अध्यायः २१७
लोमहर्षण उवाच:
श्रुत्वैवं यममार्गं ते नरकेषु च यातनाम् । पप्रच्छुश् च पुनर् व्यासं संशयं मुनिसत्तमाः
॥१॥मुनय ऊचुः:
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद । मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः
॥२॥ज्ञातिसम्बन्धिवर्गश् च मित्रवर्गस् तथैव च । गृहं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः । गच्छन्त्य् अमुत्र लोके वै कश् च तान् अनुगच्छति
॥३॥व्यास उवाच:
एकः प्रसूयते विप्रा एक एव हि नश्यति । एकस् तरति दुर्गाणि गच्छत्य् एकस् तु दुर्गतिम्
॥४॥असहायः पिता माता तथा भ्राता सुतो गुरुः । ज्ञातिसम्बन्धिवर्गश् च मित्रवर्गस् तथैव च
॥५॥मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं जनाः । मुहूर्तम् इव रोदित्वा ततो यान्ति पराङ्मुखाः
॥६॥तैस् तच् छरीरम् उत्सृष्टं धर्म एकोऽनुगच्छति । तस्माद् धर्मः सहायश् च सेवितव्यः सदा नृभिः
॥७॥प्राणी धर्मसमायुक्तो गच्छेत् स्वर्गगतिं पराम् । तथैवाधर्मसंयुक्तो नरकं चोपपद्यते
॥८॥तस्मात् पापागतैर् अर्थैर् नानुरज्येत पण्डितः । धर्म एको मनुष्याणां सहायः परिकीर्तितः
॥९॥लोभान् मोहाद् अनुक्रोशाद् भयाद् वाथ बहुश्रुतः । नरः करोत्य् अकार्याणि परार्थे लोभमोहितः
॥१०॥धर्मश् चार्थश् च कामश् च त्रितयं जीवतः फलम् । एतत् त्रयम् अवाप्तव्यम् अधर्मपरिवर्जितम्
॥११॥मुनय ऊचुः:
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । शरीरनिचयं ज्ञातुं बुद्धिर् नोऽत्र प्रजायते
॥१२॥मृतं शरीरं हि नृणां सूक्ष्मम् अव्यक्ततां गतम् । अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति
॥१३॥व्यास उवाच:
पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनोन्तरम् । बुद्धिर् आत्मा च सहिता धर्मं पश्यन्ति नित्यदा
॥१४॥प्राणिनाम् इह सर्वेषां साक्षिभूता दिवानिशम् । एतैश् च सह धर्मो हि तं जीवम् अनुगच्छति
॥१५॥त्वग् अस्थि मांसं शुक्रं च शोणितं च द्विजोत्तमाः । शरीरं वर्जयन्त्य् एते जीवितेन विवर्जितम्
॥१६॥ततो धर्मसमायुक्तः स जीवः सुखम् एधते । इहलोके परे चैव किं भूयः कथयामि वः
॥१७॥मुनय ऊचुः:
तद् दर्शितं भगवता यथा धर्मोऽनुगच्छति । एतत् तु ज्ञातुम् इच्छामः कथं रेतः प्रवर्तते
॥१८॥व्यास उवाच:
अन्नम् अश्नन्ति ये देवाः शरीरस्था द्विजोत्तमाः । पृथिवी वायुर् आकाशम् आपो ज्योतिर् मनस् तथा
॥१९॥ततस् तृप्तेषु भो विप्रास् तेषु भूतेषु पञ्चसु । मनःषष्ठेषु शुद्धात्मा रेतः सम्पद्यते महत्
॥२०॥ततो गर्भः सम्भवति श्लेष्मा स्त्रीपुंसयोर् द्विजाः । एतद् वः सर्वम् आख्यातं किं भूयः श्रोतुम् इच्छथ
॥२१॥मुनय ऊचुः:
आख्यातं नो भगवता गर्भः सञ्जायते यथा । यथा जातस् तु पुरुषः प्रपद्यते तद् उच्यताम्
॥२२॥व्यास उवाच:
आसन्नमात्रपुरुषस् तैर् भूतैर् अभिभूयते । विप्रयुक्तस् तु तैर् भूतैः पुनर् यात्य् अपरां गतिम्
॥२३॥स च भूतसमायुक्तः प्राप्नोति जीवम् एव हि । ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । देवताः पञ्चभूतस्थाः किं भूयः श्रोतुम् इच्छथ
॥२४॥मुनय ऊचुः:
त्वग् अस्थि मांसम् उत्सृज्य तैस् तु भूतैर् विवर्जितः । जीवः स भगवन् क्वस्थः सुखदुःखे समश्नुते
॥२५॥व्यास उवाच:
जीवः कर्मसमायुक्तः शीघ्रं रेतःसमागतः । स्त्रीणां पुष्पं समासाद्य ततः कालेन भो द्विजाः
॥२६॥यमस्य पुरुषैः क्लेशो यमस्य पुरुषैर् वधः । दुःखं संसारचक्रं च नरः क्लेशं च विन्दति
॥२७॥इह लोके स तु प्राणी जन्मप्रभृति भो द्विजाः । सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलम् आश्रितः
॥२८॥यदि धर्मं समायुज्य जन्मप्रभृति सेवते । ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्
॥२९॥अथान्तरान्तरं धर्मम् अधर्मम् उपसेवते । सुखस्यानन्तरं दुःखं स जीवोऽप्य् अधिगच्छति
॥३०॥अधर्मेण समायुक्तो यमस्य विषयं गतः । महादुःखं समासाद्य तिर्यग्योनौ प्रजायते
॥३१॥कर्मणा येन येनेह यस्यां योनौ प्रजायते । जीवो मोहसमायुक्तस् तन् मे शृणुत साम्प्रतम्
॥३२॥यद् एतद् उच्यते शास्त्रैः सेतिहासैश् च छन्दसि । यमस्य विषयं घोरं मर्त्यलोकं प्रवर्तते
॥३३॥इह स्थानानि पुण्यानि देवतुल्यानि भो द्विजाः । तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः
॥३४॥यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः । कर्मभिर् नियतैर् बद्धो जन्तुर् दुःखान्य् उपाश्नुते
॥३५॥येन येन हि भावेन येन वै कर्मणा गतिम् । प्रयाति पुरुषो घोरां तथा वक्ष्याम्य् अतः परम्
॥३६॥अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः । पतितात् प्रतिगृह्याथ खरयोनौ प्रजायते
॥३७॥खरो जीवति वर्षाणि दश पञ्च च भो द्विजाः । खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति
॥३८॥बलीवर्दो मृतश् चापि जायते ब्रह्मराक्षसः । ब्रह्मरक्षस् तु मासांस् त्रींस् ततो जायेत ब्राह्मणः
॥३९॥पतितं याजयित्वा तु कृमियोनौ प्रजायते । तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः
॥४०॥क्रिमिभावाद् विनिर्मुक्तस् ततो जायेत गर्दभः । गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि शूकरः
॥४१॥कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः । श्वा वर्षम् एकं भवति ततो जायेत मानवः
॥४२॥उपाध्यायस्य यः पापं शिष्यः कुर्याद् अबुद्धिमान् । स जन्मानीह संसारे त्रीन् आप्नोति न संशयः
॥४३॥प्राक् श्वा भवति भो विप्रास् ततः क्रव्यात् ततः खरः । प्रेत्य च परिक्लिष्टेषु पश्चाज् जायेत ब्राह्मणः
