मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९६

3
ब्रह्मपुराणम् · 196

अध्यायः १९६

व्यास उवाच:

गार्ग्यं गोष्ठे द्विजो श्यालः षण्ढ इत्य् उक्तवान् द्विजाः । यदूनां सन्निधौ सर्वे जहसुर् यादवास् तदा

॥१॥

ततः कोपसमाविष्टो दक्षिणापथम् एत्य सः । सुतम् इच्छंस् तपस् तेपे यदुचक्रभयावहम्

॥२॥

आराधयन् महादेवं सोऽयश् चूर्णम् अभक्षयत् । ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः

॥३॥

सम्भावयाम् आस स तं यवनेशो ह्य् अनात्मजम् । तद्योषित्सङ्गमाच् चास्य पुत्रोऽभूद् अलिसप्रभः

॥४॥

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः । अभिषिच्य वनं यातो वज्राग्रकठिनोरसम्

॥५॥

स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् । पप्रच्छ नारदश् चास्मै कथयाम् आस यादवान्

॥६॥

म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः । गजाश्वरथसम्पन्नैश् चकार परमोद्यमम्

॥७॥

प्रययौ चातवच्छिन्नैः प्रयाणैः स दिने दिने । यादवान् प्रति सामर्षो मुनयो मथुरां पुरीम्

॥८॥

कृष्णोऽपि चिन्तयाम् आस क्षपितं यादवं बलम् । यवनेन समालोक्य मागधः सम्प्रयास्यति

॥९॥

मागधस्य बलं क्षीणं स कालयवनो बली । हन्ता तद् इदम् आयातं यदूनां व्यसनं द्विधा

॥१०॥

तस्माद् दुर्गं करिष्यामि यदूनाम् अतिदुर्जयम् । स्त्रियोऽपि यत्र युध्येयुः किं पुनर् वृष्णियादवाः

॥११॥

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा । यादवाभिभवं दुष्टा मा कुर्वन् वैरिणोऽधिकम्

॥१२॥

इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् । ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे

॥१३॥

महोद्यानां महावप्रां तडागशतशोभिताम् । प्राकारशतसम्बाधाम् इन्द्रस्येवामरावतीम्

॥१४॥

मथुरावासिनं लोकं तत्रानीय जनार्दनः । आसन्ने कालयवने मथुरां च स्वयं ययौ

॥१५॥

बहिर् आवासिते सैन्ये मथुराया निरायुधः । निर्जगाम स गोविन्दो ददर्श यवनश् च तम्

॥१६॥

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः । अनुयातो महायोगिचेतोभिः प्राप्यते न यः

॥१७॥

तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् । यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः

॥१८॥

सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् । पादेन ताडयाम् आस कृष्णं मत्वा स दुर्मतिः

॥१९॥

दृष्टमात्रश् च तेनासौ जज्वाल यवनोऽग्निना । तत्क्रोधजेन मुनयो भस्मीभूतश् च तत्क्षणात्

॥२०॥

स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् । निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान्

॥२१॥

प्रोक्तश् च देवैः संसुप्तं यस् त्वाम् उत्थापयिष्यति । देहजेनाग्निना सद्यः स तु भस्मीभविष्यति

॥२२॥

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् । कस् त्वम् इत्य् आह सोऽप्य् आह जातोऽहं शशिनः कुले

॥२३॥

वसुदेवस्य तनयो यदुवंशसमुद्भवः । मुचुकुन्दोऽपि तच् छ्रुत्वा वृद्धगार्ग्यवचः स्मरन्

॥२४॥

संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् । प्राह ज्ञातो भवान् विष्णोर् अंशस् त्वं परमेश्वरः

॥२५॥

पुरा गार्ग्येण कथितम् अष्टाविंशतिमे युगे । द्वापरान्ते हरेर् जन्म यदुवंशे भविष्यति

॥२६॥

स त्वं प्राप्तो न सन्देहो मर्त्यानाम् उपकारकृत् । तथा हि सुमहत् तेजो नालं सोढुम् अहं तव

॥२७॥

तथा हि सुमहाम्भोदध्वनिधीरतरं ततः । वाक्यं तम् इति होवाच युष्मत्पादसुलालितम्

॥२८॥

देवासुरे महायुद्धे दैत्याश् च सुमहाभटाः । न शेकुस् ते महत् तेजस् तत् तेजो न सहाम्य् अहम्

॥२९॥

संसारपतितस्यैको जन्तोस् त्वं शरणं परम् । सम्प्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम्

॥३०॥

त्वं पयोनिधयः शैलाः सरितश् च वनानि च । मेदिनी गगनं वायुर् आपोऽग्निस् त्वं तथा पुमान्

॥३१॥

पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् । शब्दादिहीनम् अजरं वृद्धिक्षयविवर्जितम्

॥३२॥

त्वत्तोऽमरास् तु पितरो यक्षगन्धर्वराक्षसाः । सिद्धाश् चाप्सरसस् त्वत्तो मनुष्याः पशवः खगाः

॥३३॥

सरीसृपा मृगाः सर्वे त्वत्तश् चैव महीरुहाः । यच् च भूतं भविष्यद् वा किञ्चिद् अत्र चराचरे

॥३४॥

अमूर्तं मूर्तम् अथवा स्थूलं सूक्ष्मतरं तथा । तत् सर्वं त्वं जगत्कर्तर् नास्ति किञ्चित् त्वया विना

॥३५॥

मया संसारचक्रेऽस्मिन् भ्रमता भगवन् सदा । तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित्

॥३६॥

दुःखान्य् एव सुखानीति मृगतृष्णाजलाशयः । मया नाथ गृहीतानि तानि तापाय मेऽभवन्

॥३७॥

राज्यम् उर्वी बलं कोशो मित्रपक्षस् तथात्मजाः । भार्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो

॥३८॥

सुखबुद्ध्या मया सर्वं गृहीतम् इदम् अव्यय । परिणामे च देवेश तापात्मकम् अभून् मम

॥३९॥

देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि । मत्तः साहाय्यकामोऽभूच् छाश्वती कुत्र निर्वृतिः

॥४०॥

त्वाम् अनाराध्य जगतां सर्वेषां प्रभवास्पदम् । शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः

॥४१॥

त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् । अवाप्य पापान् पश्यन्ति प्रेतराजानम् अन्तरा

॥४२॥

ततः पाशशतैर् बद्धा नरकेष्व् अतिदारुणम् । प्राप्नुवन्ति महद् दुःखं विश्वरूपम् इदं तव

॥४३॥

अहम् अत्यन्तविषयी मोहितस् तव मायया । ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर

॥४४॥

सोऽहं त्वां शरणम् अपारम् ईशम् ईड्यं । सम्प्राप्तः परमपदं यतो न किञ्चित् । संसारश्रमपरितापतप्तचेता । निर्विण्णे परिणतधाम्नि साभिलाषः

॥४५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).