मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५९

3
ब्रह्मपुराणम् · 59

अध्यायः ५९

ब्रह्मोवाच:

अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च । सर्वपापविनिर्मुक्तो नरो याति परं पदम्

॥१॥

मया चाराधितश् चासौ शक्रेण तदनन्तरम् । विभीषणेन रामेण कस् तं नाराधयेत् पुमान्

॥२॥

श्वेतगङ्गां नरः स्नात्वा यः पश्येच् छ्वेतमाधवम् । मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति

॥३॥

मुनय ऊचुः:

श्वेतमाधवमाहात्म्यं वक्तुम् अर्हस्य् अशेषतः । विस्तरेण जगन्नाथ प्रतिमां तस्य वै हरेः

॥४॥

तस्मिन् क्षेत्रवरे पुण्ये विख्याते जगतीतले । श्वेताख्यं माधवं देवं कस् तं स्थापितवान् पुरा

॥५॥

ब्रह्मोवाच:

अभूत् कृतयुगे विप्राः श्वेतो नाम नृपो बली । मतिमान् धर्मविच् छूरः सत्यसन्धो दृढव्रतः

॥६॥

यस्य राज्ये तु वर्षाणां सहस्रं दश मानवाः । भवन्त्य् आयुष्मन्तो लोका बालस् तस्मिन् न सीदति

॥७॥

वर्तमाने तदा राज्ये किञ्चित् काले गते द्विजाः । कपालगौतमो नाम ऋषिः परमधार्मिकः

॥८॥

सुतोऽस्याजातदन्तश् च मृतः कालवशाद् द्विजाः । तम् आदाय ऋषिर् धीमान् नृपस्यान्तिकम् आनयत्

॥९॥

दृष्ट्वैवं नृपतिः सुप्तं कुमारं गतचेतसम् । प्रतिज्ञाम् अकरोद् विप्रा जीवनार्थं शिशोस् तदा

॥१०॥

राजोवाच:

यावद् बालम् अहं त्व् एनं यमस्य सदने गतम् । नानये सप्तरात्रेण चितां दीप्तां समारुहे

॥११॥

ब्रह्मोवाच:

एवम् उक्त्वासितैः पद्मैः शतैर् दशशतादिकैः । सम्पूज्य च महादेवं राजा विद्यां पुनर् जपेत्

॥१२॥

अतिभक्तिं तु सञ्चिन्त्य नृपस्य जगदीश्वरः । सान्निध्यम् अगमत् तुष्टोऽस्मीत्य् उवाच सहोमया

॥१३॥

श्रुत्वैवं गिरम् ईशस्य विलोक्य सहसा हरम् । भस्मदिग्धं विरूपाक्षं शरत्कुन्देन्दुवर्चसम्

॥१४॥

शार्दूलचर्मवसनं शशाङ्काङ्कितमूर्धजम् । महीं निपत्य सहसा प्रणम्य स तदाब्रवीत्

॥१५॥

श्वेत उवाच:

कारुण्यं यदि मे दृष्ट्वा प्रसन्नोऽसि प्रभो यदि । कालस्य वशम् आपन्नो बालको द्विजपुत्रकः

॥१६॥

जीवत्व् एष पुनर् बाल इत्य् एवं व्रतम् आहितम् । अकस्माच् च मृतं बालं नियम्य भगवन् स्वयम् । यथोक्तायुष्यसंयुक्तं क्षेमं कुरु महेश्वर

॥१७॥

ब्रह्मोवाच:

श्वेतस्यैतद् वचः श्रुत्वा मुदं प्राप हरस् तदा । कालम् आज्ञापयाम् आस सर्वभूतभयङ्करम्

॥१८॥

नियम्य कालं दुर्धर्षं यमस्याज्ञाकरं द्विजाः । बालं सञ्जीवयाम् आस मृत्योर् मुखगतं पुनः

॥१९॥

कृत्वा क्षेमं जगत् सर्वं मुनेः पुत्रं स तं द्विजाः । देव्या सहोमया देवस् तत्रैवान्तरधीयत