॥४४॥मनसापि गुरोर् भार्यां यः शिष्यो याति पापकृत् । उदग्रान् प्रैति संसारान् अधर्मेणेह चेतसा
॥४५॥श्वयोनौ तु स सम्भूतस् त्रीणि वर्षाणि जीवति । तत्रापि निधनं प्राप्तः क्रिमियोनौ प्रजायते
॥४६॥कृमिभावम् अनुप्राप्तो वर्षम् एकं तु जीवति । ततस् तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते
॥४७॥यदि पुत्रसमं शिष्यं गुरुर् हन्याद् अकारणम् । आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते
॥४८॥पितरं मातरं चैव यस् तु पुत्रोऽवमन्यते । सोऽपि विप्रा मृतो जन्तुः पूर्वं जायेत गर्दभः
॥४९॥गर्दभत्वं तु सम्प्राप्य दश वर्षाणि जीवति । संवत्सरं तु कुम्भीरस् ततो जायेत मानवः
॥५०॥पुत्रस्य मातापितरौ यस्य रुष्टाव् उभाव् अपि । गुर्वपध्यानतः सोऽपि मृतो जायेत गर्दभः
॥५१॥खरो जीवति मासांश् च दश चापि चतुर्दश । बिडालः सप्त मासांस् तु ततो जायेत मानवः
॥५२॥मातापितराव् आक्रुश्य सारीकः सम्प्रजायते । ताडयित्वा तु ताव् एव जायते कच्छपो द्विजाः
॥५३॥कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । व्यालो भूत्वा तु षण् मासांस् ततो जायेत मानुषः
॥५४॥भर्तृपिण्डम् उपाश्नीनो राजद्विष्टानि सेवते । सोऽपि मोहसमापन्नो मृतो जायेत वानरः
॥५५॥वानरो दश वर्षाणि सप्त वर्षाणि मूषकः । श्वा च भूत्वा तु षण् मासांस् ततो जायेत मानवः
॥५६॥न्यासापहर्ता तु नरो यमस्य विषयं गतः । संसाराणां शतं गत्वा कृमियोनौ प्रजायते
॥५७॥तत्र जीवति वर्षाणि दश पञ्च च भो द्विजाः । दुष्कृतस्य क्षयं कृत्वा ततो जायेत मानुषः
॥५८॥असूयको नरश् चापि मृतो जायेत शार्ङ्गकः । विश्वासहर्ता च नरो मीनो जायेत दुर्मतिः
॥५९॥भूत्वा मीनोऽष्ट वर्षाणि मृगो जायेत भो द्विजाः । मृगस् तु चतुरो मासांस् ततश् छागः प्रजायते
॥६०॥छागस् तु निधनं प्राप्य पूर्णे संवत्सरे ततः । कीटः सञ्जायते जन्तुस् ततो जायेत मानुषः
॥६१॥धान्यान् यवांस् तिलान् माषान् कुलित्थान् सर्षपांश् चणान् । कलायान् अथ मुद्गांश् च गोधूमान् अतसीस् तथा
॥६२॥सस्यान्य् अन्यानि हर्ता च मर्त्यो मोहाद् अचेतनः । सञ्जायते मुनिश्रेष्ठा मूषिको निरपत्रपः
॥६३॥ततः प्रेत्य मुनिश्रेष्ठा मृतो जायेत शूकरः । शूकरो जातमात्रस् तु रोगेण म्रियते पुनः
॥६४॥श्वा ततो जायते मूकः कर्मणा तेन मानवः । भूत्वा श्वा पञ्च वर्षाणि ततो जायेत मानवः
॥६५॥परदाराभिमर्शं तु कृत्वा जायेत वै वृकः । श्वा शृगालस् ततो गृध्रो व्यालः कङ्को बकस् तथा
॥६६॥भ्रातुर् भार्यां तु पापात्मा यो धर्षयति मोहितः । पुंस्कोकिलत्वम् आप्नोति सोऽपि संवत्सरं द्विजाः
॥६७॥सखिभार्यां गुरोर् भार्यां राजभार्यां तथैव च । प्रधर्षयित्वा कामात्मा मृतो जायेत शूकरः
॥६८॥शूकरः पञ्च वर्षाणि दश वर्षाणि वै बकः । पिपीलिकस् तु मासांस् त्रीन् कीटः स्यान् मासम् एव च
