मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २२०

3
ब्रह्मपुराणम् · 220

अध्यायः २२०

मुनय ऊचुः:

भूयः प्रब्रूहि भगवञ् श्राद्धकल्पं सुविस्तरात् । कथं क्व च कदा केषु कैस् तद् ब्रूहि तपोधन

॥१॥

व्यास उवाच:

शृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् । यथा यत्र यदा येषु यैर् द्रव्यैस् तद् वदाम्य् अहम्

॥२॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः श्राद्धं स्ववरणोदितम् । कुलधर्मम् अनुतिष्ठद्भिर् दातव्यं मन्त्रपूर्वकम्

॥३॥

स्त्रीभिर् वर्णावरैः शूद्रैर् विप्राणाम् अनुशासनात् । अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम्

॥४॥

पुष्करादिषु तीर्थेषु पुण्येष्व् आयतनेषु च । शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः

॥५॥

सरित्सु पुण्यतोयासु नदेषु च सरःसु च । सङ्गमेषु नदीनां च समुद्रेषु च सप्तसु

॥६॥

स्वनुलिप्तेषु गेहेषु स्वेष्व् अनुज्ञापितेषु च । दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च

॥७॥

श्राद्धम् एतेषु दातव्यं वर्ज्यम् एतेषु चोच्यते । किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्व् अपि

॥८॥

दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्व् अपि । सिन्धोर् उत्तरकूलेषु नर्मदायाश् च दक्षिणे

॥९॥

पूर्वेषु करतोयाया न देयं श्राद्धम् उच्यते । श्राद्धं देयम् उशन्तीह मासि मास्य् उडुपक्षये

॥१०॥

पौर्णमासेषु श्राद्धं च कर्तव्यम् ऋक्षगोचरे । नित्यश्राद्धम् अदैवं च मनुष्यैः सह गीयते

॥११॥

नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा । काम्यान्य् अन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः

॥१२॥

वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च । तत्र युग्मान् द्विजान् आहुर् मन्त्रपूर्वं तु वै द्विजाः

॥१३॥

कन्यां गते सवितरि दिनानि दश पञ्च च । पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते

॥१४॥

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा । पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनाशिनी

॥१५॥

श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन् नरः । गणाधिपत्यं सप्तम्याम् अष्टम्यां बुद्धिम् उत्तमाम्

॥१६॥

स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् । वेदांस् तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः

॥१७॥

द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः । प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिम् उत्तमाम्

॥१८॥

दीर्घायुर् अथवैश्वर्यं कुर्वाणस् तु त्रयोदशीम् । अवाप्नोति न सन्देहः श्राद्धं श्रद्धासमन्वितः

॥१९॥

यथासम्भविनान्नेन श्राद्धं श्रद्धासमन्वितः । युवानः पितरो यस्य मृताः शस्त्रेण वा हताः

॥२०॥

तेन कार्यं चतुर्दश्यां तेषां तृप्तिम् अभीप्सता । श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः

॥२१॥

सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तम् अश्नुते । अतःपरं मुनिश्रेष्ठाः शृणुध्वं वदतो मम

॥२२॥

पितॄणां प्रीतये यत्र यद् देयं प्रीतिकारिणा । मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते

॥२३॥

मासद्वयं मत्स्यमांसैस् तृप्तिं यान्ति पितामहाः । त्रीन् मासान् हारिणं मांसं विज्ञेयं पितृतृप्तये

॥२४॥

पुष्णाति चतुरो मासाञ् शशस्य पिशितं पितॄन् । शाकुनं पञ्च वै मासान् षण् मासाञ् शूकरामिषम्

॥२५॥

छागलं सप्त वै मासान् ऐणेयं चाष्टमासकान् । करोति तृप्तिं नव वै रुरुमांसं न संशयः

॥२६॥

गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् । तथैकादश मासांस् तु औरभ्रं पितृतृप्तिदम्

॥२७॥

संवत्सरं तथा गव्यं पयः पायसम् एव च । वाध्रीनम् आमिषं लोहं कालशाकं तथा मधु

॥२८॥

रोहितामिषम् अन्नं च दत्तान्य् आत्मकुलोद्भवैः । अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस् तथा