॥२०॥

एवं सञ्जीवयाम् आस मुनेः पुत्रं नृपोत्तमः

॥२१॥

मुनय ऊचुः:

देवदेव जगन्नाथ त्रैलोक्यप्रभवाव्यय । ब्रूहि नः परमं तथ्यं श्वेताख्यस्य च साम्प्रतम्

॥२२॥

ब्रह्मोवाच:

शृणुध्वं मुनिशार्दूलाः सर्वसत्त्वहितावहम् । प्रवक्ष्यामि यथातथ्यं यत् पृच्छथ ममानघाः

॥२३॥

माधवस्य च माहात्म्यं सर्वपापप्रणाशनम् । यच् छ्रुत्वाभिमतान् कामान् ध्रुवं प्राप्नोति मानवः

॥२४॥

श्रुतवान् ऋषिभिः पूर्वं माधवाख्यस्य भो द्विजाः । शृणुध्वं तां कथां दिव्यां भयशोकार्तिनाशिनीम्

॥२५॥

स कृत्वा राज्यम् एकाग्र्यं वर्षाणां च सहस्रशः । विचार्य लौकिकान् धर्मान् वैदिकान् नियमांस् तथा

॥२६॥

केशवाराधने विप्रा निश्चितं व्रतम् आस्थितः । स गत्वा परमं क्षेत्रं सागरं दक्षिणाश्रयम्

॥२७॥

तटे तस्मिञ् शुभे रम्ये देशे कृष्णस्य चान्तिके । श्वेतोऽथ कारयाम् आस प्रासादं शुभलक्षणम्

॥२८॥

धन्वन्तरशतं चैकं देवदेवस्य दक्षिणे । ततः श्वेतेन विप्रेन्द्राः श्वेतशैलमयेन च

॥२९॥

कृतः स भगवाञ् श्वेतो माधवश् चन्द्रसन्निभः । प्रतिष्ठां विधिवच् चक्रे यथोद्दिष्टां स्वयं तु सः

॥३०॥

दत्त्वा दानं द्विजातिभ्यो दीनानाथतपस्विनाम् । अथानन्तरतो राजा माधवस्य च सन्निधौ

॥३१॥

महीं निपत्य सहसा ओङ्कारं द्वादशाक्षरम् । जपन् स मौनम् आस्थाय मासम् एकं समाधिना

॥३२॥

निराहारो महाभागः सम्यग् विष्णुपदे स्थितः । जपान्ते स तु देवेशं संस्तोतुम् उपचक्रमे

॥३३॥

श्वेत उवाच:

ॐ नमो वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय नमो नारायणाय च

॥३४॥

नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे । निर्गुणायाप्रतर्क्याय शुचये शुक्लकर्मणे

॥३५॥

ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च । नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः

॥३६॥

ॐ नमः पुष्कराक्षाय सहस्राक्षाय मीढुषे । नमः सहस्रपादाय सहस्रभुजमन्यवे

॥३७॥

ॐ नमोऽस्तु वराहाय वरदाय सुमेधसे । वरिष्ठाय वरेण्याय शरण्यायाच्युताय च

॥३८॥

ॐ नमो बालरूपाय बालपद्मप्रभाय च । बालार्कसोमनेत्राय मुञ्जकेशाय धीमते

॥३९॥

केशवाय नमो नित्यं नमो नारायणाय च । माधवाय वरिष्ठाय गोविन्दाय नमो नमः

॥४०॥

ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे । मधुसूदनाय नमः शुद्धायांशुधराय च

॥४१॥

नमो अनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे । त्रिविक्रमाय च नमो दिव्यपीताम्बराय च

॥४२॥

सृष्टिकर्त्रे नमस् तुभ्यं गोप्त्रे धात्रे नमो नमः । नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः

