मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ७५

3
ब्रह्मपुराणम् · 75

अध्यायः ७५

नारद उवाच:

कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः । किं चकार तपो वापि कां चक्रे स्तुतिम् उत्तमाम्

॥१॥

ब्रह्मोवाच:

गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः । आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे

॥२॥

उपविश्य शुचिर् भूत्वा स्तोत्रं चेदं ततो जगौ । अपतत् पुष्पवृष्टिश् च स्तूयमाने महेश्वरे

॥३॥

गौतम उवाच:

भोगार्थिनां भोगम् अभीप्सितं च । दातुं महान्त्य् अष्टवपूंषि धत्ते । सोमो जनानां गुणवन्ति नित्यं । देवं महादेवम् इति स्तुवन्ति

॥४॥

कर्तुं स्वकीयैर् विषयैः सुखानि । भर्तुं समस्तं सचराचरं च । सम्पत्तये ह्य् अस्य विवृद्धये च । महीमयं रूपम् इतीश्वरस्य

॥५॥

सृष्टेः स्थितेः संहरणाय भूमेर् । आधारम् आधातुम् अपां स्वरूपम् । भेजे शिवः शान्ततनुर् जनानां । सुखाय धर्माय जगत् प्रतिष्ठितम्

॥६॥

कालव्यवस्थाम् अमृतस्रवं च । जीवस्थितिं सृष्टिम् अथो विनाशनम् । मुदं प्रजानां सुखम् उन्नतिं च । चक्रेऽर्कचन्द्राग्निमयं शरीरम्

॥७॥

वृद्धिं गतिं शक्तिम् अथाक्षराणि । जीवव्यवस्थां मुदम् अप्य् अनेकाम् । स्रष्टुं कृतं वायुर् इतीशरूपं । त्वं वेत्सि नूनं भगवन् भवन्तम्

॥८॥

भेदैर् विना नैव कृतिर् न धर्मो । नात्मीयम् अन्यन् न दिशोऽन्तरिक्षम् । द्यावापृथिव्यौ न च भुक्तिमुक्ती । तस्माद् इदं व्योमवपुस् तवेश

॥९॥

धर्मं व्यवस्थापयितुं व्यवस्य । ऋक्सामशास्त्राणि यजुश् च शाखाः । लोके च गाथाः स्मृतयः पुराणम् । इत्यादिशब्दात्मकताम् उपैति

॥१०॥

यष्टा क्रतुर् यान्य् अपि साधनानि । ऋत्विक्प्रदेशं फलदेशकालाः । त्वम् एव शम्भो परमार्थतत्त्वं । वदन्ति यज्ञाङ्गमयं वपुस् ते

॥११॥

कर्ता प्रदाता प्रतिभूः प्रदानं । सर्वज्ञसाक्षी पुरुषः परश् च । प्रत्यात्मभूतः परमार्थरूपस् । त्वम् एव सर्वं किम् उ वाग्विलासैः

॥१२॥

न वेदशास्त्रैर् गुरुभिः प्रदिष्टो । न नासि बुद्ध्यादिभिर् अप्रधृष्यः । अजोऽप्रमेयः शिवशब्दवाच्यस् । त्वम् अस्ति सत्यं भगवन् नमस् ते

॥१३॥

आत्मैकतां स्वप्रकृतिं कदाचिद् । ऐक्षच् छिवः सम्पद् इयं ममेति । अचिन्त्यप्रभावो बहुविश्वमूर्तिः

॥१४॥

भावेऽभिवृद्धा च भवे भवे च । स्वकारणं कारणम् आस्थिता च । नित्या शिवा सर्वसुलक्षणा वा । विलक्षणा विश्वकरस्य शक्तिः

॥१५॥

लयाः सतां यत्र सनातनास् ते । एकैव मूर्तिर् न समस्ति किञ्चिद् । असाध्यम् अस्या दयिता हरस्य

॥१६॥

यदर्थम् अन्नानि धनानि जीवा । यच्छन्ति कुर्वन्ति तपांसि धर्मान् । सापीयम् अम्बा जगतो जनित्री । प्रिया तु सोमस्य महासुकीर्तिः

॥१७॥

यद् ईक्षितं काङ्क्षति वासवोऽपि । यन्नामतो मङ्गलम् आप्नुयाच् च । या व्याप्य विश्वं विमलीकरोति । सोमा सदा सोमसमानरूपा

॥१८॥

ब्रह्मादिजीवस्य चराचरस्य । बुद्ध्यक्षिचैतन्यमनःसुखानि । यस्याः प्रसादात् फलवन्ति नित्यं । वागीश्वरी लोकगुरोः सुरम्या

॥१९॥

चतुर्मुखस्यापि मनो मलीनं । किम् अन्यजन्तोर् इति चिन्त्य माता । गङ्गावतारं विविधैर् उपायैः । सर्वं जगत् पावयितुं चकार

