अध्यायः १६१
ब्रह्मोवाच:
कुशतर्पणम् आख्यातं प्रणीतासङ्गमं तथा । तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम्
॥१॥तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् । विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः
॥२॥यदङ्घ्रिभ्योऽभवन् नद्यो गोदाभीमरथीमुखाः । यत्राभवत् तद् विरजम् एकवीरा च यत्र सा
॥३॥न तस्य महिमा कैश्चिद् अपि शक्योऽनुवर्णितुम् । तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः
॥४॥गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् । यन् न जानन्ति मुनयो देवाश् च पितरोऽसुराः
॥५॥तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् । परः स पुरुषो ज्ञेयो ह्य् अव्यक्तोऽक्षर एव तु
॥६॥अपरश् च क्षरस् तस्मात् प्रकृत्यन्वित एव च । निराकारात् सावयवः पुरुषः समजायत
॥७॥तस्माद् आपः समुद्भूता अद्भ्यश् च पुरुषस् तथा । ताभ्याम् अब्जं समुद्भूतं तत्राहम् अभवं मुने
॥८॥पृथिवी वायुर् आकाश आपो ज्योतिस् तथैव च । एते मत्तः पूर्वतरा एकदैवाभवन् मुने
॥९॥एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् । नैव वेदास् तदा चासन् नाहं द्रष्टास्मि किञ्चन
॥१०॥यस्माद् अहं समुद्भूतो न पश्येयं तम् अप्य् अथ । तूष्णीं स्थिते मयि तदा अश्रौषं वाचम् उत्तमाम्
॥११॥आकाशवाग् उवाच:
ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य चरस्य च
॥१२॥ब्रह्मोवाच:
ततोऽहम् अब्रवं वाचं परुषां तत्र नारद । कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत्
॥१३॥सैव वाग् अब्रवीद् दैवी प्रकृतिर् याभिधीयते । विष्णुना प्रेरिता माता जगदीशा जगन्मयी
॥१४॥आकाशवाग् उवाच:
यज्ञं कुरु ततः शक्तिस् ते भवित्री न संशयः । यज्ञो वै विष्णुर् इत्य् एषा श्रुतिर् ब्रह्मन् सनातनी
॥१५॥किं यज्वनाम् असाध्यं स्याद् इह लोके परत्र च
॥१६॥ब्रह्मोवाच:
पुनस् ताम् अब्रवं देवीं क्व वा केनेति तद् वद । यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति
॥१७॥आकाशवाग् उवाच:
ओङ्कारभूता या देवी मातृकल्पा जगन्मयी । कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम्
॥१८॥स एव साधनं ते स्यात् तेन तं यज सुव्रत । यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम्
॥१९॥हरिर् एवाखिलं तेन सर्वं विष्णोर् अवाप्यते
॥२०॥ब्रह्मोवाच:
पुनस् ताम् अब्रवं देवीं कर्मभूः क्व विधीयते । तदा नारद नैवासीद् भागीरथ्य् अथ नर्मदा
॥२१॥यमुना नैव तापी सा सरस्वत्य् अथ गौतमी । समुद्रो वा नदः कश्चिन् न सरः सरितोऽमलाः । सा शक्तिः पुनर् अप्य् एवं माम् उवाच पुनः पुनः
॥२२॥दैवी वाग् उवाच:
सुमेरोर् दक्षिणे पार्श्वे तथा हिमवतो गिरेः । दक्षिणे चापि विन्ध्यस्य सह्याच् चैवाथ दक्षिणे । सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया
॥२३॥ब्रह्मोवाच:
तत् तु वाक्यम् अथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् । तं प्रदेशम् अथागत्य स्थातव्यं क्वेत्य् अचिन्तयम् । ततो माम् अब्रवीत् सैव विष्णोर् वाण्य् अशरीरिणी
॥२४॥आकाशवाग् उवाच:
इतो गच्छ इतस् तिष्ठ तथोपविश चात्र हि । सङ्कल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते
॥२५॥कृते चैवाथ सङ्कल्पे यज्ञार्थे सुरसत्तम । यद् वदन्त्य् अखिला वेदा विधे तत् तत् समाचर
