मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १२८

3
ब्रह्मपुराणम् · 128

अध्यायः १२८

ब्रह्मोवाच:

तपोवनम् इति ख्यातं नन्दिनीसङ्गमं तथा । सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे

॥१॥

शार्दूलं चेति विख्यातं तेषां वृत्तम् इदं शृणु । यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते

॥२॥

अग्निर् होता पुरा त्व् आसीद् देवानां हव्यवाहनः । भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम्

॥३॥

सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् । तपश् चरन्तीं विपुलं तोषयन्तीं हुताशनम् । स भर्ता हुतभुक् प्राह भार्यां स्वाहाम् अनिन्दिताम्

॥४॥

अग्निर् उवाच:

अपत्यानि भविष्यन्ति मा तपः कुरु शोभने

॥५॥

ब्रह्मोवाच:

एतच् छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसोऽभवत् । स्त्रीणाम् अभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित्

॥६॥

ततः कतिपये काले तारकाद् भय आगते । अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते

॥७॥

महेश्वरे भवान्या च त्रस्ता देवाः समागताः । देवानां कार्यसिद्ध्यर्थम् अग्निं प्रोचुर् दिवौकसः

॥८॥

देवा ऊचुः:

देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् । तारकाद् भयम् उत्पन्नं शम्भवे त्वं निवेदय

॥९॥

अग्निर् उवाच:

न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः । सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि

॥१०॥

एकान्तस्थितयोः स्वैरं जल्पतोर् यः सरागयोः । दम्पत्योः शृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः

॥११॥

स स्वाम्य् अखिललोकानां महाकालस् त्रिशूलवान् । निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः

॥१२॥

देवा ऊचुः:

महाभये चानुगते न्यायः कोऽन्व् अत्र वर्ण्यते । तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान्

॥१३॥

महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् । रूपेणान्येन वा गच्छ वाचं वद यथा तथा

॥१४॥

विश्राव्य देववचनं शम्भुम् आगच्छ सत्वरः । ततो दास्यामहे पूजाम् उभयोर् लोकयोः कवे

॥१५॥

ब्रह्मोवाच:

शुको भूत्वा जगामाशु देववाक्याद् धुताशनः । यत्रासीज् जगतां नाथो रममाणस् तदोमया

॥१६॥

स भीतवद् अथ प्रायाच् छुको भूत्वा तदानलः । नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः

॥१७॥

ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः । तं दृष्ट्वा प्रहसञ् शम्भुर् उमां प्राह रहोगतः

॥१८॥

शम्भुर् उवाच:

पश्य देवि शुकं प्राप्तं देववाक्याद् धुताशनम्

॥१९॥

ब्रह्मोवाच:

लज्जिता चावदद् देवम् अलं देवेति पार्वती । पुरश्चरन्तं देवेशो ह्य् अग्निं तं द्विजरूपिणम्

॥२०॥

आहूय बहुशश् चापि ज्ञातोऽस्य् अग्नेऽत्र मा वद । विदारयस्व स्वमुखं गृहाणेदं नयस्व तत्

॥२१॥

इत्य् उक्त्वा तस्य चास्येऽग्ने रेतः स प्राक्षिपद् बहु । रेतोगर्भस् तदा चाग्निर् गन्तुं नैव च शक्तवान्

॥२२॥

सुरनद्यास् ततस् तीरं श्रान्तोऽग्निर् उपतस्थिवान् । कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिकोऽभवत्

॥२३॥

अवशिष्टं च यत् किञ्चिद् अग्नेर् देहे च शाम्भवम् । तद् एव रेतो वह्निस् तु स्वभार्यायां द्विधाक्षिपत्

॥२४॥

स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः । पुरा साश्वासिता तेन सन्ततिस् ते भविष्यति

॥२५॥

तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शाम्भवं महः । तद् अग्ने रेतसस् तस्यां जज्ञे मिथुनम् उत्तमम्

॥२६॥

सुवर्णश् च सुवर्णा च रूपेणाप्रतिमं भुवि । अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम्

॥२७॥

अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते । सुवर्णस्याथ पुत्रस्य सङ्कल्पाम् अकरोत् प्रियाम् । एवं पुत्रस्य पुत्र्याश् च विवाहम् अकरोत् कविः

॥२८॥

अन्योन्यरेतोव्यतिषङ्गदोषाद् । अग्नेर् अपत्यम् उभयं तथैव । पुत्रः सुवर्णो बहुरूपरूपी । रूपाणि कृत्वा सुरसत्तमानाम्

