मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २७

3
ब्रह्मपुराणम् · 27

अध्यायः २७

ब्रह्मोवाच:

शृणुध्वं मुनयः सर्वे यद् वो वक्ष्यामि साम्प्रतम् । पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम्

॥१॥

पृथिव्यां भारतं वर्षं कर्मभूमिर् उदाहृता । कर्मणः फलभूमिश् च स्वर्गं च नरकं तथा

॥२॥

तस्मिन् वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । अवश्यं फलम् आप्नोति अशुभस्य शुभस्य च

॥३॥

ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक् सुसंयताः । प्राप्नुवन्ति परां सिद्धिं तस्मिन् वर्षे न संशयः

॥४॥

धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः । प्राप्नोति पुरुषः सर्वं तस्मिन् वर्षे सुसंयतः

॥५॥

इन्द्राद्याश् च सुराः सर्वे तस्मिन् वर्षे द्विजोत्तमाः । कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे

॥६॥

अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः

॥७॥

ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः । तेऽपि कृत्वा शुभं कर्म तस्मिन् वर्षे दिवं गताः

॥८॥

निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । स्वर्गापवर्गफलदे तत् पश्यामः कदा वयम्

॥९॥

मुनय ऊचुः:

यद् एतद् भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम्

॥१०॥

ततः स्वर्गश् च मोक्षश् च मध्यमं तच् च गम्यते । न खल्व् अन्यत्र मर्त्यानां भूमौ कर्म विधीयते

॥११॥

तस्माद् विस्तरतो ब्रह्मन्न् अस्माकं भारतं वद । यदि तेऽस्ति दयास्मासु यथावस्थितिर् एव च

॥१२॥

तस्माद् वर्षम् इदं नाथ ये वास्मिन् वर्षपर्वताः । भेदाश् च तस्य वर्षस्य ब्रूहि सर्वान् अशेषतः

॥१३॥

ब्रह्मोवाच:

शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । समुद्रान्तरिता ज्ञेयास् ते समाश् च परस्परम्

॥१४॥

इन्द्रद्वीपः कशेरुश् च ताम्रवर्णो गभस्तिमान् । नागद्वीपस् तथा सौम्यो गान्धर्वो वारुणस् तथा

॥१५॥

अयं तु नवमस् तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः

॥१६॥

पूर्वे किराता यस्यासन् पश्चिमे यवनास् तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चान्ते स्थिता द्विजाः

॥१७॥

इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपावनाः । तेषां संव्यवहारश् च एभिः कर्मभिर् इष्यते

॥१८॥

स्वर्गापवर्गहेतुश् च पुण्यं पापं च वै तथा । महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः

॥१९॥

विन्ध्यश् च पारियात्रश् च सप्तैवात्र कुलाचलाः । तेषां सहस्रशश् चान्ये भूधरा ये समीपगाः

॥२०॥

विस्तारोच्छ्रयिणो रम्या विपुलाश् चित्रसानवः । कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः

॥२१॥

वातन्धयो वैद्युतश् च मैनाकः सुरसस् तथा । तुङ्गप्रस्थो नागगिरिर् गोधनः पाण्डराचलः

॥२२॥

पुष्पगिरिर् वैजयन्तो रैवतोऽर्बुद एव च । ऋष्यमूकः स गोमन्थः कृतशैलः कृताचलः

॥२३॥

श्रीपार्वतश् चकोरश् च शतशोऽन्ये च पर्वताः । तैर् विमिश्रा जनपदा म्लेच्छाद्याश् चैव भागशः

॥२४॥

तैः पीयन्ते सरिच्छ्रेष्ठास् ता बुध्यध्वं द्विजोत्तमाः । गङ्गा सरस्वती सिन्धुश् चन्द्रभागा तथापरा

॥२५॥

यमुना शतद्रुर् विपाशा वितस्तैरावती कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती

॥२६॥

विपाशा देविका चक्षुर् निष्ठीवा गण्डकी तथा । कौशिकी चापगा चैव हिमवत्पादनिःसृताः

॥२७॥

देवस्मृतिर् देववती वातघ्नी सिन्धुर् एव च । वेण्या तु चन्दना चैव सदानीरा मही तथा

॥२८॥

चर्मण्वती वृषी चैव विदिशा वेदवत्य् अपि । सिप्रा ह्य् अवन्ती च तथा पारियात्रानुगाः स्मृताः

