मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १९९

3
ब्रह्मपुराणम् · 199

अध्यायः १९९

व्यास उवाच:

भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् । रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः

॥१॥

रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी । न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे

॥२॥

ददौ स शिशुपालाय जरासन्धप्रचोदितः । भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः

॥३॥

विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः । भीष्मकस्य पुरं जग्मुः शिशुपालश् च कुण्डिनम्

॥४॥

कृष्णोऽपि बलभद्राद्यैर् यदुभिः परिवारितः । प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः

॥५॥

श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः । विपक्षभावम् आसाद्य रामाद्येष्व् एव बन्धुषु

॥६॥

ततश् च पौण्ड्रकः श्रीमान् दन्तवक्त्रो विदूरथः । शिशुपालो जरासन्धः शाल्वाद्याश् च महीभृतः

॥७॥

कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम् । निर्जिताश् च समागम्य रामाद्यैर् यदुपुङ्गवैः

॥८॥

कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः

॥९॥

हत्वा बलं स नागाश्वपत्तिस्यन्दनसङ्कुलम् । निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा

॥१०॥

निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् । राक्षसेन विधानेन सम्प्राप्तो मधुसूदनः

॥११॥

तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् । जहार शम्बरो यं वै यो जघान च शम्बरम्

॥१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).