अध्यायः १८
मुनय ऊचुः:
अहो सुमहद् आख्यानं भवता परिकीर्तितम् । भारतानां च सर्वेषां पार्थिवानां तथैव च
॥१॥देवानां दानवानां च गन्धर्वोरगरक्षसाम् । दैत्यानाम् अथ सिद्धानां गुह्यकानां तथैव च
॥२॥अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । विविधाश् च कथा दिव्या जन्म चाग्र्यम् अनुत्तमम्
॥३॥सृष्टिः प्रजापतेः सम्यक् त्वया प्रोक्ता महामते । प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा
॥४॥स्थावरं जङ्गमं सर्वम् उत्पन्नं विविधं जगत् । त्वया प्रोक्तं महाभाग श्रुतं चैतन् मनोहरम्
॥५॥कथितं पुण्यफलदं पुराणं श्लक्ष्णया गिरा । मनःकर्णसुखं सम्यक् प्रीणात्य् अमृतसम्मितम्
॥६॥इदानीं श्रोतुम् इच्छामः सकलं मण्डलं भुवः । वक्तुम् अर्हसि सर्वज्ञ परं कौतूहलं हि नः
॥७॥यावन्तः सागरा द्वीपास् तथा वर्षाणि पर्वताः । वनानि सरितः पुण्यदेवादीनां महामते
॥८॥यत्प्रमाणम् इदं सर्वं यदाधारं यदात्मकम् । संस्थानम् अस्य जगतो यथावद् वक्तुम् अर्हसि
॥९॥लोमहर्षण उवाच:
मुनयः श्रूयताम् एतत् सङ्क्षेपाद् वदतो मम । नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः
॥१०॥जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश् चापरो द्विजाः । कुशः क्रौञ्चस् तथा शाकः पुष्करश् चैव सप्तमः
॥११॥एते द्वीपाः समुद्रैस् तु सप्त सप्तभिर् आवृताः । लवणेक्षुसुरासर्पिर् दधिदुग्धजलैः समम्
॥१२॥जम्बूद्वीपः समस्तानाम् एतेषां मध्यसंस्थितः । तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः
॥१३॥चतुरशीतिसाहस्रैर् योजनैस् तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद् द्वात्रिंशन् मूर्ध्नि विस्तृतः
॥१४॥मूले षोडशसाहस्रैर् विस्तारस् तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः
॥१५॥हिमवान् हेमकूटश् च निषधस् तस्य दक्षिणे । नीलः श्वेतश् च शृङ्गी च उत्तरे वर्षपर्वताः
॥१६॥लक्षप्रमाणौ द्वौ मध्ये दशहीनास् तथापरे । सहस्रद्वितयोच्छ्रायास् तावद्विस्तारिणश् च ते
॥१७॥भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यन् मेरोर् दक्षिणतो द्विजाः
॥१८॥रम्यकं चोत्तरं वर्षं तस्यैव तु हिरण्मयम् । उत्तराः कुरवश् चैव यथा वै भारतं तथा
॥१९॥नवसाहस्रम् एकैकम् एतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये सौवर्णो मेरुर् उच्छ्रितः
॥२०॥मेरोश् चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश् चत्वारश् चात्र पर्वताः
॥२१॥विष्कम्भा वितता मेरोर् योजनायुतविस्तृताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः
॥२२॥विपुलः पश्चिमे पार्श्वे सुपार्श्वश् चोत्तरे स्थितः । कदम्बस् तेषु जम्बूश् च पिप्पलो वट एव च
॥२३॥एकादशशतायामाः पादपा गिरिकेतवः । जम्बूद्वीपस्य सा जम्बूर् नामहेतुर् द्विजोत्तमाः
॥२४॥महागजप्रमाणानि जम्ब्वास् तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः
॥२५॥रसेन तेषां विख्याता तत्र जम्बूनदीति वै । सरित् प्रवर्तते सा च पीयते तन्निवासिभिः
॥२६॥न खेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थमनसां जनानां तत्र जायते
॥२७॥तीरमृत् तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्
॥२८॥भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठास् तयोर् मध्ये त्व् इलावृतम्
॥२९॥वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वद् उत्तरे नन्दनं स्मृतम्
॥३०॥अरुणोदं महाभद्रम् असितोदं समानसम् । सरांस्य् एतानि चत्वारि देवभोग्यानि सर्वदा
॥३१॥शान्तवांश् चक्रकुञ्जश् च कुररी माल्यवांस् तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः
॥३२॥त्रिकूटः शिशिरश् चैव पतङ्गो रुचकस् तथा । निषधादयो दक्षिणतस् तस्य केसरपर्वताः
॥३३॥शिखिवासः सवैदूर्यः कपिलो गन्धमादनः । जानुधिप्रमुखास् तद्वत् पश्चिमे केसराचलाः
॥३४॥मेरोर् अनन्तरास् ते च जठरादिष्व् अवस्थिताः । शङ्खकूटोऽथ ऋषभो हंसो नागस् तथापराः
॥३५॥कालञ्जराद्याश् च तथा उत्तरे केसराचलाः । चतुर्दश सहस्राणि योजनानां महापुरी
॥३६॥मेरोर् उपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि । तस्यां समन्ततश् चाष्टौ दिशासु विदिशासु च
॥३७॥इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । विष्णुपादविनिष्क्रान्ता प्लावयन्तीन्दुमण्डलम्
॥३८॥समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवि । सा तत्र पतिता दिक्षु चतुर्धा प्रत्यपद्यत
॥३९॥सीता चालकनन्दा च चक्षुर् बध्रा च वै क्रमात् । पूर्वेण सीता शैलाच् च शैलं यान्त्य् अन्तरिक्षगा
॥४०॥ततश् च पूर्ववर्षेण भद्राश्वेनैति सार्णवम् । तथैवालकनन्दा च दक्षिणेनैत्य भारतम्
॥४१॥प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । चक्षुश् च पश्चिमगिरीन् अतीत्य सकलांस् ततः
॥४२॥पश्चिमं केतुमालाख्यं वर्षम् अन्वेति सार्णवम् । भद्रा तथोत्तरगिरीन् उत्तरांश् च तथा कुरून्
॥४३॥अतीत्योत्तरम् अम्भोधिं समभ्येति द्विजोत्तमाः । आनीलनिषधायामौ माल्यवद्गन्धमादनौ
॥४४॥तयोर् मध्यगतो मेरुः कर्णिकाकारसंस्थितः । भारताः केतुमालाश् च भद्राश्वाः कुरवस् तथा
॥४५॥पत्त्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । जठरो देवकूटश् च मर्यादापर्वताव् उभौ
॥४६॥तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ । गन्धमादनकैलासौ पूर्वपश्चात् तु ताव् उभौ
॥४७॥अशीतियोजनायामाव् अर्णवान्तर्व्यवस्थितौ । निषधः पारियात्रश् च मर्यादापर्वताव् उभौ
॥४८॥तौ दक्षिणोत्तरायामाव् आनीलनिषधायतौ । मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ
॥४९॥त्रिशृङ्गो जारुधिश् चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायताव् एताव् अर्णवान्तर्व्यवस्थितौ
॥५०॥इत्य् एते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । जठरावस्थिता मेरोर् येषां द्वौ द्वौ चतुर्दिशम्
॥५१॥मेरोश् चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः । शीतान्ताद्या द्विजास् तेषाम् अतीव हि मनोहराः
॥५२॥शैलानाम् अन्तरद्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च
॥५३॥लक्ष्मीविष्ण्वग्निसूर्येन्द्रदेवानां मुनिसत्तमाः । तास्व् आयतनवर्याणि जुष्टानि नरकिन्नरैः
॥५४॥गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्व् अहर्निशम्
॥५५॥भौमा ह्य् एते स्मृताः स्वर्गा धर्मिणाम् आलया द्विजाः । नैतेषु पापकर्तारो यान्ति जन्मशतैर् अपि
॥५६॥भद्राश्वे भगवान् विष्णुर् आस्ते हयशिरा द्विजाः । वाराहः केतुमाले तु भारते कूर्मरूपधृक्
॥५७॥मत्स्यरूपश् च गोविन्दः कुरुष्व् आस्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः
॥५८॥सर्वस्याधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः । यानि किम्पुरुषाद्यानि वर्षाण्य् अष्टौ द्विजोत्तमाः
॥५९॥न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् । सुस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः
॥६०॥दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः । नैतेषु भौमान्य् अन्यानि क्षुत्पिपासादि नो द्विजाः
॥६१॥कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । सर्वेष्व् एतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश् च शतशस् तेभ्यः प्रसूता या द्विजोत्तमाः
॥६२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).