॥४३॥

नमो वामनरूपाय नमो वामनकर्मणे । नमो वामननेत्राय नमो वामनवाहिने

॥४४॥

नमो रम्याय पूज्याय नमोऽस्त्व् अव्यक्तरूपिणे । अप्रतर्क्याय शुद्धाय नमो भयहराय च

॥४५॥

संसारार्णवपोताय प्रशान्ताय स्वरूपिणे । शिवाय सौम्यरूपाय रुद्रायोत्तारणाय च

॥४६॥

भवभङ्गकृते चैव भवभोगप्रदाय च । भवसङ्घातरूपाय भवसृष्टिकृते नमः

॥४७॥

ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च । सोमसूर्यांशुकेशाय गोब्राह्मणहिताय च

॥४८॥

ॐ नम ऋक्स्वरूपाय पदक्रमस्वरूपिणे । ऋक्स्तुताय नमस् तुभ्यं नम ऋक्साधनाय च

॥४९॥

ॐ नमो यजुषां धात्रे यजूरूपधराय च । यजुर्याज्याय जुष्टाय यजुषां पतये नमः

॥५०॥

ॐ नमः श्रीपते देव श्रीधराय वराय च । श्रियः कान्ताय दान्ताय योगिचिन्त्याय योगिने

॥५१॥

ॐ नमः सामरूपाय सामध्वनिवराय च । ॐ नमः सामसौम्याय सामयोगविदे नमः

॥५२॥

साम्ने च सामगीताय ॐ नमः सामधारिणे । सामयज्ञविदे चैव नमः सामकराय च

॥५३॥

नमस् त्व् अथर्वशिरसे नमोऽथर्वस्वरूपिणे । नमोऽस्त्व् अथर्वपादाय नमोऽथर्वकराय च

॥५४॥

ॐ नमो वज्रशीर्षाय मधुकैटभघातिने । महोदधिजलस्थाय वेदाहरणकारिणे

॥५५॥

नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः । नमो भगवते तुभ्यं वासुदेवाय ते नमः

॥५६॥

नारायण नमस् तुभ्यं नमो लोकहिताय च । ॐ नमो मोहनाशाय भवभङ्गकराय च

॥५७॥

गतिप्रदाय च नमो नमो बन्धहराय च । त्रैलोक्यतेजसां कर्त्रे नमस् तेजःस्वरूपिणे

॥५८॥

योगीश्वराय शुद्धाय रामायोत्तरणाय च । सुखाय सुखनेत्राय नमः सुकृतधारिणे

॥५९॥

वासुदेवाय वन्द्याय वामदेवाय वै नमः । देहिनां देहकर्त्रे च भेदभङ्गकराय च

॥६०॥

देवैर् वन्दितदेहाय नमस् ते दिव्यमौलिने । नमो वासनिवासाय वासव्यवहराय च

॥६१॥

ॐ नमो वसुकर्त्रे च वसुवासप्रदाय च । नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने

॥६२॥

यतियोगकरेशाय नमो यज्ञाङ्गधारिणे । सङ्कर्षणाय च नमः प्रलम्बमथनाय च

॥६३॥

मेघघोषस्वनोत्तीर्णवेगलाङ्गलधारिणे । नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण

॥६४॥

न मेऽस्ति त्वाम् ऋते बन्धुर् नरकोत्तारणे प्रभो । अतस् त्वां सर्वभावेन प्रणतो नतवत्सल

॥६५॥

मलं यत् कायजं वापि मानसं चैव केशव । न तस्यान्योऽस्ति देवेश क्षालकस् त्वाम् ऋतेऽच्युत

॥६६॥

संसर्गाणि समस्तानि विहाय त्वाम् उपस्थितः । सङ्गो मेऽस्तु त्वया सार्धम् आत्मलाभाय केशव

॥६७॥

कष्टम् आपत् सुदुष्पारं संसारं वेद्मि केशव । तापत्रयपरिक्लिष्टस् तेन त्वां शरणं गतः