॥२०॥

श्रुतीः समालक्ष्य हरप्रभुत्वं । विश्वस्य लोकः सकलैः प्रमाणैः । कृत्वा च धर्मान् बुभुजे च भोगान् । विभूतिर् एषा तु सदाशिवस्य

॥२१॥

कार्यक्रियाकारकसाधनानां । वेदोदितानाम् अथ लौकिकानाम् । यत् साध्यम् उत्कृष्टतमं प्रियं च । प्रोक्ता च सा सिद्धिर् अनादिकर्तुः

॥२२॥

ध्यात्वा वरं ब्रह्म परं प्रधानं । यत् सारभूतं यद् उपासितव्यम् । यत् प्राप्य मुक्ता न पुनर् भवन्ति । सद्योगिनो मुक्तिर् उमापतिः सः

॥२३॥

रूपाणि धत्ते जगतो हिताय । तद्योगयोग्यानि तथैव धत्से । पतिव्रतात्वं त्वयि मातर् एवम्

॥२४॥

ब्रह्मोवाच:

इत्य् एवं स्तुवतस् तस्य पुरस्ताद् वृषभध्वजः । उमया सहितः श्रीमान् गणेशादिगणैर् वृतः

॥२५॥

साक्षाद् आगत्य तं शम्भुः प्रसन्नो वाक्यम् अब्रवीत्

॥२६॥

शिव उवाच:

किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः । परितुष्टोऽस्मि याचस्व देवानाम् अपि दुष्करम्

॥२७॥

ब्रह्मोवाच:

इति श्रुत्वा जगन्मूर्तेर् वाक्यं वाक्यविशारदः । हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत्

॥२८॥

अहो दैवम् अहो धर्मो ह्य् अहो वै विप्रपूजनम् । अहो लोकगतिश् चित्रा अहो धातर् नमोऽस्तु ते

॥२९॥

गौतम उवाच:

जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित । यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते

॥३०॥

ईश्वर उवाच:

त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया । आत्मनस् तूपकाराय तद् याचस्वाकुतोभयः

॥३१॥

गौतम उवाच:

स्तोत्रेणानेन ये भक्तास् त्वां च देवीं स्तुवन्ति वै । सर्वकामसमृद्धाः स्युर् एतद् धि वरयाम्य् अहम्

॥३२॥

ब्रह्मोवाच:

एवम् अस्त्व् इति देवेशः परितुष्टोऽब्रवीद् वचः । अन्यान् अपि वरान् मत्तो याचस्व विगतज्वरः

॥३३॥

एवम् उक्तस् तु हर्षेण गौतमः प्राह शङ्करम्

॥३४॥

गौतम उवाच:

इमां देवीं जटासंस्थां पावनीं लोकपावनीम् । तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ

॥३५॥

सर्वासां तीर्थभूता तु यावद् गच्छति सागरम् । ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च

॥३६॥

स्नानमात्रेण सर्वाणि विलयं यान्तु शङ्कर । चन्द्रसूर्योपरागे च अयने विषुवे तथा

॥३७॥

सङ्क्रान्तौ वैधृतौ पुण्यतीर्थेष्व् अन्येषु यत् फलम् । अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर

॥३८॥

श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च । द्वापरे यज्ञदाने च दानम् एव कलौ युगे

॥३९॥

युगधर्माश् च ये सर्वे देशधर्मास् तथैव च । देशकालादिसंयोगे यो धर्मो यत्र शस्यते

॥४०॥

यद् अन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः । अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर

॥४१॥

यत्र यत्र त्व् इयं याति यावत् सागरगामिनी । तत्र तत्र त्वया भाव्यम् एष चास्तु वरो वरः

॥४२॥

योजनानां तूपरि तु दश यावच् च सङ्ख्यया । तदन्तरप्रविष्टानां महापातकिनाम् अपि

॥४३॥

तत् पितॄणां च तेषां च स्नानायागच्छतां शिव । स्नाने चाप्य् अन्तरे मृत्योर् मुक्तिभाजो भवन्तु वै

॥४४॥

एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले । एषा तेभ्यो विशिष्टा तु अलं शम्भो नमोऽस्तु ते

॥४५॥

ब्रह्मोवाच:

तद् गौतमवचः श्रुत्वा तथास्त्व् इत्य् अब्रवीच् छिवः । अस्याः परतरं तीर्थं न भूतं न भविष्यति

॥४६॥

सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् । सर्वेषां गौतमी पुण्या इत्य् उक्त्वान्तरधीयत

॥४७॥

ततो गते भगवति लोकपूजिते । तदाज्ञया पूर्णबलः स गौतमः । जटां समादाय सरिद्वरां तां । सुरैर् वृतो ब्रह्मगिरिं विवेश

॥४८॥

ततस् तु गौतमे प्राप्ते जटाम् आदाय नारद । पुष्पवृष्टिर् अभूत् तत्र समाजग्मुः सुरेश्वराः

॥४९॥

ऋषयश् च महाभागा ब्राह्मणाः क्षत्रियास् तथा । जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः

॥५०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).