॥२९॥

पितॄणां नात्र सन्देहो गयाश्राद्धं च भो द्विजाः । यो ददाति गुडोन्मिश्रांस् तिलान् वा श्राद्धकर्मणि

॥३०॥

मधु वा मधुमिश्रं वा अक्षयं सर्वम् एव तत् । अपि नः स कुले भूयाद् यो नो दद्याज् जलाञ्जलिम्

॥३१॥

पायसं मधुसंयुक्तं वर्षासु च मघासु च । एष्टव्या बहवः पुत्रा यद्य् एकोऽपि गयां व्रजेत्

॥३२॥

गौरीं वाप्य् उद्वहेत् कन्यां नीलं वा वृषम् उत्सृजेत् । कृत्तिकासु पितॄन् अर्च्य स्वर्गम् आप्नोति मानवः

॥३३॥

अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् । शौर्यम् आर्द्रासु चाप्नोति क्षेत्राणि च पुनर्वसौ

॥३४॥

पुष्ये तु धनम् अक्षय्यम् आश्लेषे चायुर् उत्तमम् । मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च

॥३५॥

प्रधानशीलो भवति सापत्यश् चोत्तरासु च । प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः

॥३६॥

रूपं तेजश् च चित्रासु तथापत्यम् अवाप्नुयात् । वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा

॥३७॥

कुर्वन्तां चानुराधासु ता दद्युश् चक्रवर्तिताम् । आधिपत्यं च ज्येष्ठासु मूले चारोग्यम् उत्तमम्

॥३८॥

आषाढासु यशःप्राप्तिर् उत्तरासु विशोकता । श्रवणेन शुभांल् लोकान् धनिष्ठासु धनं महत्

॥३९॥

वेदवित्त्वम् अभिजिति भिषक्सिद्धिं च वारुणे । अजाविकं प्रौष्ठपद्यां विन्देद् गावस् तथोत्तरे

॥४०॥

रेवतीषु तथा कुप्यम् अश्विनीषु तुरङ्गमान् । श्राद्धं कुर्वंस् तथाप्नोति भरणीष्व् आयुर् उत्तमम्

॥४१॥

एवं फलम् अवाप्नोति ऋक्षेष्व् एतेषु तत्त्ववित् । तस्मात् काम्यानि श्राद्धानि देयानि विधिवद् द्विजाः

॥४२॥

कन्याराशिगते सूर्ये फलम् अत्यन्तम् इच्छता । यान् यान् कामान् अभिध्यायन् कन्याराशिगते रवौ

॥४३॥

श्राद्धं कुर्वन्ति मनुजास् तांस् तान् कामांल् लभन्ति ते । नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ

॥४४॥

पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा । दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च

॥४५॥

पिण्डम् इच्छन्ति पितरः कन्याराशिगते रवौ । कन्यां गते सवितरि यान्य् अहानि तु षोडश

॥४६॥

क्रतुभिस् तानि तुल्यानि देवो नारायणोऽब्रवीत् । राजसूयाश्वमेधाभ्यां य इच्छेद् दुर्लभं फलम्

॥४७॥

अप्य् अम्बुशाकमूलाद्यैः पितॄन् कन्यागतेऽर्चयेत् । उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि

॥४८॥

योऽर्चयेत् स्वपितॄन् भक्त्या तस्य वासस् त्रिविष्टपे । हस्तर्क्षगे दिनकरे पितृराजानुशासनात्

॥४९॥

तावत् पितृपुरी शून्या यावद् वृश्चिकदर्शनम् । वृश्चिके समतिक्रान्ते पितरो दैवतैः सह

॥५०॥

निःश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुःसहम् । अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै

॥५१॥

अन्वष्टकासु क्रमशो मातृपूर्वं तद् इष्यते । ग्रहणे च व्यतीपाते रविचन्द्रसमागमे

॥५२॥

जन्मर्क्षे ग्रहपीडायां श्राद्धं पार्वणम् उच्यते । अयनद्वितये श्राद्धं विषुवद्वितये तथा

॥५३॥

सङ्क्रान्तिषु च कर्तव्यं श्राद्धं विधिवद् उत्तमम् । एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणाद् ऋते