॥२६॥ब्रह्मोवाच:
इतिहासपुराणानि यद् अन्यच् छब्दगोचरम् । स्वतो मुखे मम प्रायाद् अभूच् च स्मृतिगोचरम्
॥२७॥वेदार्थश् च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च । ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम्
॥२८॥यज्ञोपकरणं सर्वं तद् उक्तं च त्व् अकल्पयम् । तदुक्तेन प्रकारेण यज्ञपात्राण्य् अकल्पयम्
॥२९॥अहं स्थित्वा यत्र देशे शुचिर् भूत्वा यतात्मवान् । दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः
॥३०॥मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः । चतुरशीतिपर्यन्तं योजनानि महामुने
॥३१॥मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः । तत्र मध्ये वेदिका स्याद् गार्हपत्योऽस्य दक्षिणे
॥३२॥तत्र चाहवनीयस्य एवम् अग्नींस् त्व् अकल्पयम् । विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात्
॥३३॥शरीरम् आत्मनोऽहं वै द्वेधा चाकरवं मुने । पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये
॥३४॥उत्तरेण त्व् अहं तद्वद् अर्धो जाया इति श्रुतेः । कालं वसन्तम् उत्कृष्टम् आज्यरूपेण नारद
॥३५॥अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः । ऋतुं च प्रावृषं पुत्र तदा बर्हिर् अकल्पयम्
॥३६॥छन्दांसि सप्त वै तत्र तदा परिधयोऽभवन् । कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः
॥३७॥योऽनादिश् च त्व् अनन्तश् च स्वयं कालोऽभवत् तदा । यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम्
॥३८॥सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः । ततोऽहम् अब्रवं वाचं वैष्णवीम् अशरीरिणीम्
॥३९॥विनैव पशुना नायं यज्ञः परिसमाप्यते । ततो माम् अवदद् देवी सैव नित्याशरीरिणी
॥४०॥आकाशवाग् उवाच:
पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम्
॥४१॥ब्रह्मोवाच:
तथेत्य् उक्त्वा स्तूयमाने देवदेवे जनार्दने । मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि
॥४२॥सा च माम् अब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु । तदा विज्ञाय पुरुषं जनकं मम चाव्ययम्
॥४३॥कालयूपस्य पार्श्वे तं गुणपाशैर् निवेशितम् । बर्हिस्थितम् अहं प्रौक्षं पुरुषं जातम् अग्रतः
॥४४॥एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वम् अभूद् इदम् । ब्राह्मणास् तु मुखात् तस्यऽभवन् बाह्वोश् च क्षत्रियाः
॥४५॥मुखाद् इन्द्रस् तथाग्निश् च श्वसनः प्राणतोऽभवत् । दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गोऽभवत् तदा
॥४६॥मनसश् चन्द्रमा जातः सूर्योऽभूच् चक्षुषस् तथा । अन्तरिक्षं तथा नाभेर् ऊरुभ्यां विश एव च
॥४७॥पद्भ्यां शूद्रश् च सञ्जातस् तथा भूमिर् अजायत । ऋषयो रोमकूपेभ्य ओषध्यः केशतोऽभवन्
॥४८॥ग्राम्यारण्याश् च पशवो नखेभ्यः सर्वतोऽभवन् । कृमिकीटपतङ्गादि पायूपस्थाद् अजायत
॥४९॥स्थावरं जङ्गमं किञ्चिद् दृश्यादृश्यं च किञ्चन । तस्मात् सर्वम् अभूद् देवा मत्तश् चाप्य् अभवन् पुनः । एतस्मिन्न् अन्तरे सैव विष्णोर् वाग् अब्रवीच् च माम्
॥५०॥आकाशवाग् उवाच:
सर्वं सम्पूर्णम् अभवत् सृष्टिर् जाता तथेप्सिता । इदानीं जुहुधि ह्य् अग्नौ पात्राणि च समानि च
