मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १५३

3
ब्रह्मपुराणम् · 153

अध्यायः १५३

ब्रह्मोवाच:

भावतीर्थम् इति प्रोक्तं यत्र साक्षाद् भवः स्थितः । अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः

॥१॥

तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम् । सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरन्धरः

॥२॥

प्राचीनबर्हिर् आख्यातः सर्वधर्मेषु पारगः । तिस्रः कोट्योऽर्धकोटिश् च वर्षाणां राज्य आस्थितः

॥३॥

तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः । भवेयं प्रियया वापि पुत्रैर् वा प्रियवस्तुभिः

॥४॥

वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः । विवेकिनां कुलीनानाम् इदम् एवोचितं नृणाम्

॥५॥

स्थीयते विजने क्वापि विरक्तैर् विभवक्षये । तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित्

॥६॥

नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् । तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते

॥७॥

ततः पुत्रार्थम् अकरोद् यज्ञं राजा महामतिः । ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम्

॥८॥

गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः । पुत्रं देहीति राजा वै भवं प्राह स भार्यया

॥९॥

भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् । ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद

॥१०॥

चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः । येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता

॥११॥

किम् अलभ्यं भगवति प्रसन्ने त्रिपुरान्तके । यं नित्यम् अनुवर्तन्ते हरिब्रह्मादयः सुराः

॥१२॥

प्राप्तपुत्रश् च नृपतिस् तीर्थश्रैष्ठ्यम् अयाचत । महापापमहारोगमहाव्यसनिनां नृणाम्

॥१३॥

नानाविपद्गणार्तानां सर्वाभिमतलब्धये । प्रादाज् ज्यैष्ठ्यं भवश् चापि भावतीर्थं तद् उच्यते

॥१४॥

तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् । भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः

॥१५॥

महिमा गौतमीतीरे भावतीर्थं तद् उच्यते । तत्र सप्तति तीर्थानि पुण्यान्य् अखिलदानि च

॥१६॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).