॥५४॥

वैशाखस्य तृतीयायां नवम्यां कार्त्तिकस्य च । श्राद्धं कार्यं तु शुक्लायां सङ्क्रान्तिविधिना नरैः

॥५५॥

त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि । श्राद्धं कार्यं पायसेन । दक्षिणायनवच् च तत्

॥५६॥

यदा च श्रोत्रियोऽभ्येति गेहं वेदविद् अग्निमान् । तेनैकेन च कर्तव्यं श्राद्धं विधिवद् उत्तमम्

॥५७॥

श्राद्धीयद्रव्यसम्प्राप्तिर् यदा स्यात् साधुसम्मता । पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः

॥५८॥

प्रतिसंवत्सरं कार्यं मातापित्रोर् मृतेऽहनि । पितृव्यस्याप्य् अपुत्रस्य भ्रातुर् ज्येष्ठस्य चैव हि

॥५९॥

पार्वणं देवपूर्वं स्याद् एकोद्दिष्टं सुरैर् विना । द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा

॥६०॥

मातामहानाम् अप्य् एवं सर्वम् ऊहेन कीर्तितम् । प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा

॥६१॥

सतिलं सकुशं दद्याद् बहिर् जलसमीपतः । तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः

॥६२॥

दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति

॥६३॥

सूतकान्ते गृहे श्राद्धम् एकोद्दिष्टं प्रचक्षते । द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम्

॥६४॥

मासि मासि च कर्तव्यं यावत् संवत्सरं द्विजाः । तत परतरं कार्यं सपिण्डीकरणं क्रमात्

॥६५॥

कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः । ततः प्रभृति निर्मुक्ताः प्रेतत्वात् पितृतां गताः

॥६६॥

अमूर्ता मूर्तिमन्तश् च पितरो द्विविधाः स्मृताः । नान्दीमुखास् त्व् अमूर्ताः स्युर् मूर्तिमन्तोऽथ पार्वणाः । एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस् त्रिधा

॥६७॥

मुनय ऊचुः:

कथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम । प्रेतीभूतस्य विधिवद् ब्रूहि नो वदतां वर

॥६८॥

व्यास उवाच:

सपिण्डीकरणं विप्राः शृणुध्वं वदतो मम । तच् चापि देवरहितम् एकार्घैकपवित्रकम्

॥६९॥

नैवाग्नौ करणं तत्र तच् चावाहनवर्जितम् । अपसव्यं च तत्रापि भोजयेद् अयुजो द्विजान्

॥७०॥

विशेषस् तत्र चान्योऽस्ति प्रतिमासक्रियादिकः । तं कथ्यमानम् एकाग्राः शृणुध्वं मे द्विजोत्तमाः

॥७१॥

तिलगन्धोदकैर् युक्तं तत्र पात्रचतुष्टयम् । कुर्यात् पितॄणां त्रितयम् एकं प्रेतस्य च द्विजाः

॥७२॥

पात्रत्रये प्रेतपात्राद् अर्घं चैव प्रसेचयेत् । ये समाना इति जपन् पूर्ववच् छेषम् आचरेत्

॥७३॥

स्त्रीणाम् अप्य् एवम् एव स्याद् एकोद्दिष्टम् उदाहृतम् । सपिण्डीकरणं तासां पुत्राभावे न विद्यते

॥७४॥

प्रतिसंवत्सरं कार्यम् एकोद्दिष्टं नरैः स्त्रियाः । मृताहनि च तत् कार्यं पितॄणां विधिचोदितम्

॥७५॥

पुत्राभावे सपिण्डास् तु तदभावे सहोदराः । कुर्युर् एतं विधिं सम्यक् पुत्रस्य च सुताः सुताः

॥७६॥

कुर्यान् मातामहानां तु पुत्रिकातनयस् तथा । द्व्यामुष्यायणसञ्ज्ञास् तु मातामहपितामहान्

॥७७॥

पूजयेयुर् यथान्यायं श्राद्धैर् नैमित्तिकैर् अपि । सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम्

॥७८॥

तदभावे च नृपतिः कारयेत् त्व् अकुटुम्बिनाम् । तज्जातीयैर् नरैः सम्यग् वाहाद्याः सकलाः क्रियाः

॥७९॥

सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः । एता वः कथिता विप्रा नित्या नैमित्तिकास् तथा

