रे नावेद्योऽहं त्वयेत्य् उत
॥४॥वयम् अभ्युत्प्रपत्स्यामः कृष्णेन त्वां प्रधर्षितम् । ममाद्य द्वारका सर्वा वशे तिष्ठत्य् असंशयम्
॥५॥हते पितरि दुःखार्ता सत्यभामा मनस्विनी । प्रययौ रथम् आरुह्य नगरं वारणावतम्
॥६॥सत्यभामा तु तद् वृत्तं भोजस्य शतधन्वनः । भर्तुर् निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्य् अवर्तयत्
॥७॥पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम् । कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्
॥८॥ततस् त्वरितम् आगम्य द्वारकां मधुसूदनः । पूर्वजं हलिनं श्रीमान् इदं वचनम् अब्रवीत्
॥९॥श्रीकृष्ण उवाच:
हतः प्रसेनः सिंहेन सत्राजिच् छतधन्वना । स्यमन्तकस् तु मद्नामी तस्य प्रभुर् अहं विभो
॥१०॥तद् आरोह रथं शीघ्रं भोजं हत्वा महारथम् । स्यमन्तको महाबाहो अस्माकं स भविष्यति
॥११॥लोमहर्षण उवाच:
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः । शतधन्वा ततोऽक्रूरं सर्वतोदिशम् ऐक्षत
॥१२॥संरब्धौ ताव् उभौ तत्र दृष्ट्वा भोजजनार्दनौ । शक्तोऽपि शापाद् धार्दिक्यम् अक्रूरो नान्वपद्यत
॥१३॥अपयाने ततो बुद्धिं भोजश् चक्रे भयार्दितः । योजनानां शतं साग्रं हृदया प्रत्यपद्यत
॥१४॥विख्याता हृदया नाम शतयोजनगामिनी । भोजस्य वडवा विप्रा यया कृष्णम् अयोधयत्
॥१५॥क्षीणां जवेन हृदयाम् अध्वनः शतयोजने । दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानम् अर्दयत्
॥१६॥ततस् तस्या हतायास् तु श्रमात् खेदाच् च भो द्विजाः । खम् उत्पेतुर् अथ प्राणाः कृष्णो रामम् अथाब्रवीत्
॥१७॥श्रीकृष्ण उवाच:
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया । पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्
॥१८॥पद्भ्याम् एव ततो गत्वा शतधन्वानम् अच्युतः । मिथिलाम् अभितो विप्रा जघान परमास्त्रवित्
॥१९॥स्यमन्तकं च नापश्यद् धत्वा भोजं महाबलम् । निवृत्तं चाब्रवीत् कृष्णं मणिं देहीति लाङ्गली
॥२०॥नास्तीति कृष्णश् चोवाच ततो रामो रुषान्वितः । धिक्शब्दपूर्वम् असकृत् प्रत्युवाच जनार्दनम्
॥२१॥बलराम उवाच:
भ्रातृत्वान् मर्षयाम्य् एष स्वस्ति तेऽस्तु व्रजाम्य् अहम् । कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
॥२२॥प्रविवेश ततो रामो मिथिलाम् अरिमर्दनः । सर्वकामैर् उपहृतैर् मिथिलेनाभिपूजितः
॥२३॥एतस्मिन्न् एव काले तु बभ्रुर् मतिमतां वरः । नानारूपान् क्रतून् सर्वान् आजहार निरर्गलान्
॥२४॥दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह । स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः
॥२५॥अथ रत्नानि चान्यानि धनानि विविधानि च । षष्टिं वर्षाणि धर्मात्मा यज्ञेष्व् एव न्ययोजयत्
॥२६॥अक्रूरयज्ञा इति ते ख्यातास् तस्य महात्मनः । बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
॥२७॥अथ दुर्योधनो राजा गत्वा स मिथिलां प्रभुः । गदाशिक्षां ततो दिव्यां बलदेवाद् अवाप्तवान्
॥२८॥सम्प्रसाद्य ततो रामो वृष्ण्यन्धकमहारथैः । आनीतो द्वारकाम् एव कृष्णेन च महात्मना
॥२९॥अक्रूरश् चान्धकैः सार्धम् आयातः पुरुषर्षभः । हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः
॥३०॥ज्ञातिभेदभयात् कृष्णस् तम् उपेक्षितवांस् तदा । अपयाते तदाक्रूरे नावर्षत् पाकशासनः
॥३१॥अनावृष्ट्या तदा राष्ट्रम् अभवद् बहुधा कृशम् । ततः प्रसादयाम् आसुर् अक्रूरं कुकुरान्धकाः
॥३२॥पुनर् द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः । प्रववर्ष सहस्राक्षः कक्षे जलनिधेस् तदा
॥३३॥कन्यां च वासुदेवाय स्वसारं शीलसम्मताम् । अक्रूरः प्रददौ धीमान् प्रीत्यर्थं मुनिसत्तमाः
॥३४॥अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । सभामध्यगतः प्राह तम् अक्रूरं जनार्दनः
॥३५॥श्रीकृष्ण उवाच:
यत् तद् रत्नं मणिवरं तव हस्तगतं विभो । तत् प्रयच्छ च मानार्ह मयि मानार्यकं कृथाः
॥३६॥षष्टिवर्षगते काले यो रोषोऽभून् ममानघ । स संरूढोऽसकृत् प्राप्तस् ततः कालात्ययो महान्
॥३७॥स ततः कृष्णवचनात् सर्वसात्वतसंसदि । प्रददौ तं मणिं बभ्रुर् अक्लेशेन महामतिः
॥३८॥ततस् तम् आर्जवात् प्राप्तं बभ्रोर् हस्ताद् अरिन्दमः । ददौ हृष्टमनाः कृष्णस् तं मणिं बभ्रवे पुनः
॥३९॥स कृष्णहस्तात् सम्प्राप्तं मणिरत्नं स्यमन्तकम् । आबध्य गान्दिनीपुत्रो विरराजांशुमान् इव
॥४०॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).