॥५१॥विसर्जय तथा यूपं प्रणीतां च कुशांस् तथा । ऋत्विग्रूपं यज्ञरूपम् उद्देश्यं ध्येयम् एव च
॥५२॥स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय
॥५३॥ब्रह्मोवाच:
तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु । गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने
॥५४॥पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस् तदा । तत्र तत्र जगद्योनिम् अनुसन्धाय पूरुषम्
॥५५॥मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः । लोकनाथो विश्वकर्ता कुण्डानां तत्र सन्निधौ
॥५६॥शुक्लरूपधरो विष्णुर् भवेद् आहवनीयके । श्यामो विष्णुर् दक्षिणाग्नेः पीतो गृहपतेः कवेः
॥५७॥सर्वकालं तेषु विष्णुर् अतो देशेषु संस्थितः । न तेन रहितं किञ्चिद् विष्णुना विश्वयोनिना
॥५८॥प्रणीतायाः प्रणयनं मन्त्रैश् चाकरवं ततः । प्रणीतोदकम् अप्य् एतत् प्रणीतेति नदी शुभा
॥५९॥व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैर् अथ । मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः
॥६०॥पतितास् तत्र तीर्थानि जातानि गुणवन्ति च । सञ्जाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा
॥६१॥यालङ्कृता सर्वकालं देवदेवेन शार्ङ्गिणा । सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा
॥६२॥सम्मार्जिताः कुशा यत्र पतिता भूतले शुभे । कुशतर्पणम् आख्यातं बहुपुण्यफलप्रदम्
॥६३॥कुशैश् च तर्पिताः सर्वे कुशतर्पणम् उच्यते । पश्चाच् च सङ्गता तत्र गौतमी कारणान्तरात्
॥६४॥प्रणीतायां महाबुद्धे प्रणीतासङ्गमोऽभवत् । कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम्
॥६५॥तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे । विसृष्टो लोकपूज्योऽसौ विष्णोर् आसीत् समाश्रयः
॥६६॥अक्षयश् चाभवच् छ्रीमान् अक्षयोऽसौ वटोऽभवत् । नित्यश् च कालरूपोऽसौ स्मरणात् क्रतुपुण्यदः
॥६७॥मद्देवयजनं चेदं दण्डकारण्यम् उच्यते । सम्पूर्णे तु क्रतौ विष्णुर् मया भक्त्या प्रसादितः
॥६८॥यो विराड् उच्यते वेदे यस्मान् मूर्तम् अजायत । यस्माच् च मम चोत्पत्तिर् यस्येदं विकृतं जगत्
॥६९॥तम् अहं देवदेवेशम् अभिवन्द्य व्यसर्जयम् । योजनानि चतुर्विंशन् मद्देवयजनं शुभम्
॥७०॥तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद । यज्ञेश्वरस्वरूपाणि विष्णोर् वै चक्रपाणिनः
॥७१॥ततः प्रभृति चाख्यातं मद्देवयजनं च तत् । तत्रस्थः कृमिकीटादिः सोऽप्य् अन्ते मुक्तिभाजनम्
॥७२॥धर्मबीजं मुक्तिबीजं दण्डकारण्यम् उच्यते । विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमोऽभवत्
॥७३॥प्रणीतासङ्गमे चापि कुशतर्पण एव वा । स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम्
॥७४॥स्मरणं पठनं वापि श्रवणं चापि भक्तितः । सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः
॥७५॥उभयोस् तीरयोस् तत्र तीर्थान्य् आहुर् मनीषिणः । षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम्
॥७६॥वाराणस्या अपि मुने कुशतर्पणम् उत्तमम् । नानेन सदृशं तीर्थं विद्यते सचराचरे
॥७७॥ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम् । तीर्थम् एतन् मुने प्रोक्तं स्वर्गद्वारं महीतले
॥७८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).