मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९०

3
ब्रह्मपुराणम् · 90

अध्यायः ९०

ब्रह्मोवाच:

गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् । तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः

॥१॥

मणिनाग इति त्व् आसीच् छेषपुत्रो महाबलः । गरुडस्य भयाद् भक्त्या तोषयाम् आस शङ्करम्

॥२॥

ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः । तम् उवाच महानागं वरं वरय पन्नग

॥३॥

नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् । तथेत्य् आह च तं शम्भुर् गरुडाद् अभयं भवेत्

॥४॥

निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् । क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः

॥५॥

इतश् चेतश् च चरति नागोऽसौ सुखशीतले । गरुडोऽपि च यत्रास्ते तं देशम् अपि यात्य् असौ

॥६॥

गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु । तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि

॥७॥

तं बद्ध्वा गारुडैः पाशैर् गरुडो नागसत्तमम् । एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम्

॥८॥

नन्दिकेश्वर उवाच:

नूनं नागो न चायाति भक्षितो बद्ध एव वा । गरुडेन सुरेशान जीवन् नागो न संव्रजेत्

॥९॥

ब्रह्मोवाच:

नन्दिनो वचनं श्रुत्वा ज्ञात्वा शम्भुर् अथाब्रवीत्

॥१०॥

शिव उवाच:

गरुडस्य गृहे नागो बद्धस् तिष्ठति सत्वरम् । गत्वा तं जगताम् ईशं विष्णुं स्तुहि जनार्दनम्

॥११॥

बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् । तत् प्रभोर् वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम्

॥१२॥

व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् । नारायणः प्रीतमना गरुडं वाक्यम् अब्रवीत्

॥१३॥

विष्णुर् उवाच:

विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् । कम्पमानस् तद् आकर्ण्य नेत्य् उवाच विहङ्गमः । विष्णुम् अप्य् अब्रवीत् कोपात् सुपर्णो नन्दिनोऽन्तिके

॥१४॥

गरुड उवाच:

यद् यत् प्रियतमं किञ्चिद् भृत्येभ्यः प्रभविष्णवः । दास्यन्त्य् अन्ये भवान् नैव मयानीतं हरिष्यति

॥१५॥

पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना । मयोपपादितं नागं त्वं तु दास्यसि नन्दिने

॥१६॥

त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया । मयोपपादितं नागं वक्तुं देहीति नोचितम्

॥१७॥

सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् । सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान्

॥१८॥

दैत्याञ् जयसि सङ्ग्रामे मद्बलेनैव केशव । अहं महाबलीत्य् एवं मुधैव श्लाघते भवान्

॥१९॥

ब्रह्मोवाच:

गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः । विहस्य नन्दिनः पार्श्वे पश्यद्भिर् लोकपालकैः

॥२०॥

इदम् आह महाबुद्धिर् मां समुह्य कृशो भवान् । त्वद्बलाद् असुरान् सर्वाञ् जेष्येऽहं खगसत्तम

॥२१॥

इत्य् उक्त्वा श्रीपतिर् ब्रह्मञ् शान्तकोपोऽब्रवीद् इदम् । वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनोऽन्तिके

॥२२॥

गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनर् अब्रवीत् । सत्यं मां वहसे नित्यं पश्य धर्मं विहङ्गम

॥२३॥

न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत् । कुक्षिश् च चरणस्यान्तः प्राविशच् चूर्णितोऽभवत् । ततः कृताञ्जलिर् दीनो व्यथितो लज्जयान्वितः

॥२४॥

गरुड उवाच:

त्राहि त्राहि जगन्नाथ भृत्यं माम् अपराधिनम् । त्वं प्रभुः सर्वलोकानां धर्ता धार्यस् त्वम् एव च

॥२५॥

अपराधसहस्राणि क्षमन्ते प्रभविष्णवः । कृतापराधेऽपि जने महती यस्य वै कृपा

॥२६॥

वदन्ति मुनयः सर्वे त्वाम् एव करुणाकरम् । रक्षस्वार्तं जगन्मातर् माम् अम्बुजनिवासिनि । कमले बालकं दीनम् आर्तं तनयवत्सले

॥२७॥

ब्रह्मोवाच:

ततः कृपान्विता देवी श्रीर् अप्य् आह जनार्दनम्

॥२८॥

कमलोवाच:

रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् । जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम्

॥२९॥

विष्णुर् उवाच:

नय नागं सगरुडं शम्भोर् अन्तिकम् एव च । तत्प्रसादाच् च गरुडो महेश्वरनिरीक्षितः । आत्मीयं च पुना रूपं गरुडः समवाप्स्यति

॥३०॥

ब्रह्मोवाच:

तथेत्य् उक्त्वा च वृषभो नागेन गरुडेन च । शनैः स शङ्करं गत्वा सर्वं तस्मै न्यवेदयत् । शङ्करोऽपि गरुत्मन्तं प्रोवाच शशिशेखरः

॥३१॥

शिव उवाच:

याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् । सर्वकामप्रदां शान्तां ताम् आप्लुत्य पुनर् वपुः

॥३२॥

प्राप्स्यसे सर्वकामांश् च शतधाथ सहस्रधा । सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः । प्राणिनोऽभीष्टदा तेषां शरणं खग गौतमी

॥३३॥

ब्रह्मोवाच:

तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडोऽभ्यगात् । गङ्गाम् आप्लुत्य गरुडः शिवं विष्णुं ननाम सः

॥३४॥

ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः । वेगी भवन् मुनिश्रेष्ठ पुनर् विष्णुम् इयात् सुधीः

॥३५॥

ततः प्रभृति तत् तीर्थं गारुडं सर्वकामदम् । तत्र स्नानादि यत् किञ्चित् करोति प्रयतो नरः । सर्वं तद् अक्षयं वत्स शिवविष्णुप्रियावहम्

॥३६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).