मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ४७

3
ब्रह्मपुराणम् · 47

अध्यायः ४७

ब्रह्मोवाच:

एवं स पृथिवीपालश् चिन्तयित्वा द्विजोत्तमाः । प्रासादार्थं हरेस् तत्र प्रारम्भम् अकरोत् तदा

॥१॥

आनाय्य गणकान् सर्वान् आचार्याञ् शास्त्रपारगान् । भूमिं संशोध्य यत्नेन राजा तु परया मुदा

॥२॥

ब्राह्मणैर् ज्ञानसम्पन्नैर् वेदशास्त्रार्थपारगैः । अमात्यैर् मन्त्रिभिश् चैव वास्तुविद्याविशारदैः

॥३॥

तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने । सुचन्द्रतारासंयोगे ग्रहानुकूल्यसंयुते

॥४॥

जयमङ्गलशब्दैश् च नानावाद्यैर् मनोहरैः । वेदाध्ययननिर्घोषैर् गीतैः सुमधुरस्वरैः

॥५॥

पुष्पलाजाक्षतैर् गन्धैः पूर्णकुम्भैः सदीपकैः । ददाव् अर्घ्यं ततो राजा श्रद्धया सुसमाहितः

॥६॥

दत्त्वैवम् अर्घ्यं विधिवद् आनाय्य स महीपतिः । कलिङ्गाधिपतिं शूरम् उत्कलाधिपतिं तथा । कोशलाधिपतिं चैव तान् उवाच तदा नृपः

॥७॥

राजोवाच:

गच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः । गृहीत्वा शिल्पिमुख्यांश् च शिलाकर्मविशारदान्

॥८॥

विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् । निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः । संवाह्यन्तां च शकटैर् नौकाभिर् मा विलम्बथ

॥९॥

ब्रह्मोवाच:

एवं गन्तुं समादिश्य तान् नृपान् स महीपतिः । पुनर् एवाब्रवीद् वाक्यं सामात्यान् सपुरोहितान्

॥१०॥

राजोवाच:

गच्छन्तु दूताः सर्वत्र ममाज्ञां प्रवदन्तु वै । यत्र तिष्ठन्ति राजानः पृथिव्यां तान् सुशीघ्रगाः

॥११॥

हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः । गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात्

॥१२॥

ब्रह्मोवाच:

एवं दूताः समाज्ञाता राज्ञा तेन महात्मना । गत्वा तदा नृपान् ऊचुर् वचनं तस्य भूपतेः

॥१३॥

श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः । आजग्मुस् त्वरिताः सर्वे स्वसैन्यैः परिवारिताः

॥१४॥

ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थिताः । पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः

॥१५॥

प्रत्यन्तवासिनो येऽपि ये च सन्निधिवासिनः । पार्वतीयाश् च ये केचित् तथा द्वीपनिवासिनः

॥१६॥

रथैर् नागैः पदातैश् च वाजिभिर् धनविस्तरैः । सम्प्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम्

॥१७॥

तान् आगतान् नृपान् दृष्ट्वा सामात्यान् सपुरोहितान् । प्रोवाच राजा हृष्टात्मा कार्यम् उद्दिश्य सादरम्

॥१८॥

राजोवाच:

शृणुध्वं नृपशार्दूला यथा किञ्चिद् ब्रवीम्य् अहम् । अस्मिन् क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे

॥१९॥

हयमेधं महायज्ञं प्रासादं चैव वैष्णवम् । कथं शक्नोम्य् अहं कर्तुम् इति चिन्ताकुलं मनः

॥२०॥

भवद्भिः सुसहायैस् तु सर्वम् एतत् करोम्य् अहम् । यदि यूयं सहाया मे भवध्वं नृपसत्तमाः

॥२१॥

ब्रह्मोवाच:

इत्य् एवं वदमानस्य राजराजस्य धीमतः । सर्वे प्रमुदिता हृष्टा भूपास् ते तस्य शासनात्

॥२२॥

ववृषुर् धनरत्नैश् च सुवर्णमणिमौक्तिकैः । कम्बलाजिनरत्नैश् च राङ्कवास्तरणैः शुभैः

॥२३॥

वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः । गजैर् अश्वैर् धनैश् चान्यै रथैश् चैव करेणुभिः

