अध्यायः १६६
ब्रह्मोवाच:
पतत्रितीर्थम् आख्यातं रोगघ्नं पापनाशनम् । तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः
॥१॥बभूवतुः कश्यपस्य सुताव् अरुणाव् ईश्वरौ । सम्पातिश् च जटायुश् च सम्भवेतां तदन्वये
॥२॥तार्क्ष्यप्रजापतेः पुत्राव् अरुणो गरुडस् तथा । तदन्वये सम्भूतः च सम्पातिः पतगोत्तमः
॥३॥जटायुर् इति विख्यातो ह्य् अपरः सोदरोऽनुजः । अन्योन्यस्पर्धया युक्ताव् उन्मत्तौ स्वबलेन तौ
॥४॥सञ्जग्मतुर् दिनकरं नमस्कर्तुं विहायसि । यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ
॥५॥दग्धपक्षाव् उभौ श्रान्तौ पतितौ गिरिमूर्धनि । बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ
॥६॥तावद् दुःखाभिभूतोऽसाव् अरुणः प्राह भास्करम् । तौ दृष्ट्वा त्व् अरुणः सूर्य्।अम् प्राहेदं पतितौ भुवि । आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः
॥७॥ब्रह्मोवाच:
तथेत्य् उक्त्वा दिनकरो जीवयाम् आस तौ खगौ । गरुडोऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना
॥८॥आगत्याश्वासयाम् आस सुखं चक्रे च नारद । सर्व एव तदा जग्मुर् गङ्गां तापापनुत्तये
॥९॥जटायुश् चारुणश् चैव सम्पातिर् गरुडस् तथा । सूर्यो विष्णुस् तत् प्रययौ तत् तीर्थं बहुपुण्यदम्
॥१०॥पतत्रितीर्थम् आख्यातं विषघ्नं सर्वकामदम् । स्वयं सूर्यस् तथा विष्णुः सुपर्णेनारुणेन च
॥११॥आसते गौतमीतीरे तथैव वृषभध्वजः । त्रयाणाम् अपि देवानां स्थितेस् तत् तीर्थम् उत्तमम्
॥१२॥तत्र स्नात्वा शुचिर् भूत्वा नमस्कुर्यात् सुरान् इमान् । आधिव्याधिविनिर्मुक्तः स परं सौख्यम् आप्नुयात्
॥१३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).