मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १६५

3
ब्रह्मपुराणम् · 165

अध्यायः १६५

ब्रह्मोवाच:

भद्रतीर्थम् इति प्रोक्तं सर्वानिष्टनिवारणम् । सर्वपापप्रशमनं महाशान्तिप्रदायकम्

॥१॥

आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता । छायापि भार्या सवितुस् तस्याः पुत्रः शनैश्चरः

॥२॥

तस्य स्वसा विष्टिर् इति भीषणा पापरूपिणी । तां कन्यां सविता कस्मै ददामीति मतिं दधे

॥३॥

यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः । तच् छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया । एवं तु वर्तमाने सा पितरं प्राह दुःखिता

॥४॥

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ । ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥

॥५॥

विष्टिर् उवाच:

बालाम् एव पिता यस् तु दद्यात् कन्यां सुरूपिणे । स कृतार्थो भवेल् लोके न चेद् दुष्कृतवान् पिता

॥६॥

चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः । तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः

॥७॥

श्रीमते विदुषे यूने कुलीनाय यशस्विने । उदाराय सनाथाय कन्या देया वराय वै

॥८॥

एतच् चेद् अन्यथा कुर्यात् पिता स निरयी सदा । धर्मस्य साधनं कन्या विदुषाम् अपि भास्कर

॥९॥

नरकस्येव मूर्खाणां कामोपहतचेतसाम् । एकतः पृथिवी कृत्स्ना सशैलवनकानना

॥१०॥

स्वलङ्कृतोपाधिहीना सुकन्या चैकतः स्मृता । विक्रीणीते यश् च कन्याम् अश्वं वा गां तिलान् अपि

॥११॥

न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर् भवेत् । विवाहातिक्रमः कार्यो न कन्यायाः कदाचन

॥१२॥

तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते । यावल् लज्जां न जानाति यावत् क्रीडति पांशुभिः

॥१३॥

तावत् कन्या प्रदातव्या नो चेत् पित्रोर् अधोगतिः । पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः

॥१४॥

आत्मनः सुखितां लोके को न कुर्यात् करोति च । यत् कन्यायां पिता कुर्याद् दानं पूजनम् ईक्षणम्

॥१५॥

यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् । यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते

॥१६॥

पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे । करोति यः कन्यकानां स सम्पद्भाजनं भवेत्

॥१७॥

ब्रह्मोवाच:

एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः

॥१८॥

सूर्य उवाच:

किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् । कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम्

॥१९॥

मिथः पश्यन्ति सम्बन्धे विवाहे स्त्रीषु पुंसु च । अस्मासु सर्वम् अप्य् अस्ति विना तव गुणैः शुभे । किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम्

॥२०॥

ब्रह्मोवाच:

एवम् उक्त्वा पुनस् तां च विष्टिं प्रोवाच भास्करः

॥२१॥

सूर्य उवाच:

यस्मै कस्मै च दातव्या त्वं वै यद्य् अनुमन्यसे । दीयसेऽद्य मया विष्टे अनुजानीहि मां ततः

॥२२॥

ब्रह्मोवाच:

पितरं प्राह सा विष्टिर् भर्ता पुत्रा धनं सुखम् । आयू रूपं च सम्प्रीतिर् जायते प्राक्तनानुगम्

॥२३॥

यत् पुरा विहितं कर्म प्राणिना साध्व् असाधु वा । फलं तदनुरोधेन प्राप्यतेऽपि भवान्तरे

॥२४॥

स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् । तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा

॥२५॥

तस्मात् तद्दानसम्बन्धं स्ववंशानुगतं पिता । करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति

॥२६॥

ब्रह्मोवाच:

तच् छ्रुत्वा दुहितुर् वाक्यं त्वष्टुः पुत्राय भीषणाम् । विश्वरूपाय तां प्रादाद् विष्टिं लोकभयङ्करीम्

॥२७॥

विश्वरूपोऽपि तद्वच् च भीषणो भीषणाकृतिः । एवं मिथः सञ्चरतोः शीलरूपसमानयोः

॥२८॥

प्रीतिः कदाचिद् वैषम्यं दम्पत्योर् अभवन् मिथः । गण्डो नामाभवत् पुत्रो ह्य् अतिगण्डस् तथैव च

॥२९॥

रक्ताक्षः क्रोधनश् चैव व्ययो दुर्मुख एव च । तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक्

॥३०॥

सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः । स कदाचिद् यमगृहं द्रष्टुं मातुलम् अभ्यगात्

॥३१॥

स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः । स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम्

॥३२॥

हर्षण उवाच:

क इमे सुखिनस् तात पच्यन्ते नरके च के

॥३३॥

ब्रह्मोवाच:

एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् । तत्कर्मणां गतिं सर्वाम् अशेषेण न्यवेदयत्

॥३४॥

यम उवाच:

विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम् । न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः

॥३५॥

न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् । विहितातिक्रमं कुर्युर् ये ते नरकगामिनः

॥३६॥

ब्रह्मोवाच:

स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनर् अब्रवीत्

॥३७॥

हर्षण उवाच:

पिता त्वाष्ट्रो भीषणश् च माता विष्टिश् च भीषणा । भ्रातरश् च महात्मानो येन ते शान्तबुद्धयः

॥३८॥

सुरूपाश् च भविष्यन्ति निर्दोषा मङ्गलप्रदाः । तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम

॥३९॥

अन्यथा तान् न गच्छेयम् इत्य् उक्तः प्राह धर्मराट् । हर्षणं शुद्धबुद्धिं तं हर्षणोऽसि न संशयः

॥४०॥

बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः । एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम्

॥४१॥

कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः । यः पूर्वजान् उद्धरति स पुत्रस् त्व् इतरो गदः

॥४२॥

यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् । तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः

॥४३॥

स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा । स तु प्रीतो यदि भवेत् सर्वम् इष्टं प्रदास्यति

॥४४॥

ब्रह्मोवाच:

इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ । शुचिस् तुष्टाव देवेशं हरिं प्रीतोऽभवद् धरिः

॥४५॥

हर्षणाय ततः प्रादात् कुलभद्रं ततस् तु सः । सर्वाभद्रप्रशमनपूर्वकं भद्रम् अस्तु ते

॥४६॥

तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस् तथा सुताः । ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते

॥४७॥

सर्वमङ्गलदं पुंसां तत्र भद्रपतिर् हरिः । तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् । मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः

॥४८॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).