अध्यायः ७९
नारद उवाच:
न मनस् तृप्तिम् आधत्ते कथाः शृण्वत् त्वयेरिताः । पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम्
॥१॥क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद । पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम्
॥२॥ब्रह्मोवाच:
तीर्थानां च पृथग् भावं फलं माहात्म्यम् एव च । सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः
॥३॥तथापि किञ्चिद् वक्ष्यामि शृणु नारद यत्नतः । यान्य् उक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च
॥४॥तानि वक्ष्यामि सङ्क्षेपान् नमस्कृत्वा त्रिलोचनम् । यत्रासौ भगवान् आसीत् प्रत्यक्षस् त्र्यम्बको मुने
॥५॥त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् । वाराहम् अपरं तीर्थं त्रिषु लोकेषु विश्रुतम्
॥६॥तस्य रूपं प्रवक्ष्यामि नाम विष्णोर् यथाभवत् । पुरा देवान् पराभूय यज्ञम् आदाय राक्षसः
॥७॥रसातलम् अनुप्राप्तः सिन्धुसेन इति श्रुतः । यज्ञे तलम् अनुप्राप्ते निर्यज्ञा ह्य् अभवन् मही
॥८॥नायं लोकोऽस्ति न परो यज्ञे नष्ट इतीत्वराः । सुरास् तम् एव विविशू रसातलम् अनुद्विषम्
॥९॥नाशक्नुवंस् तु तं जेतुं देवा इन्द्रपुरोगमाः । विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन्
॥१०॥राक्षसस्य तु तत् कर्म यज्ञभ्रंशम् अशेषतः । ततः प्रोवाच भगवान् वाराहं वपुर् आस्थितः
॥११॥शङ्खचक्रगदापाणिर् गत्वा चैव रसातलम् । आनयिष्ये मखं पुण्यं हत्वा राक्षसपुङ्गवान्
॥१२॥स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः । येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक्
॥१३॥जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् । स वराहवपुः श्रीमान् रसातलनिवासिनः
॥१४॥राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् । वाराहरूपी भगवान् मखम् आदाय यज्ञभुक्
॥१५॥येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् । मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात्
॥१६॥तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः । पथस् तस्माद् विनिःसृत्य गङ्गास्रवणम् अभ्यगात्
॥१७॥प्राक्षालयच् च स्वाङ्गानि असृग्लिप्तानि नारद । गङ्गाम्भसा तत्र कुण्डं वाराहम् अभवत् ततः
॥१८॥मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः । दत्तवांस् त्रिदशश्रेष्ठो मुखाद् यज्ञोऽभ्यजायत
॥१९॥ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते । वाराहरूपम् अभवद् एवं वै कारणान्तरात्
॥२०॥तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् । तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
॥२१॥तत्र स्थितोऽपि यः कश्चित् पितॄन् स्मरति पुण्यकृत् । विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गम् आप्नुयुः
॥२२॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).