अध्यायः ७७
ब्रह्मोवाच:
त्र्यम्बकश् च इति प्राह गौतमं मुनिभिर् वृतम्
॥१॥शिव उवाच:
द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम । सर्वत्राहं सन्निहितः सर्वकामप्रदस् तथा
॥२॥ब्रह्मोवाच:
गङ्गाद्वारे प्रयागे च तथा सागरसङ्गमे । एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी
॥३॥नर्मदा तु सरिच्छ्रेष्ठा पर्वतेऽमरकण्टके । यमुना सङ्गता तत्र प्रभासे तु सरस्वती
॥४॥कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद । तिसृणां सङ्गमो यत्र तत् तीर्थं मुक्तिदं नृणाम्
॥५॥पयोउष्णी सङ्गता यत्र तत्रत्या तच् च मुक्तिदम् । इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया
॥६॥सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति । किञ्चित्काले पुण्यतमं किञ्चित्तीर्थं सुरागमे
॥७॥सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः । तिस्रः कोट्योऽर्धकोटी च योजनानां शतद्वये
॥८॥तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम । इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च
॥९॥ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी । ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी
॥१०॥स्मरणाद् एव पापौघहन्त्री मम सदा प्रिया । पञ्चानाम् अपि भूतानाम् आपः श्रेष्ठत्वम् आगताः
॥११॥तत्रापि तीर्थभूतास् तु तस्माद् आपः पराः स्मृताः । तासां भागीरथी श्रेष्ठा ताभ्योऽपि गौतमी तथा
॥१२॥आनीता सजटा गङ्गा अस्या नान्यच् छुभावहम् । स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने
॥१३॥ब्रह्मोवाच:
इत्य् एतत् कथितं पुत्र गौतमाय महात्मने । साक्षाद् धरेण तुष्टेन मया तव निवेदितम्
॥१४॥एवं सा गौतमी गङ्गा सर्वेभ्योऽप्य् अधिका मता । तत्स्वरूपं च कथितं कुतोऽन्या श्रवणस्पृहा
॥१५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).