॥६९॥एतान् आसाद्य संसारान् कृमियोनौ प्रजायते । तत्र जीवति मासांस् तु कृमियोनौ चतुर्दश
॥७०॥नरोऽधर्मक्षयं कृत्वा ततो जायेत मानुषः । पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुम् इच्छति
॥७१॥सोऽपि विप्रा मृतो जन्तुः क्रिमियोनौ प्रजायते । तत्र जीवति वर्षाणि त्रयोदश द्विजोत्तमाः
॥७२॥अधर्मसङ्क्षये मुक्तस् ततो जायेत मानुषः । देवकार्यम् अकृत्वा तु पितृकार्यम् अथापि वा
॥७३॥अनिर्वाप्य पितॄन् देवान् मृतो जायेत वायसः । वायसः शतवर्षाणि ततो जायेत कुक्कुटः
॥७४॥जायते व्यालकश् चापि मासं तस्मात् तु मानुषः । ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते
॥७५॥सोऽपि मृत्युम् उपागम्य क्रौञ्चयोनौ प्रजायते । क्रौञ्चो जीवति वर्षाणि दश जायेत जीवकः
॥७६॥ततो निधनम् आप्नोति मानुषत्वम् अवाप्नुयात् । वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
॥७७॥ततः सम्प्राप्य निधनं जायते शूकरः पुनः । शूकरो जातमात्रस् तु रोगेण म्रियते द्विजाः
॥७८॥श्वा च वै जायते मूढः कर्मणा तेन भो द्विजाः । श्वा भूत्वा कृतकर्मासौ जायते मानुषस् ततः
॥७९॥तत्रापत्यं समुत्पाद्य मृतो जायेत मूषिकः । कृतघ्नस् तु मृतो विप्रा यमस्य विषयं गतः
॥८०॥यमस्य विषये क्रूरैर् बद्धः प्राप्नोति वेदनाम् । दण्डकं मुद्गरं शूलम् अग्निदण्डं च दारुणम्
॥८१॥असिपत्त्रवनं घोरं वालुकां कूटशाल्मलीम् । एताश् चान्याश् च बहवो यमस्य विषयं गताः
॥८२॥यातनाः प्राप्य घोरास् तु ततो याति च भो द्विजाः । संसारचक्रम् आसाद्य क्रिमियोनौ प्रजायते
॥८३॥क्रिमिर् भवति वर्षाणि दश पञ्च च भो द्विजाः । ततो गर्भं समासाद्य तत्रैव म्रियते नरः
॥८४॥ततो गर्भशतैर् जन्तुर् बहुशः सम्प्रपद्यते । संसारान् सुबहून् गत्वा ततस् तिर्यक् प्रजायते
॥८५॥ततो दुःखम् अनुप्राप्य बहुवर्षगणानि वै । स पुनर्भवसंयुक्तस् ततः कूर्मः प्रजायते
॥८६॥दधि हृत्वा बकश् चापि प्लवो मत्स्यान् असंस्कृतान् । चोरयित्वा तु दुर्बुद्धिर् मधुदंशः प्रजायते
॥८७॥फलं वा मूलकं हृत्वा पूपं वापि पिपीलिकः । चोरयित्वा तु निष्पावं जायते फलमूषकः
॥८८॥पायसं चोरयित्वा तु तित्तिरत्वम् अवाप्नुयात् । हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते
॥८९॥अपो हृत्वा तु दुर्बुद्धिर् वायसो जायते नरः । कांस्यं हृत्वा तु दुर्बुद्धिर् हारीतो जायते नरः
॥९०॥राजतं भाजनं हृत्वा कपोतः सम्प्रजायते । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते
॥९१॥पत्त्रोर्णं चोरयित्वा तु कुररत्वं नियच्छति । कोशकारं ततो हृत्वा नरो जायेत नर्तकः
॥९२॥अंशुकं चोरयित्वा तु शुको जायेत मानवः । चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते
॥९३॥क्रौञ्चः कार्पासिकं हृत्वा मृतो जायेत मानवः । चोरयित्वा नरः पट्टं त्व् आविकं चैव भो द्विजाः