॥२९॥

शोणा महानदी चैव नर्मदा सुरथा क्रिया । मन्दाकिनी दशार्णा च चित्रकूटा तथापरा

॥३०॥

चित्रोत्पला वेत्रवती करमोदा पिशाचिका । तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी

॥३१॥

सधेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी

॥३२॥

सिप्रा पयोष्णी निर्विन्ध्या तापी चैव सरिद्वरा । वेणा वैतरणी चैव सिनीवाली कुमुद्वती

॥३३॥

तोया चैव महागौरी दुर्गा चान्तःशिला तथा । विन्ध्यपादप्रसूतास् ता नद्यः पुण्यजलाः शुभाः

॥३४॥

गोदावरी भीमरथी कृष्णवेणा तथापगा । तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी

॥३५॥

सह्यपादविनिष्क्रान्ता इत्य् एताः सरितां वराः । कृतमाला ताम्रपर्णी पुष्यजा प्रत्यलावती

॥३६॥

मलयाद्रिसमुद्भूताः पुण्याः शीतजलास् त्व् इमाः । पितृसोमर्षिकुल्या च वञ्जुला त्रिदिवा च या

॥३७॥

लाङ्गुलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । सुविकाला कुमारी च मनूगा मन्दगामिनी

॥३८॥

क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृताः । सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः

॥३९॥

विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः

॥४०॥

प्रावृट्कालवहाः सन्ति सदाकालवहाश् च याः । मत्स्या मुकुटकुल्याश् च कुन्तलाः काशिकोशलाः

॥४१॥

अन्ध्रकाश् च कलिङ्गाश् च शमकाश् च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः

॥४२॥

सह्यस्य चोत्तरे यस् तु यत्र गोदावरी नदी । पृथिव्याम् अपि कृत्स्नायां स प्रदेशो मनोरमः

॥४३॥

गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । वाहीकराटधानाश् च सुतीराः कालतोयदाः

॥४४॥

अपरान्ताश् च शूद्राश् च वाह्लिकाश् च सकेरलाः । गान्धारा यवनाश् चैव सिन्धुसौवीरमद्रकाः

॥४५॥

शतद्रुहाः कलिङ्गाश् च पारदा हारभूषिकाः । माठराश् चैव कनकाः कैकेया दम्भमालिकाः

॥४६॥

क्षत्रियोपमदेशाश् च वैश्यशूद्रकुलानि च । काम्बोजाश् चैव विप्रेन्द्रा बर्बराश् च सलौकिकाः

॥४७॥

वीराश् चैव तुषाराश् च पह्लवाधायता नराः । आत्रेयाश् च भरद्वाजाः पुष्कलाश् च दशेरकाः

॥४८॥

लम्पकाः शुनशोकाश् च कुलिका जाङ्गलैः सह । औषध्यश् चलचन्द्रा च किरातानां च जातयः

॥४९॥

तोमरा हंसमार्गाश् च काश्मीराः करुणास् तथा । शूलिकाः कुहकाश् चैव मागधाश् च तथैव च

॥५०॥

एते देशा उदीच्यास् तु प्राच्यान् देशान् निबोधत । अन्धा वामङ्कुराकाश् च वल्लकाश् च मखान्तकाः

॥५१॥

तथापरेऽङ्गा वङ्गाश् च मलदा मालवर्तिकाः । भद्रतुङ्गाः प्रतिजया भार्याङ्गाश् चापमर्दकाः

॥५२॥

प्राग्ज्योतिषाश् च मद्राश् च विदेहास् ताम्रलिप्तकाः । मल्ला मगधका नन्दाः प्राच्या जनपदास् तथा

॥५३॥

अथापरे जनपदा दक्षिणापथवासिनः । पूर्णाश् च केवलाश् चैव गोलाङ्गूलास् तथैव च

॥५४॥

ऋषिका मुषिकाश् चैव कुमारा रामठाः शकाः । महाराष्ट्रा माहिषकाः कलिङ्गाश् चैव सर्वशः