॥८०॥

वक्ष्ये श्राद्धाश्रयाम् अन्यां नित्यनैमित्तिकां क्रियाम् । दर्शस् तत्र निमित्तं तु विद्याद् इन्दुक्षयान्वितः

॥८१॥

नित्यस् तु नियतः कालस् तस्मिन् कुर्याद् यथोदितम् । सपिण्डीकरणाद् ऊर्ध्वं पितुर् यः प्रपितामहः

॥८२॥

स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः । तेषां हि यश् चतुर्थोऽन्यः स तु लेपभुजो भवेत्

॥८३॥

सोऽपि सम्बन्धतो हीनम् उपभोगं प्रपद्यते । पिता पितामहश् चैव तथैव प्रपितामहः

॥८४॥

पिण्डसम्बन्धिनो ह्य् एते विज्ञेयाः पुरुषास् त्रयः । लेपसम्बन्धिनश् चान्ये पितामहपितामहात्

॥८५॥

प्रभृत्युक्तास् त्रयस् तेषां यजमानश् च सप्तमः । इत्य् एष मुनिभिः प्रोक्तः सम्बन्धः साप्तपौरुषः

॥८६॥

यजमानात् प्रभृत्य् ऊर्ध्वम् अनुलेपभुजस् तथा । ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः

॥८७॥

येऽपि तिर्यक्त्वम् आपन्ना ये च भूतादिसंस्थिताः । तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि

॥८८॥

स समाप्यायते विप्रा येन येन वदामि तत् । अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि

॥८९॥

तेन तृप्तिम् उपायान्ति ये पिशाचत्वम् आगताः । यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः

॥९०॥

तेन ये तरुतां प्राप्तास् तेषां तृप्तिः प्रजायते । यास् तु गन्धाम्बुकणिकाः पतन्ति धरणीतले

॥९१॥

ताभिर् आप्यायनं तेषां देवत्वं ये कुले गताः । उद्धृतेष्व् अथ पिण्डेषु याश् चाम्बुकणिका भुवि

॥९२॥

ताभिर् आप्यायनं तेषां ये तिर्यक्त्वं कुले गताः । ये चादन्ताः कुले बालाः क्रियायोगाद् बहिष्कृताः

॥९३॥

विपन्नास् त्व् अनधिकाराः सम्मार्जितजलाशिनः । भुक्त्वा चाचामतां यच् च यज् जलं चाङ्घ्रिशौचजम्

॥९४॥

ब्राह्मणानां तथैवान्यत् तेन तृप्तिं प्रयान्ति वै । एवं यो यजमानस्य यश् च तेषां द्विजन्मनाम्

॥९५॥

कश्चिज् जलान्नविक्षेपः शुचिर् उच्छिष्ट एव वा । तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः

॥९६॥

प्रयान्त्य् आप्यायनं विप्राः सम्यक् श्राद्धक्रियावताम् । अन्यायोपार्जितैर् अर्थैर् यच् छ्राद्धं क्रियते नरैः

॥९७॥

तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु । एवम् आप्यायनं विप्रा बहूनाम् एव बान्धवैः

॥९८॥

श्राद्धं कुर्वद्भिर् अत्राम्बुविक्षेपैः सम्प्रजायते । तस्माच् छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि

॥९९॥

कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन् न सीदति । श्राद्धं देयं तु विप्रेषु संयतेष्व् अग्निहोत्रिषु

॥१००॥

अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः । त्रिणाचिकेतस् त्रिमधुस् त्रिसुपर्णः षडङ्गवित्

॥१०१॥

मातापितृपरश् चैव स्वस्रीयः सामवेदवित् । ऋत्विक्पुरोहिताचार्यम् उपाध्यायं च भोजयेत्

॥१०२॥

मातुलः श्वशुरः श्यालः सम्बन्धी द्रोणपाठकः । मण्डलब्राह्मणो यस् तु पुराणार्थविशारदः

॥१०३॥

अकल्पः कल्पसन्तुष्टः प्रतिग्रहविवर्जितः । एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः

॥१०४॥

निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् । दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत्

॥१०५॥

तैश् च संयमिभिर् भाव्यं यस् तु श्राद्धं करिष्यति । श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति

॥१०६॥

पितरस् तस्य वै मासं तस्मिन् रेतसि शेरते । गत्वा च योषितं श्राद्धे यो भुङ्क्ते यस् तु गच्छति

॥१०७॥

रेतोमूत्रकृताहारास् तं मासं पितरस् तयोः । तस्मात् त्व् अप्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम्

॥१०८॥

अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः । भिक्षार्थम् आगतांश् चापि कालेन संयतान् यतीन्

॥१०९॥

भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः । योगिनश् च तदा श्राद्धे भोजनीया विपश्चिता

॥११०॥

योगाधारा हि पितरस् तस्मात् तान् पूजयेत् सदा । ब्राह्मणानां सहस्राणि एको योगी भवेद् यदि

॥१११॥

यजमानं च भोक्तॄंश् च नौर् इवाम्भसि तारयेत् । पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः

॥११२॥

या गीता पितृभिः पूर्वम् ऐलस्यासीन् महीपतेः । कदा नः सन्तताव् अग्र्यः कस्यचिद् भविता सुतः

॥११३॥

यो योगिभुक्तशेषान् नो भुवि पिण्डान् प्रदास्यति । गयायाम् अथवा पिण्डं खड्गमांसं तथा हविः

॥११४॥

कालशाकं तिलाज्यं च तृप्तये कृसरं च नः । वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः

॥११५॥

विषाणवर्जं शिरस आ पादाद् आशिषामहे । दद्याच् छ्राद्धं त्रयोदश्यां मघासु च यथाविधि

॥११६॥

मधुसर्पिःसमायुक्तं पायसं दक्षिणायने । तस्मात् सम्पूजयेद् भक्त्या स्वपितॄन् विधिवन् नरः

॥११७॥

कामान् अभीप्सन् सकलान् पापाद् आत्मविमोचनम् । वसून् रुद्रांस् तथादित्यान् नक्षत्रग्रहतारकाः

॥११८॥

प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः । आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च

॥११९॥

प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः । तथापराह्णः पूर्वाह्णात् पितॄणाम् अतिरिच्यते

॥१२०॥

सम्पूज्य स्वागतेनैतान् सदनेऽभ्यागतान् द्विजान् । पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत्

॥१२१॥

श्राद्धं कृत्वा विधानेन सम्भोज्य च द्विजोत्तमान् । विसर्जयेत् प्रियाण्य् उक्त्वा प्रणिपत्य च भक्तितः

॥१२२॥

आद्वारम् अनुगच्छेच् च आगच्छेद् अनुमोदितः । ततो नित्यक्रियां कुर्याद् भोजयेच् च तथातिथीन्

॥१२३॥

नित्यक्रियां पितॄणां च केचिद् इच्छन्ति सत्तमाः । न पितॄणां तथैवान्ये शेषं पूर्ववद् आचरेत्

॥१२४॥

पृथक्त्वेन वदन्त्य् अन्ये केचित् पूर्वं च पूर्ववत् । ततस् तद् अन्नं भुञ्जीत सह भृत्यादिभिर् नरः

॥१२५॥

एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः । यथा च विप्रमुख्यानां परितोषोऽभिजायते

॥१२६॥

इदानीं सम्प्रवक्ष्यामि वर्जनीयान् द्विजाधमान् । मित्रध्रुक् कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः

॥१२७॥

श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः । मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ

॥१२८॥

कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः । मित्रशत्रुर् दुष्कुलीनः पशुपालो निराकृतिः

॥१२९॥

परिवित्तिः परिवेत्ता परिवेदनिकासुतः । वृषलीपतिस् तत्सुतश् च न भवेच् छ्राद्धभुग् द्विजः

॥१३०॥

वृषलीपुत्रसंस्कर्ता अनूढो दिधिषूपतिः । भृतकाध्यापको यस् तु भृतकाध्यापितश् च यः

॥१३१॥

सूतकान्नोपजीवी च मृगयुः सोमविक्रयी । अभिशस्तस् तथा स्तेनः पतितो वार्द्धुषिः शठः

॥१३२॥

पिशुनो वेदसन्त्यागी दानाग्नित्यागनिष्ठुरः । राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी

॥१३३॥

वृद्धद्विड् दुर्धरः क्रूरो मूढो देवलकस् तथा । नक्षत्रसूचकश् चैव पर्वकारश् च गर्हितः

॥१३४॥

अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः । न ते श्राद्धे नियोक्तव्या दृष्ट्वामी पङ्क्तिदूषकाः

॥१३५॥

असतां प्रग्रहो यत्र सतां चैवावमानना । दण्डो देवकृतस् तत्र सद्यः पतति दारुणः

॥१३६॥

हित्वागमं सुविहितं बालिशं यस् तु भोजयेत् । आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति

॥१३७॥

यस् त्व् आश्रितं द्विजं त्यक्त्वा अन्यम् आनीय भोजयेत् । तन्निःश्वासाग्निनिर्दग्धस् तत्र दाता विनश्यति

॥१३८॥

वस्त्राभावे क्रिया नास्ति यज्ञा वेदास् तपांसि च । तस्माद् वासांसि देयानि श्राद्धकाले विशेषतः

॥१३९॥

कौशेयं क्षौमकार्पासं दुकूलम् अहतं तथा । श्राद्धे त्व् एतानि यो दद्यात् कामान् आप्नोति चोत्तमान्

॥१४०॥

यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् । तथान्नं तत्र विप्राणां जन्तुर् यत्रावतिष्ठते

॥१४१॥

नामगोत्रं च मन्त्रांश् च दत्तम् अन्नं न यन्ति ते । अपि ये निधनं प्राप्तास् तृप्तिस् तान् उपतिष्ठते

॥१४२॥

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यम् एव भवन्त्व् इति

॥१४३॥

आद्यावसाने श्राद्धस्य त्रिर् आवृत्त्या जपेत् तदा । पिण्डनिर्वपणे वापि जपेद् एवं समाहितः

॥१४४॥

क्षिप्रम् आयान्ति पितरो राक्षसाः प्रद्रवन्ति च । प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्य् उत

॥१४५॥

क्षौमसूत्रं नवं दद्याच् छाणं कार्पासिकं तथा । पत्त्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत्

॥१४६॥

वर्जयेच् चादशं प्राज्ञो यद्यप्य् अव्याहतं भवेत् । न प्रीणयन्त्य् अथैतानि दातुश् चाप्य् अनयो भवेत्

॥१४७॥

न निवेद्यो भवेत् पिण्डः पितॄणां यस् तु जीवति । इष्टेनान्नेन भक्ष्येण भोजयेत् तं यथाविधि

॥१४८॥

पिण्डम् अग्नौ सदा दद्याद् भोगार्थी सततं नरः । पत्न्यै दद्यात् प्रजार्थी च मध्यमं मन्त्रपूर्वकम्

॥१४९॥

उत्तमां द्युतिम् अन्विच्छन् पिण्डं गोषु प्रयच्छति । प्रज्ञां चैव यशः कीर्तिम् अप्सु चैव निवेदयेत्

॥१५०॥

प्रार्थयन् दीर्घम् आयुश् च वायसेभ्यः प्रयच्छति । कुमारशालाम् अन्विच्छन् कुक्कुटेभ्यः प्रयच्छति

॥१५१॥

एके विप्राः पुनः प्राहुः पिण्डोद्धरणम् अग्रतः । अनुज्ञातस् तु विप्रैस् तैः कामम् उद्ध्रियताम् इति

॥१५२॥

तस्माच् छ्राद्धं तथा कार्यं यथोक्तम् ऋषिभिः पुरा । अन्यथा तु भवेद् दोषः पितॄणां नोपतिष्ठति

॥१५३॥

यवैर् व्रीहितिलैर् माषैर् गोधूमैश् चणकैस् तथा । सन्तर्पयेत् पितॄन् मुद्गैः श्यामाकैः सर्षपद्रवैः

॥१५४॥

नीवारैर् हस्तिश्यामाकैः प्रियङ्गुभिस् तथार्घयेत् । प्रसातिकां सतूलिकां दद्याच् छ्राद्धे विचक्षणः

॥१५५॥

आम्रम् आम्रातकं बिल्वं दाडिमं बीजपूरकम् । प्राचीनामलकं क्षीरं नारिकेलं परूषकम्

॥१५६॥

नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् । पटोलं च प्रियालं च कर्कन्धूबदराणि च

