मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १७७

3
ब्रह्मपुराणम् · 177

अध्यायः १७७

ब्रह्मोवाच:

एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् । भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम्

॥१॥

यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः । पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः

॥२॥

ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् । सङ्कर्षणं सुभद्रां च धन्यास् ते नात्र संशयः

॥३॥

त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् । ये ध्यायन्ति सदा कृष्णं मुक्तास् ते नात्र संशयः

॥४॥

कृष्णे रताः कृष्णम् अनुस्मरन्ति । रात्रौ च कृष्णं पुनर् उत्थिता ये । ते भिन्नदेहाः प्रविशन्ति कृष्णं । हविर् यथा मन्त्रहुतं हुताशम्

॥५॥

तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः । तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः

॥६॥

शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः । हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते

॥७॥

सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् । रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते

॥८॥

आस्ते यश् चतुरो मासान् वार्षिकान् पुरुषोत्तमे । पृथिव्यास् तीर्थयात्रायाः फलं प्राप्नोति चाधिकम्

॥९॥

ये सर्वकालं तत्रैव निवसन्ति मनीषिणः । जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम्

॥१०॥

तपस् तप्त्वान्यतीर्थेषु वर्षाणाम् अयुतं नरः । यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे

॥११॥

तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् । तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः

॥१२॥

सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् । तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः

॥१३॥

सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च । तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः

॥१४॥

यस् तु नानाविधैर् यज्ञैर् यत् फलं लभते नरः । तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः

॥१५॥

देहं त्यजन्ति पुरुषास् तत्र ये पुरुषोत्तमे । कल्पवृक्षं समासाद्य मुक्तास् ते नात्र संशयः

॥१६॥

वटसागरयोर् मध्ये ये त्यजन्ति कलेवरम् । ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः

॥१७॥

अनिच्छन्न् अपि यस् तत्र प्राणांस् त्यजति मानवः । सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम्

॥१८॥

कृमिकीटपतङ्गाद्यास् तिर्यग्योनिगताश् च ये । तत्र देहं परित्यज्य ते यान्ति परमां गतिम्

॥१९॥

भ्रान्तिं लोकस्य पश्यध्वम् अन्यतीर्थं प्रति द्विजाः । पुरुषाख्येन यत् प्राप्तम् अन्यतीर्थफलादिकम्

॥२०॥

सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् । पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान्

॥२१॥

प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः । तस्माद् वेदे पुराणे च लोकेऽस्मिन् पुरुषोत्तमः

॥२२॥

योऽसौ पुराणे वेदान्ते परमात्मेत्य् उदाहृतः । आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः

॥२३॥

पाथे श्मशाने गृहमण्डपे वा । रथ्याप्रदेशेष्व् अपि यत्र कुत्र । इच्छन्न् अनिच्छन्न् अपि तत्र देहं । सन्त्यज्य मोक्षं लभते मनुष्यः

॥२४॥

तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः । देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः

॥२५॥

पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति । त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम्

॥२६॥

गुणानाम् एकदेशोऽयं मया क्षेत्रस्य कीर्तितः । कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैर् अपि

॥२७॥

यदि यूयं मुनिश्रेष्ठा मोक्षम् इच्छथ शाश्वतम् । तस्मिन् क्षेत्रवरे पुण्ये निवसध्वम् अतन्द्रिताः

॥२८॥

व्यास उवाच:

ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः । निवासं चक्रिरे तत्र अवापुः परमं पदम्

॥२९॥

तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः । पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिम् अभीप्सथ

॥३०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).