॥२४॥

असङ्ख्येयैर् बहुविधैर् द्रव्यैर् उच्चावचैस् तथा । शालिव्रीहियवैश् चैव माषमुद्गतिलैस् तथा

॥२५॥

सिद्धार्थचणकैश् चैव गोधूमैर् मसुरादिभिः । श्यामाकैर् मधुकैश् चैव नीवारैः सकुलत्थकैः

॥२६॥

अन्यैश् च विविधैर् धान्यैर् ग्राम्यारण्यैः सहस्रशः । बहुधान्यसहस्राणां तण्डुलानां च राशिभिः

॥२७॥

गव्यस्य हविषः कुम्भैः शतशोऽथ सहस्रशः । तथान्यैर् विविधैर् द्रव्यैर् भक्ष्यभोज्यानुलेपनैः

॥२८॥

राजानः पूरयाम् आसुर् यत् किञ्चिद् द्रव्यसम्भवैः । तान् दृष्ट्वा यज्ञसम्भारान् सर्वसम्पत्समन्वितान्

॥२९॥

यज्ञकर्मविदो विप्रान् वेदवेदाङ्गपारगान् । शास्त्रेषु निपुणान् दक्षान् कुशलान् सर्वकर्मसु

॥३०॥

ऋषींश् चैव महर्षींश् च देवर्षींश् चैव तापसान् । ब्रह्मचारिगृहस्थांश् च वानप्रस्थान् यतींस् तथा

॥३१॥

स्नातकान् ब्राह्मणांश् चान्यान् अग्निहोत्रे सदा स्थितान् । आचार्योपाध्यायवरान् स्वाध्यायतपसान्वितान्

॥३२॥

सदस्याञ् शास्त्रकुशलांस् तथान्यान् पावकान् बहून् । दृष्ट्वा तान् नृपतिः श्रीमान् उवाच स्वं पुरोहितम्

॥३३॥

राजोवाच:

ततः प्रयान्तु विद्वांसो ब्राह्मणा वेदपारगाः । वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्

॥३४॥

ब्रह्मोवाच:

इत्य् उक्तः स तथा चक्रे वचनं तस्य भूपतेः । हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः

॥३५॥

ततो ययौ पुरोधाश् च प्राज्ञः स्थपतिभिः सह । ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञकर्मणि

॥३६॥

तं देशं धीवरग्रामं सप्रतोलिविटङ्किनम् । कारयाम् आस विप्रोऽसौ यज्ञवाटं यथाविधि

॥३७॥

प्रासादशतसम्बाधं मणिप्रवरशोभितम् । इन्द्रसद्मनिभं रम्यं हेमरत्नविभूषितम्

॥३८॥

स्तम्भान् कनकचित्रांश् च तोरणानि बृहन्ति च । यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम्

॥३९॥

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् । कारयाम् आस धर्मात्मा तत्र तत्र यथाविधि

॥४०॥

ब्राह्मणानां च वैश्यानां नानादेशसमीयुषाम् । कारयाम् आस विधिवच् छालास् तत्राप्य् अनेकशः

॥४१॥

प्रियार्थं तस्य नृपतेर् आययुर् नृपसत्तमाः । रत्नान्य् अनेकान्य् आदाय स्त्रियश् चाययुर् उत्सवे

॥४२॥

तेषां निर्विशतां स्वेषु शिबिरेषु महात्मनाम् । नदतः सागरस्येव दिविस्पृग् अभवद् ध्वनिः

॥४३॥

तेषाम् अभ्यागतानां च स राजा मुनिसत्तमाः । व्यादिदेशायतनानि शय्याश् चाप्य् उपचारतः

॥४४॥

भोजनानि विचित्राणि शालीक्षुयवगोरसैः । उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा

॥४५॥

तथा तस्मिन् महायज्ञे बहवो ब्रह्मवादिनः । ये च द्विजातिप्रवरास् तत्रासन् द्विजसत्तमाः

॥४६॥

समाजग्मुः सशिष्यास् तान् प्रतिजग्राह पार्थिवः । सर्वांश् च तान् अनुययौ यावद् आवसथान् इति

॥४७॥

स्वयम् एव महातेजा दम्भं त्यक्त्वा नृपोत्तमः । ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा

॥४८॥

कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् । ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वम् अतन्द्रितः । हृष्टरोमाभवद् राजा सह मन्त्रिभिर् अच्युतः