॥५५॥

आभीराः सह वैशिक्या अटव्याः सरवाश् च ये । पुलिन्दाश् चैव मौलेया वैदर्भा दण्डकैः सह

॥५६॥

पौलिका मौलिकाश् चैव अश्मका भोजवर्धनाः । कौलिकाः कुन्तलाश् चैव दम्भका नीलकालकाः

॥५७॥

दाक्षिणात्यास् त्व् अमी देशा अपरान्तान् निबोधत । शूर्पारकाः कालिधना लोलास् तालकटैः सह

॥५८॥

इत्य् एते ह्य् अपरान्ताश् च शृणुध्वं विन्ध्यवासिनः । मलजाः कर्कशाश् चैव मेलकाश् चोलकैः सह

॥५९॥

उत्तमार्णा दशार्णाश् च भोजाः किष्किन्धकैः सह । तोषलाः कोशलाश् चैव त्रैपुरा वैदिशास् तथा

॥६०॥

तुम्बुरास् तु चराश् चैव यवनाः पवनैः सह । अभया रुण्डिकेराश् च चर्चरा होत्रधर्तयः

॥६१॥

एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश् च ये

॥६२॥

नीहारास् तुषमार्गाश् च कुरवस् तुङ्गणाः खसाः । कर्णप्रावरणाश् चैव ऊर्णा दर्घाः सकुन्तकाः

॥६३॥

चित्रमार्गा मालवाश् च किरातास् तोमरैः सह । कृतत्रेतादिकश् चात्र चतुर्युगकृतो विधिः

॥६४॥

एवं तु भारतं वर्षं नवसंस्थानसंस्थितम् । दक्षिणे परतो यस्य पूर्वे चैव महोदधिः

॥६५॥

हिमवान् उत्तरेणास्य कार्मुकस्य यथा गुणः । तद् एतद् भारतं वर्षं सर्वबीजं द्विजोत्तमाः

॥६६॥

ब्रह्मत्वम् अमरेशत्वं देवत्वं मरुतां तथा । मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः

॥६७॥

स्थावराणां च सर्वेषां मितो विप्राः शुभाशुभैः । प्रयान्ति कर्मभूर् विप्रा नान्या लोकेषु विद्यते

॥६८॥

देवानाम् अपि भो विप्राः सदैवैष मनोरथः । अपि मानुष्यम् आप्स्यामो देवत्वात् प्रच्युताः क्षितौ

॥६९॥

मनुष्यः कुरुते यत् तु तन् न शक्यं सुरासुरैः । तत्कर्मनिगडग्रस्तैस् तत्कर्मक्षपणोन्मुखैः

॥७०॥

न भारतसमं वर्षं पृथिव्याम् अस्ति भो द्विजाः । यत्र विप्रादयो वर्णाः प्राप्नुवन्त्य् अभिवाञ्छितम्

॥७१॥

धन्यास् ते भारते वर्षे जायन्ते ये नरोत्तमाः । धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम्

॥७२॥

प्राप्यते यत्र तपसः फलं परमदुर्लभम् । सर्वदानफलं चैव सर्वयज्ञफलं तथा

॥७३॥

तीर्थयात्राफलं चैव गुरुसेवाफलं तथा । देवताराधनफलं स्वाध्यायस्य फलं द्विजाः

॥७४॥

यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । नानाव्रतफलं चैव नानाशास्त्रफलं तथा

॥७५॥

अहिंसादिफलं सम्यक् फलं सर्वाभिवाञ्छितम् । ब्रह्मचर्यफलं चैव गार्हस्थ्येन च यत् फलम्

॥७६॥

यत् फलं वनवासेन सन्न्यासेन च यत् फलम् । इष्टापूर्तफलं चैव तथान्यच् छुभकर्मणाम्

॥७७॥

प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । कः शक्नोति गुणान् वक्तुं भारतस्याखिलान् द्विजाः

॥७८॥

एवं सम्यङ् मया प्रोक्तं भारतं वर्षम् उत्तमम् । सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम्

॥७९॥

य इदं शृणुयान् नित्यं पठेद् वा नियतेन्द्रियः । सर्वपापैर् विनिर्मुक्तो विष्णुलोकं स गच्छति

॥८०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).