मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ९१

3
ब्रह्मपुराणम् · 91

अध्यायः ९१

ब्रह्मोवाच:

ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् । पितॄणां पुण्यजननं स्मरणाद् अपि पापनुत्

॥१॥

तस्य प्रभाव एष स्यान् मया दृष्टस् तु नारद । ब्राह्मणः कर्षकः कश्चिज् जाबालिर् इति विश्रुतः

॥२॥

न विमुञ्चत्य् अनड्वाहौ मध्यं यातेऽपि भास्करे । प्रतोदेन प्रतुदति पृष्ठतोऽपि च पार्श्वयोः

॥३॥

तौ गावाव् अश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी । सुरभिर् जगतां माता नन्दिने सर्वम् अब्रवीत्

॥४॥

स चापि व्यथितो भूत्वा शम्भवे तन् न्यवेदयत् । शम्भुश् च वृषभं प्राह सर्वं सिध्यतु ते वचः

॥५॥

शिवाज्ञासहितो नन्दी गोजातं सर्वम् आहरत् । नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस् त्वरा

॥६॥

माम् अवोचन् सुरगणा विना गोभिर् न जीव्यते । तान् अवोचं सुरान् सर्वाञ् शङ्करं यात याचत

॥७॥

तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् । ईशोऽपि विबुधान् आह जानाति वृषभो मम

॥८॥

ते वृषं प्रोचुर् अमरा देहि गा उपकारिणः । वृषोऽपि विबुधान् आह गोसवः क्रियतां क्रतुः

॥९॥

ततः प्राप्स्यथ गाः सर्वा या दिव्या याश् च मानुषाः । ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः

॥१०॥

गौतम्याश् च शुभे पार्श्वे गावो ववृधिरे ततः । गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम्

॥११॥

तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् । किञ्चिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे

॥१२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).