॥४९॥

ब्रह्मोवाच:

तस्मिन् यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिभिः । हेतुवादान् बहून् आहुः परस्परजिगीषवः

॥५०॥

देवेन्द्रस्येव विहितं राजसिंहेन भो द्विजाः । ददृशुस् तोरणान्य् अत्र शातकुम्भमयानि च

॥५१॥

शय्यासनविकारांश् च सुबहून् रत्नसञ्चयान् । घटपात्रीकटाहानि कलशान् वर्धमानकान्

॥५२॥

नहि कश्चिद् असौवर्णम् अपश्यद् वसुधाधिपः । यूपांश् च शास्त्रपठितान् दारवान् हेमभूषितान्

॥५३॥

उपक्षिप्तान् यथाकालं विधिवद् भूरिवर्चसः । स्थलजा जलजा ये च पशवः केचन द्विजाः

॥५४॥

सर्वान् एव समानीतान् अपश्यंस् तत्र ते नृपाः । गाश् चैव महिषीश् चैव तथा वृद्धस्त्रियोऽपि च

॥५५॥

औदकानि च सत्त्वानि श्वापदानि वयांसि च । जरायुजाण्डजातानि स्वेदजान्य् उद्भिदानि च

॥५६॥

पर्वतान्य् उपधान्यानि भूतानि ददृशुश् च ते । एवं प्रमुदितं सर्वं पशुतो धनधान्यतः

॥५७॥

यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः । ब्राह्मणानां विशां चैव बहुमिष्टान्नम् ऋद्धिमत्

॥५८॥

पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् । दुन्दुभिर् मेघनिर्घोषान् मुहुर्मुहुर् अथाकरोत्

॥५९॥

विननादासकृच् चापि दिवसे दिवसे गते । एवं स ववृधे यज्ञस् तस्य राज्ञस् तु धीमतः

॥६०॥

अन्नस्य सुबहून् विप्रा उत्सर्गान् निर्गतोपमान् । दधिकुल्याश् च ददृशुः पयसश् च ह्रदांस् तथा

॥६१॥

जम्बूद्वीपो हि सकलो नानाजनपदैर् युतः । द्विजाश् च तत्र दृश्यन्ते राज्ञस् तस्य महामखे

॥६२॥

तत्र यानि सहस्राणि पुरुषाणां ततस् ततः । गृहीत्वा भाजनं जग्मुर् बहूनि द्विजसत्तमाः

॥६३॥

श्राविणश् चापि ते सर्वे सुमृष्टमणिकुण्डलाः । पर्यवेषयन् द्विजातीञ् शतशोऽथ सहस्रशः

॥६४॥

विविधान्य् अनुपानानि पुरुषा येऽनुयायिनः । ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह

॥६५॥

समागतान् वेदविदो राज्ञश् च पृथिवीश्वरान् । पूजां चक्रे तदा तेषां विधिवद् भूरिदक्षिणः

॥६६॥

दिग्देशाद् आगतान् राज्ञो महासङ्ग्रामशालिनः । नटनर्तककादींश् च गीतस्तुतिविशारदान्

॥६७॥

पत्न्यो मनोरमास् तस्य पीनोन्नतपयोधराः । इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः

॥६८॥

कुलशीलगुणोपेताः सहस्रैकं शताधिकम् । एवं तद्भूपपरमपत्नीगणसमन्वितम्

॥६९॥

रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् । रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम्

॥७०॥

करिणः पर्वताकारान् मदसिक्तान् महाबलान् । शतशः कोटिसङ्घातैर् दन्तिभिर् दन्तभूषणैः

॥७१॥

वातवेगजवैर् अश्वैः सिन्धुजातैः सुशोभनैः । श्वेताश्वैः श्यामकर्णैश् च कोट्यनेकैर् जवान्वितैः

॥७२॥

सन्नद्धबद्धकक्षैश् च नानाप्रहरणोद्यतैः । असङ्ख्येयैः पदातैश् च देवपुत्रोपमैस् तथा

॥७३॥

इत्य् एवं ददृशे राजा यज्ञसम्भारविस्तरम् । मुदं लेभे तदा राजा संहृष्टो वाक्यम् अब्रवीत्

॥७४॥

राजोवाच:

आनयध्वं हयश्रेष्ठं सर्वलक्षणलक्षितम् । चारयध्वं पृथिव्यां वै राजपुत्राः सुसंयताः

॥७५॥

विद्वद्भिर् धर्मविद्भिश् च अत्र होमो विधीयताम् । कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान्

॥७६॥

अनड्वाहं च गाश् चैव सर्वांश् च पशुपालकान् । इष्टयश् च प्रवर्तन्तां प्रासादं वैष्णवं ततः

॥७७॥

सर्वम् एतच् च विप्रेभ्यो दीयतां मनसेप्सितम् । स्त्रियश् च रत्नकोट्यश् च ग्रामाश् च नगराणि च

॥७८॥

सम्यक् समृद्धभूम्यश् च विषयाश् चैवम् अर्थिनाम् । अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च

॥७९॥

सर्वेषां याचमानानां नास्ति ह्य् एतन् न भाषयेत् । तावत् प्रवर्ततां यज्ञो यावद् देवः पुरा त्व् इह । प्रत्यक्षं मम चाभ्येति यज्ञस्यास्य समीपतः

॥८०॥

ब्रह्मोवाच:

एवम् उक्त्वा तदा विप्रा राजसिंहो महाभुजः । ददौ सुवर्णसङ्घातं कोटीनां चैव भूषणम्

॥८१॥

करेणुशतसाहस्रं वाजिनो नियुतानि च । अर्बुदं चैव वृषभं स्वर्णशृङ्गीश् च धेनुकाः

॥८२॥

सुरूपाः सुरभीश् चैव कांस्यदोहाः पयस्विनीः । प्रायच्छत् स तु विप्रेभ्यो वेदविद्भ्यो मुदा युतः

॥८३॥

वासांसि च महार्हाणि राङ्कवास्तरणानि च । सुशुक्लानि च शुभ्राणि प्रवालमणिम् उत्तमम्

॥८४॥

अददात् स महायज्ञे रत्नानि विविधानि च

॥८५॥

वज्रवैदूर्यमाणिक्यमुक्तिकाद्यानि यानि च । अलङ्कारवतीः शुभ्राः कन्या राजीवलोचनाः

॥८६॥

शतानि पञ्च विप्रेभ्यो राजा हृष्टः प्रदत्तवान् । स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः

॥८७॥

मध्यहीनाश् च सुश्रोण्यः पद्मपत्त्रायतेक्षणाः । हावभावान्वितग्रीवा बह्व्यो वलयभूषिताः

॥८८॥

पादनूपुरसंयुक्ताः पट्टदुकूलवाससः । एकैकशोऽददात् तस्मिन् काम्याश् च कामिनीर् बहूः

॥८९॥

अर्थिभ्यो ब्राह्मणादिभ्यो हयमेधे द्विजोत्तमाः । भक्ष्यं भोज्यं च सम्पूर्णं नानासम्भारसंयुतम्

॥९०॥

खण्डकाद्यान्य् अनेकानि स्विन्नपक्वांश् च पिष्टकान् । अन्नान्य् अन्यानि मेध्यांश् च घृतपूरांश् च खाण्डवान्

॥९१॥

मधुरांस् तर्जितान् पूपान् अन्नं मृष्टं सुपाकिकम् । प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः

॥९२॥

दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते । एवं दृष्ट्वा महायज्ञं देवदैत्याः सवारणाः

॥९३॥

गन्धर्वाप्सरसः सिद्धा ऋषयश् च प्रजेश्वराः । विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम्

॥९४॥

पुरोधा मन्त्रिणो राजा हृष्टास् तत्रैव सर्वशः । न तत्र मलिनः कश्चिन् न दीनो न क्षुधान्वितः

॥९५॥

न वोपसर्गो न ग्लानिर् नाधयो व्याधयस् तथा । नाकालमरणं तत्र न दंशो न ग्रहा विषम्

॥९६॥

हृष्टपुष्टजनाः सर्वे तस्मिन् राज्ञो महोत्सवे । ये च तत्र तपःसिद्धा मुनयश् चिरजीविनः

॥९७॥

न जातं तादृशं यज्ञं धनधान्यसमन्वितम् । एवं स राजा विधिवद् वाजिमेधं द्विजोत्तमाः । क्रतुं समापयाम् आस प्रासादं वैष्णवं तथा

॥९८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).