॥१५७॥

विकङ्कतं वत्सकं च कस्त्वारुर् वारकान् अपि । एतानि फलजातानि श्राद्धे देयानि यत्नतः

॥१५८॥

गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् । गव्यं पयो दधि घृतं तैलं च तिलसम्भवम्

॥१५९॥

सैन्धवं सागरोत्थं च लवणं सारसं तथा । निवेदयेच् छुचीन् गन्धांश् चन्दनागुरुकुङ्कुमान्

॥१६०॥

कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा । शाकम् आरण्यकं चापि दद्यात् पुष्पाण्य् अमूनि च

॥१६१॥

जातिचम्पकलोध्राश् च मल्लिकाबाणबर्बरी । वृन्ताशोकाटरूषं च तुलसी तिलकं तथा

॥१६२॥

पावन्तीं शतपत्त्रां च गन्धशेफालिकाम् अपि । कुब्जकं तगरं चैव मृगम् आरण्यकेतकीम्

॥१६३॥

यूथिकाम् अतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः । कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः

॥१६४॥

इन्दीवरं कोकनदं कह्लारं च नियोजयेत् । कुष्ठं मांसी वालकं च कुक्कुटी जातिपत्त्रकम्

॥१६५॥

नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी । पुनर् अप्य् एवमादीनि गन्धयोग्यानि चक्षते

॥१६६॥

गुग्गुलुं चन्दनं चैव श्रीवासम् अगुरुं तथा । धूपानि पितृयोग्यानि ऋषिगुग्गुलम् एव च

॥१६७॥

राजमाषांश् च चणकान् मसूरान् कोरदूषकान् । विप्रुषान् मर्कटांश् चैव कोद्रवांश् चैव वर्जयेत्

॥१६८॥

माहिषं चामरं मार्गम् आविकैकशफोद्भवम् । स्त्रैणम् औष्ट्रम् आविकं च दधि क्षीरं घृतं त्यजेत्

॥१६९॥

तालं वरुणकाकोलौ बहुपत्त्रार्जुनीफलम् । जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत्

॥१७०॥

मत्स्यसूकरकूर्माश् च गावो वर्ज्या विशेषतः । पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम्

॥१७१॥

कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् । पालङ्कं च कुमारीं च किरातं पिण्डमूलकम्

॥१७२॥

गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्त्रिकाम् । जीवं च शतपुष्पां च नालिकां गन्धशूकरम्

॥१७३॥

हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् । मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम्

॥१७४॥

पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् । अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम्

॥१७५॥

वार्ताकं शिवजातं च लोमशानि वटानि च । कालीयं रक्तवाणां च बलाका लकुचं तथा

॥१७६॥

श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा । आरनालं च शुक्तं च शीर्णं पर्युषितं तथा

॥१७७॥

नोग्रगन्धं च दातव्यं कोविदारकशिग्रुकौ । अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः

॥१७८॥

न च देयं गतरसं मद्यगन्धं च यद् भवेत् । हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके

॥१७९॥

कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेद् अम्लवेतसम् । दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः

॥१८०॥

आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् । पायसं शाल्मलीमुद्गान् मोदकादींश् च भक्तितः

॥१८१॥

पानकं च रसालं च गोक्षीरं च निवेदयेत् । यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः

॥१८२॥

ईषदम्लकटून्य् एव देयानि श्राद्धकर्मणि । अत्यम्लं चातिलवणम् अतिरिक्तकटूनि च

॥१८३॥

आसुराणीह भोज्यानि तान्य् अतो दूरतस् त्यजेत् । मृष्टस्निग्धानि यानि स्युर् ईषत्कट्वम्लकानि च

॥१८४॥

स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् । छागमांसं वार्तिकं च तैत्तिरं शशकामिषम्

॥१८५॥

शिवालावकराजीवमांसं श्राद्धे नियोजयेत् । वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम्

॥१८६॥

सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते । यद् अप्य् उक्तं हि मनुना रोहितं प्रतियोजयेत्

॥१८७॥

योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् । एवम् उक्तं मया विप्रा वाराहेणावलोकितम्

॥१८८॥

मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् । एतानि च निषिद्धानि वाराहेण तपोधनाः