॥६८॥

एषणाभिर् जगत् सर्वं मोहितं मायया तव । आकर्षितं च लोभाद्यैर् अतस् त्वाम् अहम् आश्रितः

॥६९॥

नास्ति किञ्चित् सुखं विष्णो संसारस्थस्य देहिनः । यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते

॥७०॥

तथा फलविहीनं तु सुखम् आत्यन्तिकं लभेत् । नष्टो विवेकशून्योऽस्मि दृश्यते जगद् आतुरम्

॥७१॥

गोविन्द त्राहि संसारान् माम् उद्धर्तुं त्वम् अर्हसि । मग्नस्य मोहसलिले निरुत्तारे भवार्णवे । उद्धर्ता पुण्डरीकाक्ष त्वाम् ऋतेऽन्यो न विद्यते

॥७२॥

ब्रह्मोवाच:

इत्थं स्तुतस् ततस् तेन राज्ञा श्वेतेन भो द्विजाः । तस्मिन् क्षेत्रवरे दिव्ये विख्याते पुरुषोत्तमे

॥७३॥

भक्तिं तस्य तु सञ्चिन्त्य देवदेवो जगद्गुरुः । आजगाम नृपस्याग्रे सर्वैर् देवैर् वृतो हरिः

॥७४॥

नीलजीमूतसङ्काशः पद्मपत्त्रायतेक्षणः । दधत् सुदर्शनं धीमान् कराग्रे दीप्तमण्डलम्

॥७५॥

क्षीरोदजलसङ्काशो विमलश् चन्द्रसन्निभः । रराज वामहस्तेऽस्य पाञ्चजन्यो महाद्युतिः

॥७६॥

पक्षिराजध्वजः श्रीमान् गदाशार्ङ्गासिधृक् प्रभुः । उवाच साधु भो राजन् यस्य ते मतिर् उत्तमा । यद् इष्टं वर भद्रं ते प्रसन्नोऽस्मि तवानघ

॥७७॥

ब्रह्मोवाच:

श्रुत्वैवं देवदेवस्य वाक्यं तत् परमामृतम् । प्रणम्य शिरसोवाच श्वेतस् तद्गतमानसः

॥७८॥

श्वेत उवाच:

यद्य् अहं भगवन् भक्तः प्रयच्छ वरम् उत्तमम् । आब्रह्मभवनाद् ऊर्ध्वं वैष्णवं पदम् अव्ययम्

॥७९॥

विमलं विरजं शुद्धं संसारासङ्गवर्जितम् । तत् पदं गन्तुम् इच्छामि त्वत्प्रसादाज् जगत्पते

॥८०॥

श्रीभगवान् उवाच:

यत् पदं विबुधाः सर्वे मुनयः सिद्धयोगिनः । नाभिगच्छन्ति यद् रम्यं परं पदम् अनामयम्

॥८१॥

यास्यसि परमं स्थानं राज्यामृतम् उपास्य च । सर्वांल् लोकान् अतिक्रम्य मम लोकं गमिष्यसि

॥८२॥

कीर्तिस् तवात्र राजेन्द्र त्रींल् लोकांश् च गमिष्यति । सान्निध्यं मम चैवात्र सर्वदैव भविष्यति

॥८३॥

श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः । कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयम् अम्बु च

॥८४॥

स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः । यस् त्व् इमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम्

॥८५॥

शङ्खगोक्षीरसङ्काशाम् अशेषाघविनाशिनीम् । तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम्

॥८६॥

विहाय सर्वलोकान् वै मम लोके महीयते । मन्वन्तराणि तत्रैव देवकन्याभिर् आवृतः

॥८७॥

गीयमानश् च मधुरं सिद्धगन्धर्वसेवितः । भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह

॥८८॥

च्युतस् तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत् । वेदवेदाङ्गविच् छ्रीमान् भोगवांश् चिरजीवितः

॥८९॥

गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः । रूपवान् बहुभाग्यश् च पुत्रपौत्रसमन्वितः

॥९०॥

पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे । त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत्

॥९१॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).