॥२९॥

इन्द्रस्य वायोर् धनदस्य भार्यां । जलेश्वरस्यापि मुनीश्वराणाम् । भार्यास् तु गच्छत्य् अनिशं सुवर्णो । यस्याः प्रियं यच् च वपुः स कृत्वा

॥३०॥

याति क्वचिच् चापि कवेस् तनूजस् । तद्भर्तृरूपं च पतिव्रतासु । कृत्वानिशं ताभिर् उदारभावः । कुर्वन् कृतार्थं मदनं स रेमे

॥३१॥

कृत्वा गता क्वापि चैवं सुवर्णा । धर्मस्य भार्यापि सुवर्णनाम्नी । स्वाहासुता स्वैरिणी सा बभूव । यस्यापि यस्यापि मनोगता या

॥३२॥

भार्यास्वरूपा सैव भूत्वा सुवर्णा । रेमे पतीन् मानुषान् आसुरांश् च । देवान् ऋषीन् पितृरूपांस् तथान्यान् । रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान्

॥३३॥

याभिप्रेता यस्य देवस्य भार्या । तद्रूपा सा रमते तेन सार्धम् । नानाभेदैः करणैश् चाप्य् अनेकैर् । आकर्षन्ती तन्मनः कामसिद्धिम्

॥३४॥

एवं सुवर्णस्य निरीक्ष्य चेष्टाम् । अग्नेः सूनोः पुत्रिकायास् तथाग्नेः । सर्वे च शेपुः कुपितास् तदाग्नेः । पुत्रं च पुत्रीं च सुरासुरास् ते

॥३५॥

सुरासुरा ऊचुः:

कृतं यद् एतद् व्यभिचाररूपं । यच् छद्मना वर्तनं पापरूपम् । तस्मात् सुतस् ते व्यभिचारवांश् च । सर्वत्र गामी जायतां हव्यवाह

॥३६॥

तथा सुवर्णापि न चैकनिष्ठा । भूयाद् अग्ने नैकतृप्ता बहूंश् च । नानाजातीन् निन्दितान् देहभाजो । भजित्री स्याद् एष दोषश् च पुत्र्याः

॥३७॥

ब्रह्मोवाच:

इत्य् एतच् छापवचनं श्रुत्वाग्निर् अतिभीतवत् । माम् अभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः

॥३८॥

तदाहम् अब्रवं वह्ने गौतमीं गच्छ शङ्करम् । स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः

॥३९॥

माहेश्वरेण वीर्येण तव देहस्थितेन च । एवंविधं त्व् अपत्यं ते जातं वह्ने ततो भवान्

॥४०॥

निवेदयस्व देवाय देवानां शापम् ईदृशम् । स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति

॥४१॥

स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच् छिवः । ततस् त्व् अपत्यविषये प्रियान् कामान् अवाप्स्यसि

॥४२॥

ततो मद्वचनाद् अग्निर् गङ्गां गत्वा महेश्वरम् । तुष्टाव नियतो वाक्यैः स्तुतिभिर् वेदसम्मितैः

॥४३॥

अग्निर् उवाच:

विश्वस्य जगतो धाता विश्वमूर्तिर् निरञ्जनः । आदिकर्ता स्वयम्भूश् च तं नमामि जगत्पतिम्

॥४४॥

योऽग्निर् भूत्वा संहरति स्रष्टा वै जलरूपतः । सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम्

॥४५॥

ब्रह्मोवाच:

ततः प्रसन्नो भगवान् अनन्तः शम्भुर् अव्ययः । वरेण च्छन्दयाम् आस पावकं सुरपूजितम्

॥४६॥

स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् । तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः

॥४७॥

तथा सुवर्णा पुत्री च तस्माद् एव जगत्प्रभो । अन्योन्यवीर्यसङ्गाच् च तद्दोषाद् उभयं त्व् इदम्

॥४८॥

व्यभिचारात् सदोषं च अपत्यम् अभवच् छिव । शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो

॥४९॥

तदग्निवचनाच् छम्भुः प्रोवाचेदं शुभोदयम्

॥५०॥

शम्भुर् उवाच:

मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः । समग्रा ऋद्धयः सर्वाः सुवर्णेऽस्मिन् समाहिताः

॥५१॥

भविष्यन्ति न सन्देहो वह्ने शृणु वचो मम । त्रयाणाम् अपि लोकानां पावनः स भविष्यति

॥५२॥

स एव चामृतं लोके स एव सुरवल्लभः । स एव भुक्तिमुक्ती च स एव मखदक्षिणा

॥५३॥

स एव रूपं सर्वस्य गुरूणाम् अप्य् असौ गुरुः । वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम्