॥१८९॥

अभक्ष्याणि द्विजातीनां न देयानि पितृष्व् अपि । रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत्

॥१९०॥

चक्रवाकं च मद्गुं च शल्कहीनांश् च मत्स्यकान् । कुररं च निरस्थिं च वासहातं च कुक्कुटान्

॥१९१॥

कलविङ्कमयूरांश् च भारद्वाजांश् च शार्ङ्गकान् । नकुलोलूकमार्जारांल् लोपान् अन्यान् सुदुर्ग्रहान्

॥१९२॥

टिट्टिभान् सार्धजम्बूकान् व्याघ्रर्क्षतरक्षुकान् । एतान् अन्यांश् च सन्दुष्टान् यो भक्षयति दुर्मतिः

॥१९३॥

स महापापकारी तु रौरवं नरकं व्रजेत् । पितृष्व् एतांस् तु यो दद्यात् पापात्मा गर्हितामिषान्

॥१९४॥

स स्वर्गस्थान् अपि पितॄन् नरके पातयिष्यति । कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम्

॥१९५॥

पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् । कोद्रवं कोकिलाक्षं च चुक्रं कम्बुकपद्मकम्

॥१९६॥

चकोरश्येनमांसं च वर्तुलालाबुतालिनीम् । फलं तालतरूणां च भुक्त्या नरकम् ऋच्छति

॥१९७॥

दत्त्वा पितृषु तैः सार्धं व्रजेत् पूयवहं नरः । तस्मात् सर्वप्रयत्नेन नाहरेत् तु विचक्षणः

॥१९८॥

निषिद्धानि वराहेण स्वयं पित्रर्थम् आदरात् । वरम् एवात्ममांसस्य भक्षणं मुनयः कृतम्

॥१९९॥

न त्व् एव हि निषिद्धानाम् आदानं पुम्भिर् आदरात् । अज्ञानाद् वा प्रमादाद् वा सकृद् एतानि च द्विजाः

॥२००॥

भक्षितानि निषिद्धानि प्रायश्चित्तं ततश् चरेत् । फलमूलदधिक्षीरतक्रगोमूत्रयावकैः

॥२०१॥

भोज्यान्नभोज्यसम्भुक्ते प्रत्येकं दिनसप्तकम् । एवं निषिद्धाचरणे कृते सकृद् अपि द्विजैः

॥२०२॥

शुद्धिं नेयं शरीरं तु विष्णुभक्तैर् विशेषतः । निषिद्धं वर्जयेद् द्रव्यं यथोक्तं च द्विजोत्तमाः

॥२०३॥

समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः । एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् । आब्रह्मस्तम्बपर्यन्तं जगत् प्रीणाति मानवः

॥२०४॥

मुनय ऊचुः:

पिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः । कथं श्राद्धं हि कर्तव्यम् एतद् विस्तरशो वद

॥२०५॥

व्यास उवाच:

यस्मै दद्यात् पिता श्राद्धं तस्मै दद्यात् सुतः स्वयम् । एवं न हीयते धर्मो लौकिको वैदिकस् तथा

॥२०६॥

मुनय ऊचुः:

मृतः पिता जीवति च यस्य ब्रह्मन् पितामहः । स हि श्राद्धं कथं कुर्याद् एतत् त्वं वक्तुम् अर्हसि

॥२०७॥

व्यास उवाच:

पितुः पिण्डं प्रदद्याच् च भोजयेच् च पितामहम् । प्रपितामहस्य पिण्डं वै ह्य् अयं शास्त्रेषु निर्णयः

॥२०८॥

मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् । सपिण्डीकरणं नास्ति न च पार्वणम् इष्यते

॥२०९॥

आचारम् आचरेद् यस् तु पितृमेधाश्रितं नरः । आयुषा धनपुत्रैश् च वर्धत्य् आशु न संशयः

॥२१०॥

पितृमेधाध्यायम् इमं श्राद्धकालेषु यः पठेत् । तद् अन्नम् अस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः

॥२११॥

एवं मयोक्तः पितृमेधकल्पः । पापापहः पुण्यविवर्धनश् च । श्रोतव्य एष प्रयतैर् नरैश् च । श्राद्धेषु चैवाप्य् अनुकीर्तयेत

॥२१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).