अध्यायः १५०
ब्रह्मोवाच:
पैशाचं तीर्थम् आख्यातं गङ्गाया उत्तरे तटे । पिशाचत्वात् पुरा विप्रो मुक्तिम् आप महामते
॥१॥सुयवस्यात्मजो लोके जीगर्तिर् इति विश्रुतः । कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः
॥२॥मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् । विक्रीतवान् क्षत्रियाय वधाय बहुलैर् धनैः
॥३॥किं नामापद्गतः पापं नाचरत्य् अपि पण्डितः । शमितृत्वे धनं चापि जगृहे बहुलं मुनिः
॥४॥विदारणार्थं च धनं जगृहे ब्राह्मणाधमः । ततोऽप्रतिसमाधेयमहारोगनिपीडितः
॥५॥स मृतः कालपर्याये नरकेष्व् अथ पातितः । भोगाद् ऋते न क्षयोऽस्ति प्राक्तनानाम् इहांहसाम्
॥६॥किङ्करैर् यमवाक्येन बहुयोन्यन्तरं गतः । ततः पिशाचो ह्य् अभवद् दारुणो दारुणाकृतिः
॥७॥शुष्ककाष्ठेष्व् अथारण्ये निर्जले निर्जने तथा । ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिङ्करैः
॥८॥कन्यापुत्रमहीवाजिगवां विक्रयकारिणः । नरकान् न निवर्तन्ते यावद् आभूतसम्प्लवम्
॥९॥स्वकृताघविपाकेन दारुणैर् यमकिङ्करैः । सङ्घाते पच्यमानोऽसौ रुरोदोच्चैः कृतं स्मरन्
॥१०॥पथि गच्छन् कदाचित् स जीगर्तेर् मध्यमः सुतः । शुश्राव रुदतो वाणीं पिशाचस्य मुहुर् मुहुः
॥११॥पुत्रक्रेतुर् ब्रह्महन्तुर् जीगर्तेस् तु पितुस् तदा । पापिनः पुत्रविक्रेतुर् ब्रह्महन्तुः पितुश् च ताम्
॥१२॥शुनःशेपस् तदोवाच को भवान् अतिदुःखितः । जीगर्तिर् अब्रवीद् दुःखाच् छुनःशेपपिता ह्य् अहम्
॥१३॥पापीयसीं क्रियां कृत्वा योनिं प्राप्तोऽस्मि दारुणाम् । नरकेष्व् अथ पक्वश् च पुनः प्राप्तोऽन्तरालकम् । ये ये दुष्कृतकर्माणस् तेषां तेषाम् इयं गतिः
॥१४॥जीगर्तिपुत्रस् तम् उवाच दुःखात् । सोऽहं सुतस् ते मम दोषेण तात । विक्रीत्वा मां नरकान् एवम् आप्तस् । ततः करिष्ये स्वर्गतं त्वाम् इदानीम्
॥१५॥पुत्रत्वम् आप्तोऽथ मुनिप्रवीरः । गङ्गाम् अभिध्याय पितुश् च लोकान् । अनुत्तमान् ईहमानो जगाम
॥१६॥अशेषदुःखानलधूपितानां । निमज्जतां मोहमहासमुद्रे । शरीरिणां नान्यद् अहो त्रिलोक्याम् । आलम्बनं विष्णुपदीं विहाय
॥१७॥एवं विनिश्चित्य मुनिर् महात्मा । समुद्दिधीर्षुः पितरं स दुर्गतेः । शुचिस् ततो गौतमीम् आशु गत्वा । तत्र स्नात्वा संस्मरञ् छम्भुविष्णू
॥१८॥ददौ जलं प्रेतरूपाय पित्रे । पिशाचरूपाय सुदुःखिताय । तद्दानमात्रेण तदैव पूतो । जीगर्तिर् आवाप वपुः सुपुण्यम्
॥१९॥विमानयुक्तः सुरसङ्घजुष्टं । विष्णोः पदं प्राप सुतप्रभावात् । गङ्गाप्रभावाच् च हरेश् च शम्भोर् । विधातुर् अर्कायुततुल्यतेजाः
॥२०॥ततः प्रभृत्य् एतद् अतिप्रसिद्धं । पैशाचनाशं च महागदं च । महान्ति पापानि च नाशम् आशु । प्रयान्ति यस्य स्मरणेन पुंसाम्
॥२१॥तीर्थस्य चेदं गदितं तवाद्य । माहात्म्यम् एतत् त्रिशतानि यत्र । मुक्तिप्रदायीनि किम् अन्यद् अत्र
॥२२॥सर्वसिद्धिदम् आख्यातम् इत्याद्य् अत्र शतत्रयम् । तीर्थानां मुनिजुष्टानां स्मरणाद् अप्य् अभीष्टदम्
॥२३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).