॥५४॥

विशेषतस् त्वयि क्षिप्तं तस्य का स्याद् विचारणा । हीनं तेन विना सर्वं सम्पूर्णास् तेन सम्पदः

॥५५॥

जीवन्तोऽपि मृताः सर्वे सुवर्णेन विना नराः । निर्गुणोऽपि धनी मान्यः सगुणोऽप्य् अधनो नहि

॥५६॥

तस्मान् नातः परं किञ्चित् सुवर्णाद् धि भविष्यति । तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला

॥५७॥

अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति । तपसा जपहोमैश् च येयं प्राप्या जगत्त्रये

॥५८॥

तस्याः प्रभावं प्राशस्त्यम् अग्ने किञ्चिच् च कीर्त्यते । सर्वत्र या तु सन्तिष्ठेद् आयातु विचरिष्यति

॥५९॥

सुवर्णा कमला साक्षात् पवित्रा च भविष्यति । अद्य प्रभृत्य् आत्मजयोस् तथा स्वैरं विचेष्टतोः

॥६०॥

तथापि चैतयोः पुण्यं न भूतं न भविष्यति

॥६१॥

ब्रह्मोवाच:

एवम् उक्त्वा ततः शम्भुः साक्षात् तत्राभवच् छिवः । लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया

॥६२॥

वरान् प्राप्य सुताभ्यां स अग्निस् तुष्टोऽभवत् ततः । स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा

॥६३॥

वर्तयाम् आस पुत्रोऽपि वह्नेः सङ्कल्पया मुदा । एतस्मिन्न् अन्तरे स्वर्णाम् अग्नेर् दुहितरं मुने

॥६४॥

परिभूय च धर्मं तं शार्दूलो दानवेश्वरः । अहरद् भाग्यसौभाग्यविलासवसतिं छलात्

॥६५॥

नीता रसातलं तेन सुवर्णा लोकविश्रुता । जामाताग्नेः स धर्मश् च अग्निश् चैव स हव्यवाट्

॥६६॥

विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः । कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे

॥६७॥

ततश् चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः । सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी

॥६८॥

महेश्वरसुता चैव अग्नेश् चैव तथा प्रिया । महेश्वराय तां विष्णुर् दर्शयाम् आस नारद

॥६९॥

प्रीतोऽभवन् महेशोऽपि सस्वजे तां पुनः पुनः । चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत्

॥७०॥

चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद् विदुः । यत्र नीता सुवर्णा सा विष्णुना शङ्करान्तिकम्

॥७१॥

तत् तीर्थं शाङ्करं ज्ञेयं वैष्णवं सिद्धम् एव तु । यत्रानन्दम् अनुप्राप्तो ह्य् अग्निर् धर्मश् च शाश्वतः

॥७२॥

आनन्दाश्रूणि न्यपतन् यत्राग्नेर् मुनिसत्तम । आनन्देति नदी जाता तथा वै नन्दिनीति च

॥७३॥

तस्याश् च सङ्गमः पुण्यो गङ्गायां तत्र वै शिवः । तत्रैव सङ्गमे साक्षात् सुवर्णाद्यापि संस्थिता

॥७४॥

दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता । अम्बिका जगदाधारा शिवा कात्यायनीश्वरी

॥७५॥

भक्ताभीष्टप्रदा नित्यम् अलङ्कृत्योभयं तटम् । तपस् तेपे यत्र चाग्निस् तत् तीर्थं तु तपोवनम्

॥७६॥

एवमादीनि तीर्थानि तीरयोर् उभयोर् मुने । तेषु स्नानं च दानं च सर्वकामप्रदं शुभम्

॥७७॥

उत्तरे चैव पारे च सहस्राणि चतुर्दश । दक्षिणे च तथा पारे सहस्राण्य् अथ षोडश

॥७८॥

तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै । नामानि च पृथक् सन्ति सङ्क्षेपात् तन् मयोच्यते

॥७९॥

एतानि यश् च शृणुयाद् यश् च वा पठति स्मरेत् । सर्वेषु तत्र काम्येषु परिपूर्णो भवेन् नरः

॥८०॥

एतद् वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् । लक्ष्मीवाञ् जायते नित्यं धर्मवांश् च विशेषतः

॥८१॥

अब्जकात् पश्चिमे तीर्थं तच् छार्दूलम् उदाहृतम् । वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्य् अधिकं भवेत्

॥८२॥

तत्र स्नात्वा पितॄन् देवान् वन्दते तर्पयत्य् अपि । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते

॥८३॥

तपोवनाच् च शार्दूलान् मध्ये तीर्थान्य् अशेषतः । तस्यैकैकस्य माहात्म्यं न केनाप्य् अत्र वर्ण्यते

॥८४॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).