॥९४॥क्षौमं च वस्त्रम् आहृत्य शशो जन्तुः प्रजायते । चूर्णं तु हृत्वा पुरुषो मृतो जायेत बर्हिणः
॥९५॥हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः । वर्णकादींस् तथा गन्धांश् चोरयित्वेह मानवः
॥९६॥चुच्छुन्दरित्वम् आप्नोति विप्रो लोभपरायणः । तत्र जीवति वर्षाणि ततो दश च पञ्च च
॥९७॥अधर्मस्य क्षयं कृत्वा ततो जायेत मानवः । चोरयित्वा पयश् चापि बलाका सम्प्रजायते
॥९८॥यस् तु चोरयते तैलं नरो मोहसमन्वितः । सोऽपि विप्रा मृतो जन्तुस् तैलपायी प्रजायते
॥९९॥अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । अर्थार्थं यदि वा वैरी मृतो जायेत वै खरः
॥१००॥खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते
॥१०१॥मृगो विध्येत शस्त्रेण गते संवत्सरे ततः । हतो मृगस् ततो मीनः सोऽपि जालेन बध्यते
॥१०२॥मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च
॥१०३॥ततस् तु निधनं प्राप्तः कालपर्यायचोदितः । अधर्मस्य क्षयं कृत्वा मानुषत्वम् अवाप्नुयात्
॥१०४॥वाद्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते । तथा पिण्याकसम्मिश्रम् अन्नं यश् चोरयेन् नरः
॥१०५॥स जायते बभ्रुसटो दारुणो मूषिको नरः । दशन् वै मानुषान् नित्यं पापात्मा स द्विजोत्तमाः
॥१०६॥घृतं हृत्वा तु दुर्बुद्धिः काको मद्गुः प्रजायते । मत्स्यमांसम् अथो हृत्वा काको जायेत मानवः
॥१०७॥लवणं चोरयित्वा तु चिरिकाकः प्रजायते । विश्वासेन तु निक्षिप्तं योऽपनिह्नोति मानवः
॥१०८॥स गतायुर् नरस् तेन मत्स्ययोनौ प्रजायते । मत्स्ययोनिम् अनुप्राप्य मृतो जायेत मानुषः
॥१०९॥मानुषत्वम् अनुप्राप्य क्षीणायुर् उपजायते । पापानि तु नरः कृत्वा तिर्यग् जायेत भो द्विजाः
॥११०॥न चात्मनः प्रमाणं तु धर्मं जानाति किञ्चन । ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा
॥१११॥सुखदुःखसमायुक्ता व्याधिमन्तो भवन्त्य् उत । असंवीताः प्रजायन्ते म्लेच्छाश् चापि न संशयः
॥११२॥नराः पापसमाचारा लोभमोहसमन्विताः । वर्जयन्ति हि पापानि जन्मप्रभृति ये नराः
॥११३॥अरोगा रूपवन्तश् च धनिनस् ते भवन्त्य् उत । स्त्रियोऽप्य् एतेन कल्पेन कृत्वा पापम् अवाप्नुयुः
॥११४॥एतेषाम् एव पापानां भार्यात्वम् उपयान्ति ताः । प्रायेण हरणे दोषाः सर्व एव प्रकीर्तिताः
॥११५॥एतद् वै लेशमात्रेण कथितं वो द्विजर्षभाः । अपरस्मिन् कथायोगे भूयः श्रोष्यथ भो द्विजाः
॥११६॥एतन् मया महाभागा ब्रह्मणो वदतः पुरा । सुरर्षीणां श्रुतं मध्ये पृष्टं चापि यथा तथा
॥११७॥मयापि तुभ्यं कार्त्स्न्येन यथावद् अनुवर्णितम् । एतच् छ्रुत्वा मुनिश्रेष्ठा धर्मे कुरुत मानसम्
॥११८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).